क्षमाहात्म्यवर्णनम्
श्रीनारायण उवाच
(शुद्धं स्मार्तं चाचमनं पौराणं वैदिकं तथा ।
तान्त्रिकं श्रौतमित्याहुः षड्विधं श्रुतिचोदितम् ।
विण्मूत्रादिकशौचं च शुद्धं च परिकीर्तितम् ।
स्मार्तं पौराणिकं कर्म आचान्ते विधिपूर्वकम् ।
वैदिकं श्रौत्रमित्यादि ब्रह्मयज्ञादिपूर्वकम् ।
अस्त्रविद्यादिकं कर्म तान्त्रिको विधिरुच्यते ।
) स्मृत्वा चोङ्कारगायत्रीं निबध्नीयाच्छिखां तथा ।
पुनराचम्य हृदयं बाहू स्कन्धौ च संस्पृशेत्
॥१॥क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते ।
पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत्
॥२॥अग्निरापश्च वेदाश्च सोमः सूर्योऽनिलस्तथा ।
सर्वे नारद विप्रस्य कर्णे तिष्ठन्ति दक्षिणे
॥३॥ततस्तु गत्वा नद्यादौ प्रातःस्नानं विशोधनम् ।
समाचरेन्मुनिश्रेष्ठ देहसंशुद्धिहेतवे
॥४॥अत्यन्तमलिनो देहो नवद्वारैर्मलं वहन् ।
सदाऽऽस्ते तच्छोधनाय प्रातःस्नानं विधीयते
॥५॥अगम्यागमनात्पापं यच्च पापं प्रतिग्रहात् ।
रहस्याचरितं पापं मुच्यते स्नानकर्मणा
॥६॥अस्नातस्य क्रियाः सर्वा भवन्ति विफला यतः ।
तस्मात्प्रातश्चरेत्स्नानं नित्यमेव दिने दिने
॥७॥दर्भयुक्तश्चरेत्स्नानं तथा सन्ध्याभिवन्दनम् ।
सप्ताहं प्रातरस्नायी सन्ध्याहीनस्त्रिभिर्दिनैः
॥८॥द्वादशाहमनग्निः सन्द्विजः शूद्रत्वमाप्नुयात् ।
अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः
॥९॥प्रातर्न तु तथा स्नायाद्धोमकाले विगर्हितः ।
गायत्र्यास्तु परं नास्ति इह लोके परत्र च
॥१०॥गायन्तं त्रायते यस्माद्गायत्रीत्यभिधीयते ।
प्रणवेन तु संयुक्तां व्याहृतित्रयसंयुताम्
॥११॥वायुं वायौ जयेद्विप्रः प्राणसंयमनत्रयात् ।
ब्राह्मणः श्रुतिसम्पन्नः स्वधर्मनिरतः सदा
॥१२॥स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन ।
गौशृङ्गे सर्षपो यावत् तावद्येषां न स स्थिरः
॥१३॥न तारयन्त्युभौ पक्षौ पितॄनेकोत्तरं शतम् ।
सगर्भो जपसंयुक्तस्त्वगर्भो ध्यानमात्रकः
॥१४॥स्नानाङ्गतर्पणं कृत्वा देवर्षिपितृतोषकम् ।
शुद्धे वस्त्रे परीधाय जलाद्बहिरुपागतः
॥१५॥विभूतिधारणं कार्यं रुद्राक्षाणां च धारणम् ।
क्रमयोगेन कर्तव्यं सर्वदा जपसाधकैः
॥१६॥रुद्राक्षान्कण्ठदेशे दशनपरिमिता- न्मस्तके विंशती द्वे षट् षट् कर्णप्रदेशे करयुगलकृते द्वादश द्वादशैव ।
बाह्वोरिन्दोः कलाभिर्नयनयुगकृते त्वेकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकण्ठः
॥१७॥बद्ध्वा स्वर्णेन रुद्राक्षं रजतेनाथवा मुने ।
शिखायां धारयेन्नित्यं कर्णयोर्वा समाहितः
॥१८॥यज्ञोपवीते हस्ते वा कण्ठे तुन्देऽथवा नरः ।
श्रीमत्पञ्चाक्षरेणैव प्रणवेन तथापि वा
॥१९॥निर्व्याजभक्त्या मेधावी रुद्राक्षं धारयेन्मुदा ।
रुद्राक्षधारणं साक्षाच्छिवज्ञानस्य साधनम्
॥२०॥रुद्राक्षं यच्छिखायां तत्तारतत्त्वमिति स्मरेत् ।
कर्णयोरुभयोर्ब्रह्मन् देवं देवीं च भावयेत्
॥२१॥यज्ञोपवीते वेदांश्च तथा हस्ते दिशः स्मरेत् ।
कण्ठे सरस्वतीं देवीं पावकं चापि भावयेत्
॥२२॥सर्वाश्रमाणां वर्णानां रुद्राक्षाणां च धारणम् ।
कर्तव्यं मन्त्रतः प्रोक्तं द्विजानां नान्यवर्णिनाम्
॥२३॥रुद्राक्षधारणाद्रुद्रो भवत्येव न संशयः ।
पश्यन्नपि निषिद्धांश्च तथा शृण्वन्नपि स्मरन्
॥२४॥जिघ्रन्नपि तथा चाश्नन् प्रलपन्नपि सन्ततम् ।
कुर्वन्नपि सदा गच्छन्विसृजन्नपि मानवः
॥२५॥रुद्राक्षधारणादेव सर्वपापैर्न लिप्यते ।
अनेन भुक्तं देवेन भुक्तं यत्तु तथा भवेत्
॥२६॥पीतं रुद्रेण तत्पीतं घ्रातं घ्रातं शिवेन तत् ।
रुद्राक्षधारणे लज्जा येषामस्ति महामुने
॥२७॥तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ।
रुद्राक्षधारिणं दृष्ट्वा परिवादं करोति यः
॥२८॥उत्पत्तौ तस्य साङ्कर्यमस्त्वेवेति विनिश्चयः ।
रुद्राक्षधारणादेव रुद्रो रुद्रत्वमाप्नुयात्
॥२९॥मुनयः सत्यसङ्कल्पा ब्रह्मा ब्रह्मत्वमागतः ।
रुद्राक्षधारणाच्छ्रेष्ठं न किञ्चिदपि विद्यते
॥३०॥रुद्राक्षधारिणे भक्त्या वस्त्रं धान्यं ददाति यः ।
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति
॥३१॥रुद्राक्षधारिणं श्राद्धे भोजयेत विमोदतः ।
पितृलोकमवाप्नोति नात्र कार्या विचारणा
॥३२॥रुद्राक्षधारिणः पादौ प्रक्षाल्याद्भिः पिबेन्नरः ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते
॥३३॥हारं वा कटकं वापि सुवर्णं वा द्विजोत्तमः ।
रुद्राक्षसहितं भक्त्या धारयन् रुद्रतामियात्
॥३४॥रुद्राक्षं केवलं वापि यत्र कुत्र महामते ।
समन्त्रकं वा मन्त्रेण रहितं भाववर्जितम्
॥३५॥यो वा को वा नरो भक्त्या धारयेल्लज्जयापि वा ।
सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात्
॥३६॥अहो रुद्राक्षमाहात्म्यं मया वक्तुं न शक्यते ।
तस्मात्सर्वप्रयत्नेन कुर्याद्रुद्राक्षधारणम्
॥३७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे सदाचारनिरूपणे रुद्राक्षमाहात्म्यवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥