मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय ४

3
एकादशस्कन्धः · 4

रुद्राक्षमाहात्म्यवर्णनम्

नारद उवाच

एवंभूतानुभावोऽयं रुद्राक्षो भवतानघ ।

वर्णितो महतां पूज्यः कारणं तत्र किं वद

॥१॥

श्रीनारायण उवाच

एवमेव पुरा पृष्टो भगवान् गिरिशः प्रभुः ।

षण्मुखेन च रुद्रस्तं यदुवाच शृणुष्व तत्

॥२॥

ईश्वर उवाच

शृणु षण्मुख तत्त्वेन कथयामि समासतः ।

त्रिपुरो नाम दैत्यस्तु पुराऽऽसीत्सर्वदुर्जयः

॥३॥

जितास्तेन सुराः सर्वे बह्मविष्ण्वादिदेवताः ।

सर्वैस्तु कथिते तस्मिंस्तदाहं त्रिपुरं प्रति

॥४॥

अचिन्तयं महाशस्त्रमघोराख्यं मनोहरम् ।

सर्वदेवमयं दिव्यं ज्वलन्तं घोररूपि यत्

॥५॥

त्रिपुरस्य वधार्थाय देवानां तारणाय च ।

सर्वविघ्नोपशमनमघोरास्त्रमचिन्तयम्

॥६॥

दिव्यवर्षसहस्रं तु चक्षुरुन्मीलितं मया ।

पश्चान्ममाकुलाक्षिभ्यः पतिता जलबिन्दवः

॥७॥

तत्राश्रुबिन्दुतो जाता महारुद्राक्षवृक्षकाः ।

ममाज्ञया महासेन सर्वेषां हितकाम्यया

॥८॥

बभूवुस्ते च रुद्राक्षा अष्टत्रिंशत्प्रभेदतः ।

सूर्यनेत्रसमुद्भूताः कपिला द्वादश स्मृताः

॥९॥

सोमनेत्रोत्थिताः श्वेतास्ते षोडशविधाः क्रमात् ।

वह्निनेत्रोद्भवाः कृष्णा दश भेदा भवन्ति हि

॥१०॥

श्वेतवर्णश्च रुद्राक्षो जातितो ब्राह्म उच्यते ।

क्षात्रो रक्तस्तथा मिश्रो वैश्यः कृष्णस्तु शूद्रकः

॥११॥

एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति ।

द्विवक्त्रो देवदेव्यो स्याद्विविधं नाशयेदघम्

॥१२॥

त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् ।

चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति

॥१३॥

पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।

अभक्ष्यभक्षणोद्भूतैरगम्यागमनोद्भवैः

॥१४॥

मुच्यते सर्वपापैस्तु पञ्चवक्त्रस्य धारणात् ।

षड्वक्त्रः कार्तिकेयस्तु स धार्यो दक्षिणे करे

॥१५॥

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।

सप्तवक्त्रो महाभागो ह्यनङ्गो नाम नामतः

॥१६॥

तद्धारणान्मुच्यते हि स्वर्णस्तेयादिपातकैः ।

अष्टवक्त्रो महासेन साक्षाद्देवो विनायकः

॥१७॥

अन्तकूटं तूलकूटं स्वर्णकूटं तथैव च ।

दुष्टान्वयस्त्रियं वाथ संस्पृशंश्च गुरुस्त्रियम्

॥१८॥

एवमादीनि पापानि हन्ति सर्वाणि धारणात् ।

विघ्नास्तस्य प्रणश्यन्ति याति चान्ते परं पदम्

॥१९॥

भवन्त्येते गुणाः सर्वे ह्यष्टवक्त्रस्य धारणात् ।

नववक्त्रो भैरवस्तु धारयेद्वामबाहुके

॥२०॥

भुक्तिमुक्तिप्रदः प्रोक्तो मम तुल्यबलो भवेत् ।

भ्रूणहत्यासहस्राणि ब्रह्महत्याशतानि च

॥२१॥

सद्यः प्रलयमायान्ति नववक्त्रस्य धारणात् ।

दशवक्त्रस्तु देवेशः साक्षाद्देवो जनार्दनः

॥२२॥

ग्रहाश्चैव पिशाचाश्च वेताला ब्रह्मराक्षसाः ।

पन्नगाश्चोपशाम्यन्ति दशवक्त्रस्य धारणात्

॥२३॥

वक्त्रैकादशरुद्राक्षो रुद्रैकादशकं स्मृतम् ।

शिखायां धारयेद्यो वै तस्य पुण्यफलं शृणु

॥२४॥

अश्वमेधसहस्रस्य वाजपेयशतस्य च ।

गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्

॥२५॥

तत्फलं लभते शीघ्रं वक्त्रैकादशधारणात् ।

द्वादशास्यस्य रुद्राक्षस्यैव कर्णे तु धारणात्

॥२६॥

आदित्यास्तोषिता नित्यं द्वादशास्ये व्यवस्थिताः ।

गोभेधे चाश्वमेधे च यत्फलं तदवाप्नुयात्

॥२७॥

शृङ्गिणां शस्त्रिणां चैव व्याघ्रादीनां भयं न हि ।

न च व्याधिभयं तस्य नैव चाधिः प्रकीर्तितः

॥२८॥

न च किञ्चिद्भयं तस्य न च व्याधिः प्रवर्तते ।

न कुतश्चिद्भयं तस्य सुखी चैवेश्वरो भवेत्

॥२९॥

हस्त्यश्वमृगमार्जारसर्पमूषकदर्दुरान् ।

खरांश्च श्वशृगालांश्च हत्वा बहुविधानपि

॥३०॥

मुच्यते नात्र सन्देहो वक्त्रद्वादशधारणात् ।

वक्त्रत्रयोदशो वत्स रुद्राक्षो यदि लभ्यते

॥३१॥

कार्तिकेयसमो ज्ञेयः सर्वकामार्थसिद्धिदः ।

रसो रसायनं चैव तस्य सर्वं प्रसिद्ध्यति

॥३२॥

तस्यैव सर्वभोग्यानि नात्र कार्या विचारणा ।

मातरं पितरं चैव भ्रातरं वा निहन्ति यः

॥३३॥

मुच्यते सर्वपापेभ्यो धारणात्तस्य षण्मुख ।

चतुर्दशास्यो रुद्राक्षो यदि लभ्येत पुत्रक

॥३४॥

धारयेत्सततं मूर्ध्नि तस्य पिण्डः शिवस्य तु ।

किं मुने बहुनोक्तेन वर्णनेन पुनः पुनः

॥३५॥

पूज्यते सन्ततं देवैः प्राप्यते च परा गतिः ।

रुद्राक्ष एकः शिरसा धार्यो भक्त्या द्विजोत्तमैः

॥३६॥

षड्विंशद्भिः शिरोमाला पञ्चाशद्धृदयेन तु ।

कलाक्षैर्बाहुवलये अर्काक्षैर्मणिबन्धनम्

॥३७॥

अष्टोत्तरशतैर्माला पञ्चाशद्भिः षडानन ।

अथवा सप्तविंशत्या कृत्वा रुद्राक्षमालिकाम्

॥३८॥

धारणाद्वा जपाद्वापि ह्यनन्तं फलमश्नुते ।

अष्टोत्तरशतैर्माला रुद्राक्षैर्धार्यते यदि

॥३९॥

क्षणे क्षणेऽश्वमेधस्य फलं प्राप्नोति षण्मुख ।

त्रिःसप्तकुलमुद्धृत्य शिवलोके महीयते

॥४०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे रुद्राक्षमाहाम्यवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥