रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम्
ईश्वर उवाच
महासेन कुशग्रन्थिपुत्राजीवादयः परे ।
रुद्राक्षस्य तु नैकोऽपि कलामर्हति षोडशीम्
॥१॥पुरुषाणां यथा विष्णुर्ग्रहाणां च यथा रविः ।
नदीनां तु यथा गङ्गा मुनीनां कश्यपो यथा
॥२॥उच्चैःश्रवा यथाश्वानां देवानामीश्वरो यथा ।
देवीनां तु यथा गौरी तद्वच्छ्रेष्ठमिदं भवेत्
॥३॥नातः परतरं स्तोत्रं नातः परतरं व्रतम् ।
अक्षय्येषु च दानेषु रुद्राक्षस्तु विशिष्यते
॥४॥शिवभक्ताय शान्ताय दद्याद्रुद्राक्षमुत्तमम् ।
तस्य पुण्यफलस्यान्तं न चाहं वक्तुमुत्सहे
॥५॥धृतरुद्राक्षकण्ठाय यस्त्वन्नं सम्प्रयच्छति ।
त्रिसप्तकुलमुद्धृत्य रुद्रलोकं स गच्छति
॥६॥यस्य भाले विभूतिर्न नाङ्गे रुद्राक्षधारणम् ।
न शम्भोर्भवने पूजा स विप्रः श्वपचाधमः
॥७॥खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजानपि ।
पातकेभ्यो विमुच्येत रुद्राक्षं शिरसि स्थिते
॥८॥सर्वयज्ञतपोदानवेदाभ्यासैश्च यत्फलम् ।
तत्फलं लभते सद्यो रुद्राक्षस्य तु धारणात्
॥९॥वेदैश्चतुर्भिर्यत्पुण्यं पुराणपठनेन च ।
यत्तीर्थसेवनेनैव सर्वविद्यादिभिस्तथा
॥१०॥तत्पुण्यं लभते सद्यो रुद्राक्षस्य तु धारणात् ।
प्रयाणकाले रुद्राक्षं बन्धयित्वा म्रियेद्यदि
॥११॥स रुद्रत्वमवाप्नोति पुनर्जन्म न विद्यते ।
रुद्राक्षं धारयेत्कण्ठे बाह्वोर्वा म्रियते यदि
॥१२॥कुलैकविंशमुत्तार्य रुद्रलोके वसेन्नरः ।
ब्राह्मणो वापि चाण्डालो निर्गुणः सगुणोऽपि च
॥१३॥भस्मरुद्राक्षधारी यः स देवत्वं शिवं व्रजेत् ।
शुचिर्वाप्यशुचिर्वापि तथाभक्ष्यस्य भक्षकः
॥१४॥म्लेच्छो वाप्यथ चाण्डालो युतो वा सर्वपातकैः ।
रुद्राक्षधारणादेव स रुद्रो नात्र संशयः
॥१५॥शिरसा धारिते कोटिः कर्णयोर्दशकोटयः ।
शतकोटिर्गले बद्धो मूर्ध्नि कोटिसहस्रकम्
॥१६॥अयुतं चोपवीते तु लक्षकोटिर्भुजे स्थिते ।
मणिबन्धे तु रुद्राक्षो मोक्षसाधनकः परः
॥१७॥रुद्राक्षधारको भूत्वा यत्किञ्चित्कर्म वैदिकम् ।
कुर्वन्विप्रः सदा भक्त्या महदाप्नोति तत्फलम्
॥१८॥रुद्राक्षमालिकां कण्ठे धारयेद्भक्तिवर्जितः ।
पापकर्मा तु यो नित्यं स मुक्तः सर्वबन्धनात्
॥१९॥रुद्राक्षार्पितचेता यो रुद्राक्षस्तु न वै धृतः ।
असौ माहेश्वरो लोके नमस्यः स तु लिङ्गवत्
॥२०॥अविद्यो वा सविद्यो वा रुद्राक्षस्य तु धारणात् ।
शिवलोकं प्रपद्येत कीकटे गर्दभो यथा
॥२१॥स्कन्द उवाच
रुद्राक्षान्सन्दधे देव गर्दभः केन हेतुना ।
कीकटे केन वा दत्तस्तद्ब्रूहि परमेश्वर
॥२२॥श्रीभगवानुवाच
शृणु पुत्र पुरावृत्तं गर्दभो विन्ध्यपर्वते ।
धत्ते रुद्राक्षभारं तु वाहितः पथिकेन तु
॥२३॥श्रान्तोऽसमर्थस्तद्भारं वोढुं पतितवान्भुवि ।
प्राणैस्त्वक्तस्त्रिनेत्रस्तु शूलपाणिर्महेश्वरः
॥२४॥मत्प्रसादान्महासेन मदन्तिकमुपागतः ।
यावद्वक्त्रस्य संख्यानं रुद्राक्षाणां सुदुर्लभम्
॥२५॥तावद्युगसहस्राणि शिवलोके महीयते ।
स्वशिष्येभ्यस्तु वक्तव्यं नाशिष्येभ्यः कदाचन
॥२६॥अभक्तेभ्योऽपि मूर्खेभ्यः कदाचिन्न प्रकाशयेत् ।
अभक्तो वास्तु भक्तो वा नीचो नीचतरोऽपि वा
॥२७॥रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः ।
रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत्
॥२८॥महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः ।
सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः
॥२९॥तं नमन्ति सुराः सर्वे यथा रुद्रस्तथैव सः ।
अभावे तु सहस्रस्य बाह्वोः षोडश षोडश
॥३०॥एकं शिखायां करयोर्द्वादश द्वादशैव तु ।
द्वात्रिंशत्कण्ठदेशे तु चत्वारिंशच्च मस्तके
॥३१॥एकैकं कर्णयोः षट् षट् वक्षस्यष्टोत्तरं शतम् ।
यो धारयति रुद्राक्षान् रुद्रवत्स तु पूज्यते
॥३२॥मुक्ताप्रवालस्कटिकरौप्यवैदूर्यकाञ्चनैः ।
समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत्
॥३३॥केवलानपि रुद्राक्षान्यद्यालस्याद्बिभर्ति यः ।
तं न स्पृशन्ति पापानि तमांसीव विभावसुम्
॥३४॥रुद्राक्षमालया मन्त्रो जप्तोऽनन्तफलप्रदः ।
यस्याङ्गे नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः
॥३५॥तस्य जन्म निरर्थं स्यात्त्रिपुण्ड्ररहितं यथा ।
रुद्राक्षं मस्तके धृत्वा शिरःस्नानं करोति यः
॥३६॥गङ्गास्नानफलं तस्य जायते नात्र संशयः ।
एकवक्त्रः पञ्चवक्त्र एकादशमुखाः परे
॥३७॥चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः ।
भक्त्या संपूज्यते नित्यं रुद्राक्षः शङ्करात्मकः
॥३८॥दरिद्रं वापि पुरुषं राजानं कुरुते भुवि ।
अत्र ते कथयिष्यामि पुराणं मतमुत्तमम्
॥३९॥कोसलेषु द्विजः कश्चिद्गिरिनाथ इति श्रुतः ।
महाधनी च धर्मात्मा वेदवेदाङ्गपारगः
॥४०॥यज्ञकृद्दीक्षितस्तस्य तनयः सुन्दराकृतिः ।
नाम्ना गुणनिधिः ख्यातस्तरुणः कामसुन्दरः
॥४१॥गुरोः सुधिषणस्याथ पत्नीं मुक्तावलीमथ ।
मोहयामास रूपेण यौवनेन मदेन च
॥४२॥सङ्गतस्तु तया सार्धं कञ्चित्कालं ततो भिया ।
विषं ददौ च गुरवे येभे पश्चात्तु निर्भयः
॥४३॥यदा माता पिता कर्म किञ्चिज्जानाति यत्क्षणे ।
मातरं पितरं चापि मारयामास तद्विषात्
॥४४॥नानाविलासभोगैश्च जाते द्रव्यव्यये ततः ।
ब्राह्मणानां गृहे चौर्यं चकार स तदा खलः
॥४५॥सुरापानमदोन्मत्तस्तदा ज्ञातिबहिष्कृतः ।
ग्रामान्निष्कासितः सर्वैस्तदा सोऽभूद्वनेचरः
॥४६॥मुक्तावल्या तया सार्धं जगाम गहनं वनम् ।
मार्गे स्थितो द्रव्यलोभाज्जघान ब्राह्मणान्बहून्
॥४७॥एवं बहुगते काले ममार स तदाधमः ।
नेतुं तं यमदूताश्च समाजग्मुः सहस्रशः
॥४८॥शिवलोकाच्छिवगणास्तथैव च समागताः ।
तयोः परस्परं वादो बभूव गिरिजासुत
॥४९॥यमदूतास्तदा प्रोचुः पुण्यमस्य किमस्ति हि ।
ब्रुवन्तु सेवकाः शम्भोर्यद्येनं नेतुमिच्छथ
॥५०॥शिवदूतास्तदा प्रोचुरयं यस्मिन्स्थले मृतः ।
दशहस्तादधो भूमे रुद्राक्षस्तत्र चास्ति हि
॥५१॥तत्प्रभावेण हे दूता नेष्यामः शिवसन्निधिम् ।
ततो विमानमारुह्य दिव्यरूपधरो द्विजः
॥५२॥गतो गुणनिधिर्दूतैः सहितः शङ्करालयम् ।
इति रुद्राक्षमाहात्म्यं कथितं तव सुव्रत
॥५३॥एवं रुद्राक्षमहिमा समासात्कथितो मया ।
सर्वपापक्षयकरो महापुण्यफलप्रदः
॥५४॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥