मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय ७

3
एकादशस्कन्धः · 7

रुद्राक्षमाहात्म्यवर्णनम्

श्रीनारायण उवाच

एवं नारद षड्वक्त्रो गिरिशेन विबोधितः ।

रुद्राक्षमहिमानं च ज्ञात्वासीत्स कृतार्थकः

॥१॥

इत्थं भूतानुभावोऽयं रुद्राक्षो वर्णितो मया ।

सदाचारप्रसङ्गेन शृणु चान्यत्समाहितः

॥२॥

यथा रुद्राक्षमहिमा वर्णितोऽनन्तपुण्यदः ।

लक्षणं मन्त्रविन्यासं तथाहं वर्णयामि ते

॥३॥

लक्षं तु दर्शनात्युण्यं कोटिस्तत्स्पर्शनाद्भवेत् ।

तस्य कोटिगुणं पुण्यं लभते धारणान्नरः

॥४॥

लक्षकोटिसहस्राणि लक्षकोटिशतानि च ।

तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात्

॥५॥

रुद्राक्षाणां तु भद्राक्षधारणात्स्यान्महाफलम् ।

धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम्

॥६॥

बदरीफलमात्रं तु प्रोच्यते मध्यमं बुधैः ।

अधमं चणमात्रं स्यात्प्रतिज्ञैषा मयोदिता

॥७॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः

॥८॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्राः प्रकीर्तिताः

॥९॥

ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।

पीतान्वैश्यस्तु बिभृयात्कृष्णान् शूद्रस्तु धारयेत्

॥१०॥

समाः स्निग्धा दृढास्तद्वत्कण्टकैः संयुताः शुभाः ।

कृमिदष्टाञ्छिन्नभिन्नान्कण्टकैरहितांस्तथा

॥११॥

व्रणयुक्तानावृतांश्च षड्रुद्राक्षांस्तु वर्जयेत् ।

स्वयमेव कृतद्वारो रुद्राक्षः स्यादिहोत्तमः

॥१२॥

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ।

समान्स्निग्धान्दृढान्वृत्तान्क्षौमसूत्रेण धारयेत्

॥१३॥

सर्वगात्रेषु साम्येन समानातिविलक्षणा ।

निर्घर्षे हेमलेखाभा यत्र लेखा प्रदृश्यते

॥१४॥

तदक्षमुत्तमं विद्यात्स धार्यः शिवपूजकैः ।

शिखायामेकरुद्राक्षं त्रिंशद्वै शिरसा वहेत्

॥१५॥

षट्त्रिंशच्च गले धार्या बाह्वोः षोडश षोडश ।

मणिबन्धे द्वादशाक्षान्स्कन्धे पञ्चाशतं भवेत्

॥१६॥

अष्टोत्तरशतैर्मालोपवीतं च प्रकल्पयेत् ।

द्विसरं त्रिसरं वापि बिभृयात्कण्ठदेशतः

॥१७॥

कुण्डले मुकुटे चैव कर्णिकाहारकेषु च ।

केयूरे कटके चैव कुक्षिवंशे तथैव च

॥१८॥

सुप्ते पीते सर्वकालं रुद्राक्षं धारयेन्नरः ।

त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते

॥१९॥

सहस्रमुत्तमं प्रोक्तं चैवं भेदेन धारयेत् ।

शिरसीशानमन्त्रेण कर्णे तत्पुरुषेण च

॥२०॥

अघोरेण ललाटे तु तेनैव हृदयेऽपि च ।

अघोरबीजमन्त्रेण करयोर्धारयेत्पुनः

॥२१॥

पञ्चाशदक्षग्रथितां वामदेवेन चोदरे ।

पञ्चब्रह्मभिरङ्गैश्चाप्येवं रुद्राक्षधारणम्

॥२२॥

ग्रथितान्मूलमन्त्रेण सर्वानक्षांस्तु धारयेत् ।

एकवक्त्रस्तु रुद्राक्षः परतत्त्वप्रकाशकः

॥२३॥

परतत्त्वधारणाच्च जायते तत्प्रकाशनम् ।

द्विवक्त्रस्तु मुनिश्रेष्ठ अर्धनारीश्वरो भवेत्

॥२४॥

धारणादर्धनारीशः प्रीयते तस्य नित्यशः ।

त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात्

॥२५॥

त्रिमुखश्चैव रुद्राक्षोऽप्यग्नित्रयस्वरूपकः ।

तद्धारणाच्च हुतभुक् तस्य तुष्यति नित्यशः

॥२६॥

चतुर्मुखस्तु रुद्राक्षः पितामहस्वरूपकः ।

तद्धारणान्महाश्रीमान्महदारोग्यमुत्तमम्

॥२७॥

महती ज्ञानसम्पत्तिः शुद्धये धारयेन्नरः ।

पञ्चमुखस्तु रुद्राक्षः पञ्चब्रह्मस्वरूपकः

॥२८॥

तस्य धारणमात्रेण सन्तुष्यति महेश्वरः ।

षड्वक्त्रश्चैव रुद्राक्षः कार्तिकेयाधिदैवतः

॥२९॥

विनायकं चापि देवं प्रवदन्ति मनीषिणः ।

सप्तवक्त्रस्तु रुद्राक्षः सप्तमात्राधिदैवतः

॥३०॥

सप्ताश्वदैवतश्चैव मुनिसप्तकदैवतः ।

तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम्

॥३१॥

महती ज्ञानसम्पत्तिः शुचिर्वै धारयेन्नरः ।

अष्टवक्त्रस्तु रुद्राक्षोऽप्यष्टमात्राधिदैवतः

॥३२॥

वस्वष्टकप्रीतिकरो गङ्गाप्रीतिकरः शुभः ।

तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः

॥३३॥

नववक्त्रस्तु रुद्राक्षो यमदेव उदाहृतः ।

तद्धारणाद्यमभयं न भवत्येव सर्वथा

॥३४॥

दशवक्त्रस्तु रुद्राक्षो दशाशादैवतः स्मृतः ।

दशाशाप्रीतिजनको धारणे नात्र संशयः

॥३५॥

एकादशमुखस्त्वक्षो रुद्रैकादशदैवतः ।

तमिन्द्रदैवतं चाहुः सदा सौख्यविवर्धनम्

॥३६॥

रुद्राक्षो द्वादशमुखो महाविष्णुस्वरूपकः ।

द्वादशादित्यदैवश्च बिभर्त्येव हि तत्परः

॥३७॥

त्रयोदशमुखश्चाक्षः कामदः सिद्धिदः शुभः ।

तस्य धारणमात्रेण कामदेवः प्रसीदति

॥३८॥

चतुर्दशमुखश्चाक्षो रुद्रनेत्रसमुद्भवः ।

सर्वव्याधिहरश्चैव सर्वारोग्यप्रदायकः

॥३९॥

मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च ।

श्लेष्मातकं विड्वराहं भक्षणे वर्जयेत्ततः

॥४०॥

ग्रहणे विषुवे चैव सङ्क्रमे त्वयने तथा ।

दर्शे च पौर्णमासे च पुण्येषु दिवसेष्वपि ।

रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते

॥४१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे रुद्राक्षमाहात्म्यवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥