विभूतिधारणमाहात्म्यवर्णनम्
श्रीनारायण उवाच
भस्मदिग्धशरीराय यो ददाति धनं मुदा ।
तस्य सर्वाणि पापानि विनश्यन्ति न संशयः
॥१॥श्रुतयः स्मृतयः सर्वाः पुराणान्यखिलान्यपि ।
वदन्ति भूतिमाहाम्यं तत्तस्माद्धारयेद्द्विजः
॥२॥सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते
॥३॥योगी सर्वाङ्गकं स्तानमापादतलमस्तकम् ।
त्रिसन्ध्यमाचरेन्नित्यमाशु योगमवाप्नुयात्
॥४॥भस्मस्नानेन पुरुषः कुलस्योद्धारको भवेत् ।
भस्मस्नानं जलस्नानादसंख्येयगुणान्वितम्
॥५॥सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं लभते सर्वं भस्मस्नानान्न संशयः
॥६॥महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।
भस्मस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम्
॥७॥भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते ।
एवमुक्तं शिवेनादौ तदा स्नातः स्वयं शिवः
॥८॥तदाप्रभृति ब्रह्माद्या मुनयश्च शिवार्थिनः ।
सर्वकर्मसु यत्नेन भस्मस्नानं प्रचक्रिरे
॥९॥तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् ।
अनेनैव शरीरेण स हि रुद्रो न संशयः
॥१०॥ये भस्मधारिणं दृष्ट्वा परितृप्ता भवन्ति ते ।
देवासुरमुनीन्द्रैश्च पूज्या नित्यं न संशयः
॥११॥भस्मसञ्छन्नसर्वाङ्गं दृष्ट्वोत्तिष्ठति यः पुमान् ।
तं दृष्ट्वा देवराजोऽपि दण्डवत्प्रणमिष्यति
॥१२॥अभक्ष्यभक्षणं येषां भस्मधारणपूर्वकम् ।
तेषां तद्भक्ष्यमेव स्यान्मुने नात्र विचारणा
॥१३॥यः स्नाति भस्मना नित्यं जले स्नात्वा ततः परम् ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽऽथवादरात्
॥१४॥सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।
आग्नेयं भस्मना स्नानं यतीनां च विशिष्यते
॥१५॥आर्द्रस्नानाद्वरं भस्मस्नानमार्द्रवधो ध्रुवः ।
आर्द्रं तु प्रकृतिं विद्यात्प्रकृतिं बन्धनं विदुः
॥१६॥प्रकृतेस्तु प्रहाणाय भस्मना स्नानमिष्यते ।
भस्मना सदृशं ब्रह्यन्नास्ति लोकत्रयेष्वपि
॥१७॥रक्षार्थं मङ्गलार्थं च पवित्रार्थं पुरा सुरैः ।
भस्म दृष्ट्वा मुने पूर्वं दत्तं देव्यै प्रियेण तु
॥१८॥तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् ।
भवपाशैर्विनिर्मुक्तः शिवलोके महीयते
॥१९॥ज्वररक्षःपिशाचाश्च पूतनाकुष्ठगुल्मकाः ।
भगन्दराणि सर्वाणि चाशीतिर्वातरोगकाः
॥२०॥चतुःषष्टिः पित्तरोगाः श्लेष्मा सप्तत्रिपञ्चकाः ।
व्याघ्रचौरभयं चैवाप्यन्ये दुष्टग्रहा अपि
॥२१॥भस्मस्नानेन नश्यन्ति सिंहेनैव यथा गजाः ।
शुद्धशीतजलेनैव भस्मना च त्रिपुण्ड्रकम्
॥२२॥यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः ।
(भस्मना च त्रिपुण्ड्रं च यः कोऽपि धारयेत्परम् ।
स ब्रह्मलोकमाप्नोति मुक्तपापो न संशयः ।
) यथाविधि ललाटे वै वह्निवीर्यप्रधारणात्
॥२३॥नाशयेल्लिखितां यामीं ललाटस्थां लिपिं ध्रुवम् ।
कण्ठोपरिकृतं पापं नाशयेत्तत्प्रधारणात्
॥२४॥कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् ।
बाह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम्
॥२५॥नाभ्यां शिश्नकृतं पापं गुदे गुदकृतं हरेत् ।
पार्श्वयोर्धारणाद्ब्रह्मन् परस्त्र्यालिङ्गनादिकम्
॥२६॥तद्भस्मधारणं शस्तं सर्वत्रैव त्रिलिङ्गकम् ।
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम्
॥२७॥गुणलोकत्रयाणां च धारणं तेन वै कृतम् ।
भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः
॥२८॥दोषैर्वियुज्यते सद्यो मुच्यते च न संशयः ।
भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात्
॥२९॥भस्मस्नानविशुद्धात्मा आत्मनिष्ठ इति स्मृतः ।
भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः
॥३०॥भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः ।
भूतप्रेतपिशाचाद्या रोगाश्चातीव दुःसहाः
॥३१॥भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः ।
भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात्
॥३२॥भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी पुरा ।
त्रिपुण्ड्रधारिणं दृष्ट्वा भूतप्रेतपुरःसराः
॥३३॥भीताः प्रकम्पिताः शीघ्रं नश्यन्त्येव न संशयः ।
स्मरणादेव रुद्रस्य यथा पापं प्रणश्यति
॥३४॥अप्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना ।
तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम्
॥३५॥कृत्वापि चातुलं पापं मृत्युकालेऽपि यो द्विजः ।
भस्मस्नायी भवेत्कश्चित्क्षिप्रं पापैः प्रमुच्यते
॥३६॥भस्मस्नानाद्धि शुद्धात्मा जितक्रोधो जितेन्द्रियः ।
मत्समीपं समागम्य न स भूयोऽभिवर्तते
॥३७॥वनस्पतिगते सोमे भस्मोद्धूलितविग्रहः ।
अर्चितं शङ्करं दृष्ट्वा सर्वपापैः प्रमुच्यते
॥३८॥आयुष्कामोऽथवा विद्वान्भूतिकामोऽथवा नरः ।
नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विजः
॥३९॥त्रिपुण्ड्रं परमं पुण्यं ब्रह्मविष्णुशिवात्मकम् ।
ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजन्तवः
॥४०॥त्रिपुण्ड्रधारणं दृष्ट्वा पलायन्ते न संशयः ।
कृत्वा शौचादिकं कर्म स्नात्वा तु विमले जले
॥४१॥भस्मनोद्धूलनं कार्यमापादतलमस्तकम् ।
केवलं वारुणं स्नानं देहे बाह्यमलापहम्
॥४२॥विभूतिस्तानमनघं बाह्यान्तरमलापहम् ।
त्यक्त्वापि वारुणं स्नानं तत्परः स्यान्न संशयः
॥४३॥कृतमप्यकृतं सत्यं भस्मस्नानं विना मुने ।
भस्मस्नानं श्रुतिप्रोक्तमाग्नेयं स्नानमुच्यते
॥४४॥अन्तर्बहिश्च संशुद्धं शिवपूजाफलं लभेत् ।
यद्बाह्यमलमात्रस्य नाशकं स्तानमस्ति तत्
॥४५॥तन्नाशयति तीव्रेण प्राणिबाह्यान्तरं मलम् ।
कृत्वापि कोटिशो नित्यं वारुणं स्नानमादरात्
॥४६॥न भवत्येव पूतात्मा भस्मस्नानं विना मुने ।
यद्भस्मस्नानमाहाम्यं तद्वेदो वेद तत्त्वतः
॥४७॥यद्वा वेद महादेवः सर्वदेवशिखामणिः ।
भस्मस्नानमकृत्वैव यः कुर्यात्कर्म वैदिकम्
॥४८॥स तत्कर्मकलार्धार्धमपि नाप्नोति वस्तुतः ।
यः करिष्यति यत्नेन भस्मस्नानं यथाविधि
॥४९॥स एवैकः सर्वकर्मस्वधिकारी श्रुतिश्रुतः ।
पावनं पावनानां च भस्मस्नानं श्रुतिश्रुतम्
॥५०॥न करिष्यति यो मोहात्स महापातकी भवेत् ।
अनन्तैर्वारुणैः स्नानैर्यत्पुण्यं प्राप्यते द्विजैः
॥५१॥ततोऽनन्तगुणं पुण्यं भस्मस्नानादवाप्यते ।
कालत्रयेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः
॥५२॥भस्मस्नानं स्मृतं श्रौतं तत्त्यागी पतितो भवेत् ।
मूत्राद्युत्सर्जनान्ते तु भस्मस्नानं प्रयत्नतः
॥५३॥कर्तव्यमन्यथा पूता न भविष्यन्ति मानवाः ।
विधिवत्कृतशौचोऽपि भस्मस्नानं विना द्विजः
॥५४॥न भविष्यति पूतात्मा नाधिकार्यपि कर्मणि ।
अपानवायुनिर्याते जृम्भणे स्कन्दने क्षुते
॥५५॥श्लेष्मोद्गारेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः ।
श्रीभस्मस्नानमाहात्म्यस्यैकदेशोऽत्र वर्णितः
॥५६॥पुनश्च सम्प्रवक्ष्यामि भस्मस्नानोत्थितं फलम् ।
सावधानेन मनसा श्रोतव्यं मुनिपुङ्गव
॥५७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे विभूतिधारणमाहात्म्यवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥