त्रिविधभस्ममाहात्म्यवर्णनम्
नारद उवाच
त्रिविधत्वं कथं चास्य भस्मनः परिकीर्तितम् ।
एतत्कथय मे देव महत्कौतूहलं मम
॥१॥श्रीनारायण उवाच
त्रिविधत्वं प्रवक्ष्यामि देवर्षे भस्मनः शृणु ।
महापापक्षयकरं महाकीर्तिकरं परम्
॥२॥गोमयं योनिसम्बद्धं तद्धस्तेनैव गृह्यते ।
ब्राह्मैर्मन्त्रैस्तु सन्दग्धं तच्छान्तिकृदिहोच्यते
॥३॥सावधानस्तु गृह्णीयान्नरो वै गोमयं तु यत् ।
अन्तरिक्षे गृहीत्वा तत्षडङ्गेन दहेदतः
॥४॥पौष्टिकं तत्समाख्यातं कामदं च ततः शृणु ।
प्रासादेन दहेदेतत्कामदं भस्म कीर्तितम्
॥५॥प्रातरुत्थाय देवर्षे भस्मव्रतपरः शुचिः ।
गवां गोष्ठेषु गत्वा तु नमस्कृत्य तु गोकुलम्
॥६॥गवां वर्णानुरूपाणां गृह्णीयाद्गोमयं शुभम् ।
ब्राह्मणस्य च गौः श्वेता रक्ता गौः क्षत्रियस्य च
॥७॥पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कथ्यते ।
पौर्णमास्याममावास्यामष्टम्यां वा विशुद्धधीः
॥८॥प्रासादेन तु मन्त्रेण गृहीत्वा गोमयं शुभम् ।
हृदयेन तु मन्त्रेण पिण्डीकृत्य तु गोमयम्
॥९॥रविरश्मिसुसन्तप्तं शुचौ देशे मनोहरे ।
तुषेण वा बुसैर्वापि प्रासादेन तु निक्षिपेत्
॥१०॥अरण्युद्भवमग्निं वा श्रोत्रियागारजं तु वा ।
तदग्नौ विन्यसेत्तं च शिवबीजेन मन्त्रतः
॥११॥गृह्णीयादथ तत्राग्निकुण्डाद्भस्म विचक्षणः ।
नवपात्रं समादाय प्रासादेन तु निक्षिपेत्
॥१२॥केतकी पाटली तद्वदुशीरं चन्दनं तथा ।
नानासुगन्धिद्रव्याणि काश्मीरप्रभृतीनि च
॥१३॥निक्षिपेत्तत्र पात्रे तु सद्योमन्त्रेण शुद्धधीः ।
जलस्नानं पुरा कृत्वा भस्मस्नानमतः परम्
॥१४॥जलस्नाने त्वशक्तश्च भस्मस्नानं समाचरेत् ।
प्रक्षाल्य पादौ हस्तौ च शिरश्चेशानमन्त्रतः
॥१५॥समुद्धूल्य ततः पश्चादाननं तत्पुरुषेण तु ।
अघोरेण तु हृदयं नाभिं वामेन तत्परम्
॥१६॥सद्योमन्त्रेण सर्वाङ्गं समूद्धूल्य विचक्षणः ।
पूर्ववस्त्रं परित्यज्य शुद्धवस्त्रं परिग्रहेत्
॥१७॥प्रक्षाल्य पादौ हस्तौ च पश्चादाचमनं चरेत् ।
भस्मनोद्धूलनाभावे त्रिपुण्ड्रं तु विधीयते
॥१८॥मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् ।
तर्जन्यनामिकामध्यैस्त्रिपुण्ड्रं च समाचरेत्
॥१९॥मूर्ध्नि चैव ललाटे च कर्णे कण्ठे तथैव च ।
हृदये चैव बाह्वोश्च न्यासस्थानं हि चोच्यते
॥२०॥पञ्चाङ्गुलैर्न्यसेन्मूर्ध्नि प्रासादेन तु मन्त्रतः ।
त्र्यङ्गुलैर्विन्यसेद्भाले शिरोमन्त्रेण देशिकः
॥२१॥सद्येन दक्षिणे कर्णे वामदेवेन वामतः ।
अघोरेण तु कण्ठे च मध्याङ्गुल्या स्पृशेद्बुधः
॥२२॥हृदयं हृदयेनैव त्रिभिरङ्गुलिभिः स्पृशेत् ।
विन्यसेद्दक्षिणे बाहौ शिखामन्त्रेण देशिकः
॥२३॥वामबाहौ न्यसेद्धीमान्कवचेन त्रियङ्गुलैः ।
मध्येन संस्पृशेन्नाभ्यामीशान इति मन्त्रतः
॥२४॥ब्रह्मविष्णुमहेशानास्तिस्रो रेखा इति स्मृताः ।
आद्यो ब्रह्मा ततो विष्णुस्तदूर्ध्वं तु महेश्वरः
॥२५॥एकाङ्गुलेन न्यस्तं यदीश्वरस्तत्र देवता ।
शिरोमध्ये त्वयं ब्रह्मा ईश्वरस्तु ललाटके
॥२६॥कर्णयोरश्विनौ देवौ गणेशस्तु गले तथा ।
क्षत्रियश्च तथा वैश्यः शूद्रश्चोद्धूलनं त्यजेत्
॥२७॥सर्वेषामन्त्यजातीनां मन्त्रेण रहितं भवेत् ।
(अदीक्षितं मनुष्याणामपि मन्त्रं विना भवेत्)
॥२८॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे त्रिविधभस्ममाहात्म्यवर्णनं नामकादशोऽध्यायः ॥ ११ ॥