मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय १०

3
एकादशस्कन्धः · 10

भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्

श्रीनारायण उवाच

आग्नेयं गौणमज्ञानध्वंसकं ज्ञानसाधकम् ।

गौणं नानाविधं विद्धि ब्रह्मन्ब्रह्मविदांवर

॥१॥

अग्निहोत्राग्निजं तद्वद्विरजानलजं मुने ।

औपासनसमुत्पन्नं समिदग्निसमुद्भवम्

॥२॥

पचनाग्निसमुत्पन्नं दावानलसमुद्भवम् ।

त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम्

॥३॥

विरजानलजं चैव धार्यं भस्म महामुने ।

औपासनसमुत्पन्नं गृहस्थानां विशेषतः

॥४॥

समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा ।

शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम्

॥५॥

अन्येषामपि सर्वेषां धार्यं दावानलोद्भवम् ।

कालश्चित्रा पौर्णमासी देशः स्वीयः परिग्रहः

॥६॥

क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः ।

तत्र पूर्वत्रयोदश्यां सुस्नातः सुकृताह्निकः

॥७॥

अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च ।

पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम्

॥८॥

शुद्धयज्ञोपवीती च शुक्लमाल्यानुलेपनः ।

दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च

॥९॥

प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ।

ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना

॥१०॥

व्रतमेतत्करोमीति भवेत्सङ्कल्पदीक्षितः ।

यावच्छरीरपातं वा द्वादशाब्दमथापि वा

॥११॥

तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ।

तदर्धं वा तदर्धं वा मासमेकमथापि वा

॥१२॥

दिनद्वादशकं वापि दिनषट्कमथापि वा ।

तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि

॥१३॥

अग्निमाधाय विधिवद्विरजाहोमकारणात् ।

हुत्वाऽऽज्येन समिद्भिश्च चरुणा च यथाविधि

॥१४॥

पूताहात्पुरतो भूयस्तत्त्वानां शुद्धिमुद्दिशन् ।

जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः

॥१५॥

तत्त्वान्येतानि मे देहे शुध्यन्तामित्यनुस्मरन् ।

पश्चाद्भूतादितन्मात्राः पञ्चकर्मेन्द्रियाणि च

॥१६॥

ज्ञानकर्मविभेदेन पञ्च पञ्च विभागशः ।

त्वगादिधातवः सप्त पञ्च प्राणादिवायवः

॥१७॥

मनो बुद्धिरहङ्कारो गुणाः प्रकृतिपूरुषौ ।

रागो विद्या कला चैव नियतिः काल एव च

॥१८॥

माया च शुद्धविद्या च महेश्वरसदाशिवौ ।

शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः

॥१९॥

मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजो भवेत् ।

अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च

॥२०॥

न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन् हविष्यभुक् ।

प्रभाते च चतुर्दश्यां कृत्वा सर्वं पुरोदितम्

॥२१॥

तस्मिन्दिने निराहारः कालशेषं समापयेत् ।

प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः

॥२२॥

उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः ।

ततश्च जटिलो मुण्डः शिखैकजट एव च

॥२३॥

भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्स्याद्दिगम्बरः ।

अन्यः काषायवसनश्चर्मचीराम्बरोऽथवा

॥२४॥

एकाम्बरो वल्कलवान्भवेद्दण्डी च मेखली ।

प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम्

॥२५॥

सङ्कलीकृत्य तद्भस्म विरजानलसम्भवम् ।

अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात्

॥२६॥

विमृज्याङ्गानि मूर्धादिचरणान्तं च तैः स्पृशेत् ।

ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना

॥२७॥

सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ।

ततश्च पुण्ड्रं रचयेत्त्रियायुषसमाह्वयम्

॥२८॥

शिवभावं समागम्य शिवभावमथाचरेत् ।

कुर्यात्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम्

॥२९॥

भुक्तिमुक्तिप्रदं चैव पशुत्वं विनिवर्तयेत् ।

तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम्

॥३०॥

पूजनीयो महादेवो लिङ्गमूर्तिः सदाशिवः ।

भस्मस्नानं महापुण्यं सर्वसौख्यकरं परम्

॥३१॥

आयुष्यं बलमारोग्यं श्रीपुष्टिवर्धनं यतः ।

रक्षार्थं मङ्गलार्थं च सर्वसम्पत्समृद्धये

॥३२॥

भस्मस्निग्धमनुष्याणां महामारीभयं न च ।

शान्तिकं पौष्टिकं भस्म कामदं च त्रिधा भवेत्

॥३३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे भस्ममाहात्म्ये पाशुपतव्रतवर्णनं नाम दशमोऽध्यायः ॥ १० ॥