मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय १३

3
एकादशस्कन्धः · 13

त्रिपुण्डधारणमाहात्म्यवर्णनम्

श्रीनारायण उवाच

महापातकसङ्घाश्च पातकान्यपराण्यपि ।

नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा

॥१॥

एकं भस्म धृतं येन तस्य पुण्यफलं शृणु ।

यतीनां ज्ञानदं प्रोक्तं वानस्थानां विरक्तिदम्

॥२॥

गृहस्थानां मुने तद्वद्धर्मवृद्धिकरं तथा ।

ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च

॥३॥

शूद्राणां पुण्यदं नित्यमन्येषां पापनाशनम् ।

भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम्

॥४॥

रक्षार्थं सर्वभूतानां विधत्ते वैदिकी श्रुतिः ।

भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम्

॥५॥

यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः ।

भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम्

॥६॥

सर्वधर्मतया तेषां विधत्ते वैदिकी श्रुतिः ।

भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम्

॥७॥

माहेश्वराणां लिङ्गार्थं विधत्ते वैदिकी श्रुतिः ।

भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम्

॥८॥

विज्ञानार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः ।

शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा

॥९॥

हिरण्यगर्भेण तदवतारैर्वरुणादिभिः ।

देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मकम्

॥१०॥

उमादेव्या च लक्ष्या च वाचा चान्याभिरास्तिकैः ।

सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना

॥११॥

यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः ।

मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना

॥१२॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रेरपि च सङ्करैः ।

अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना

॥१३॥

उद्धूलनं त्रिपुण्ड्रं च यैः समाचरितं मुदा ।

त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्गव

॥१४॥

शिवलिङ्गं मणिः सख्यं मन्त्रः पञ्चाक्षरस्तथा ।

विभूतिरौषधं पुंसां मुक्तिस्त्रीवश्यकर्मणि

॥१५॥

भुनक्ति यत्र भस्माङ्गो मूर्खो वा पण्डितोऽपि वा ।

तत्र भुङ्क्ते महादेवः सपत्नीको वृषध्वजः

॥१६॥

भस्मसञ्छन्नसर्वाङ्गमनुगच्छति यः पुमान् ।

सर्वपातकयुक्तोऽपि पूजितो मानवोऽचिरात्

॥१७॥

भस्मसञ्छन्नसर्वाङ्गं यः स्तौति श्रद्धया सह ।

सर्वपातकयुक्तोऽपि पूज्यते मानवोऽचिरात्

॥१८॥

त्रिपुण्ड्रधारिणे भिक्षाप्रदानेन हि केवलम् ।

तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्

॥१९॥

येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना कृतम् ।

कीकटेष्वपि देशेषु यत्र भूतिविभूषणः

॥२०॥

मानवस्तु वसेन्नित्यं काशीक्षेत्रसमं हि तत् ।

दुःशीलः शीलयुक्तो वा योगयुक्तोऽप्यलक्षणः

॥२१॥

भूतिशासनयुक्तो वा स पूज्यो मम पुत्रवत् ।

छद्मनापि चरेद्यो हि भूतिशासनमैश्वरम्

॥२२॥

सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि ।

सम्पर्काल्लीलया वापि भयाद्वा धारयेत्तु यः

॥२३॥

विधियुक्तो विभूतिं तु स च पूज्यो यथा ह्यहम् ।

शिवस्य विष्णोर्देवानां ब्रह्मणस्तृप्तिकारणम्

॥२४॥

पार्वत्याश्च महालक्ष्या भारत्यास्तृप्तिकारणम् ।

न दानेन न यज्ञेन न तपोभिः सुदुर्लभैः

॥२५॥

न तीर्थयात्रया पुण्यं त्रिपुण्ड्रेण च लभ्यते ।

दानं यज्ञाश्च धर्माश्च तीर्थयात्राश्च नारद

॥२६॥

ध्यानं तपस्त्रिपुण्ड्रस्य कलां नार्हन्ति षोडशीम् ।

यथा राजा स्वचिह्नाङ्कं स्वजनं मन्यते सदा

॥२७॥

तथा शिवस्त्रिपुण्ड्राङ्कं स्वकीयमिव मन्यते ।

द्विजातिर्वान्यजातिर्वा शुद्धचित्तेन भस्मना

॥२८॥

धारयेद्यस्त्रिपुण्ड्राङ्कं रुद्रस्तेन वशीकृतः ।

त्यक्तसर्वाश्रमाचारो लुप्तसर्वक्रियोऽपि सः

॥२९॥

सकृत्तिर्यक्त्रिपुण्ड्राङ्कं धारयेत्सोऽपि मुच्यते ।

नास्य ज्ञानं परीक्षेत न कुलं न व्रतं तथा

॥३०॥

त्रिपुण्ड्राङ्कितभालेन पूज्य एव हि नारद ।

शिवमन्त्रात्परो मन्त्रो नास्ति तुल्यं शिवात्परम्

॥३१॥

शिवार्चनात्परं पुण्यं न हि तीर्थं च भस्मना ।

रुद्राग्नेर्यत्परं तीर्थं तद्भस्म परिकीर्तितम्

॥३२॥

ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम् ।

अन्त्यजो वाधमो वापि मूर्खो वा पण्डितोऽपि वा

॥३३॥

यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः ।

तस्मिन्सदाशिवः सोमः सर्वभूतगणैर्वृतः ।

सर्वतीर्थेश्च संयुक्तः सान्निध्यं कुरुते सदा

॥३४॥

एतानि पञ्चशिवमन्त्रपवित्रितानि भस्मानि कामदहनाङ्गविभूषितानि ।

त्रैपुण्ड्रकाणि रचितानि ललाटपट्टे लुम्पन्ति दैवलिखितानि दुरक्षराणि

॥३५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे त्रिपुण्डधारणमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥