मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय ५

3
एकादशस्कन्धः · 5

रुद्राक्षजपमालाविधानवर्णनम्

ईश्वर उवाच

लक्षणं जपमालायाः शृणु वक्ष्यामि षण्मुख ।

रुद्राक्षस्य मुखं ब्रह्मा बिन्दू रुद्र इतीरितः

॥१॥

विष्णुः पुच्छं भवेच्चैव भोगमोक्षफलप्रदम् ।

पञ्चविंशतिभिश्चाक्षैः पञ्चवक्त्रैः सकण्टकैः

॥२॥

रक्तवर्णैः सितैर्मिश्रैः कृतरन्ध्रविदर्भितैः ।

अक्षसूत्रं प्रकर्तव्यं गोपुच्छवलयाकृति

॥३॥

वक्त्रं वक्त्रेण संयोज्य पुच्छं पुच्छेन योजयेत् ।

मेरुमूर्ध्वमुखं कुर्यात्तदूर्ध्वं नागपाशकम्

॥४॥

एवं संग्रथितां मालां मन्त्रसिद्धिप्रदायिनीम् ।

प्रक्षाल्य गन्धतोयेन पञ्चगव्येन चोपरि

॥५॥

ततः शिवाम्भसाऽऽक्षाल्य ततो मन्त्रगणान्न्यसेत् ।

स्पृष्ट्वा शिवास्त्रमन्त्रेण कवचेनावगुण्ठयेत्

॥६॥

मूलमन्त्रं न्यसेत्पश्चात्पूर्ववत्कारयेत्तथा ।

सद्योजातादिभिः प्रोक्ष्य यावदष्टोत्तरं शतम्

॥७॥

मूलमन्त्रं समुच्चार्य शुद्धभूमौ निधाय च ।

तस्योपरि न्यसेत्साम्बं शिवं परमकारणम्

॥८॥

प्रतिष्ठिता भवेन्माला सर्वकामफलप्रदा ।

यस्य देवस्य यो मन्त्रस्तां तेनैवाभिपूजयेत्

॥९॥

मूर्ध्नि कण्ठेऽथवा कर्णे न्यसेद्वा जपमालिकाम् ।

रुद्राक्षमालया चैवं जप्तव्यं नियतात्मना

॥१०॥

कण्ठे मूर्ध्नि हृदि प्रान्ते कर्णे बाहुयुगेऽथवा ।

रुद्राक्षधारणं नित्यं भक्त्या परमया युतः

॥११॥

किमत्र बहुनोक्तेन वर्णनेन पुनः पुनः ।

रुद्राक्षधारणं नित्यं तस्मादेतत्प्रशस्यते

॥१२॥

स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने ।

प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः

॥१३॥

अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् ।

कुर्वन्विप्रस्तु मोहेन नरके पतति ध्रुवम्

॥१४॥

रुद्राक्षं धारयेन्मूर्ध्नि कण्ठे सूत्रे करेऽथवा ।

सुवर्णमणिसम्भिन्नं शुद्धं नान्यैर्धृतं शिवम्

॥१५॥

नाशुचिर्धारयेदक्षं सदा भक्त्यैव धारयेत् ।

रुद्राक्षतरुसम्भूतवातोद्भूततृणान्यपि

॥१६॥

पुण्यलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ।

रुद्राक्षं धारयन्पापं कुर्वन्नपि च मानवः

॥१७॥

सर्वं तरति पाप्मानं जाबालश्रुतिराह हि ।

पशवो हि च रुद्राक्षधारणाद्यान्ति रुद्रताम्

॥१८॥

किमु ये धारयन्ति स्म नरा रुद्राक्षमालिकाम् ।

रुद्राक्षः शिरसा ह्येको धार्यो रुद्रपरैः सदा

॥१९॥

ध्वंसनं सर्वदुःखानां सर्वपापविमोचनम् ।

व्याहरन्ति च नामानि ये शम्भोः परमात्मनः

॥२०॥

रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः ।

रुद्राक्षधारणं कार्यं सर्वश्रेयोऽर्थिभिर्नृभिः

॥२१॥

कर्णपाशे शिखायां च कण्ठे हस्ते तथोदरे ।

महादेवश्च विष्णुश्च ब्रह्मा तेषां विभूतयः

॥२२॥

देवाश्चान्ये तथा भक्त्या खलु रुद्राक्षधारिणः ।

गोत्रर्षयश्च सर्वेषां कूटस्था मूलरूपिणः

॥२३॥

तेषां वंशप्रसूताश्च मुनयः सकला अपि ।

श्रौतधर्मपराः शुद्धाः खलु रुद्राक्षधारिणः

॥२४॥

श्रद्धा न जायते साक्षाद्वेदसिद्धे विमुक्तिदे ।

बहूनां जन्मनामन्ते महादेवप्रसादतः

॥२५॥

रुद्राक्षधारणे वाञ्छा स्वभावादेव जायते ।

रुद्राक्षस्य तु माहात्म्यं जाबालैरादरेण तु

॥२६॥

पठ्यते मुनिभिः सर्वैर्मया पुत्र तथैव च ।

रुद्राक्षस्य फलं चैव त्रिषु लोकेषु विश्रुतम्

॥२७॥

फलस्य दर्शने पुण्यं स्पर्शात्कोटिगुणं भवेत् ।

शतकोटिगुणं पुण्यं धारणाल्लभते नरः

॥२८॥

लक्षकोटिसहस्राणि लक्षकोटिशतानि च ।

जपाच्च लभते नित्यं नात्र कार्या विचारणा

॥२९॥

हस्ते चोरसि कण्ठे च कर्णयोर्मस्तके तथा ।

रुद्राक्षं धारयेद्यस्तु स रुद्रो नात्र संशयः

॥३०॥

अवध्यः सर्वभूतानां रुद्रवद्धि चरेद्भुवि ।

सुराणामसुराणां च वन्दनीयो यथा शिवः

॥३१॥

रुद्राक्षधारी सततं वन्दनीयस्तथा नरैः ।

उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः

॥३२॥

मुच्यते सर्वपापेभ्यो रुद्राक्षस्य तु धारणात् ।

कण्ठे रुद्राक्षमाबध्य श्वापि वा म्रियते यदि

॥३३॥

सोऽपि मुक्तिमवाप्नोति किं पुनर्मानुषोऽपि सः ।

जपध्यानविहीनोऽपि रुद्राक्षं यदि धारयेत्

॥३४॥

सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।

एकं वापि हि रुद्राक्षं कृत्वा यत्नेन धारयेत्

॥३५॥

एकविंशतिमुद्धृत्य रुद्रलोके महीयते ।

अतः परं प्रवक्ष्यामि रुद्राक्षस्य पुनर्विधिम्

॥३६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षजपमालाविधानवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥