मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय १२

3
एकादशस्कन्धः · 12

भस्मधारणमाहाम्यवर्णनम्

श्रीनारायण उवाच

देवर्षे शृणु तत्सर्वं भस्मोद्धूलनजं फलम् ।

सरहस्यविधानं च सर्वकामफलप्रदम्

॥१॥

कपिलायाः शकृत्स्वच्छं गृहीत्वा गगनेऽपतत् ।

न क्लिन्नं नापि कठिनं न दुर्गन्धं न चोषितम्

॥२॥

उपर्यधः परित्यज्य गह्णीयात्पतितं यदि ।

पिण्डीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमन्त्रितम्

॥३॥

आदाय वाससाऽऽच्छाद्य भस्माधाने विनिक्षिपेत् ।

सुकृते सुदृढे शुद्धे क्षालिते प्रोक्षिते शुभे

॥४॥

विन्यस्य मन्त्री मन्त्रेण पात्रे भस्म विनिक्षिपेत् ।

तैजसं दारवं चाथ मृण्मयं चैलमेव च

॥५॥

अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ।

क्षौमे चैवातिशुद्धे वा धनवद्भस्म निक्षिपेत्

॥६॥

प्रस्थितो भस्म गृह्णीयात्स्वयं चानुचरोऽपि वा ।

न चायुक्तकरे दद्यान्न चाशुचितले क्षिपेत्

॥७॥

न संस्पृशेत्तु नीचाङ्गैर्न क्षिपेन्न च लङ्घयेत् ।

तस्माद्भसितमादाय विनियुञ्जीत मन्त्रितम्

॥८॥

विभूतिधारणविधिः स्मृतिप्रोक्तो मयेरितः ।

यदीयाचरणेनैव शिवतुल्यो न संशयः

॥९॥

शैवैः सम्पादितं भस्म वैदिकैः शिवसन्निधौ ।

भक्त्या परमया ग्राह्यं प्रार्थयित्वा तु पूजयेत्

॥१०॥

तन्त्रोक्तवर्त्मना सिद्धं भस्म तान्त्रिकपूजकैः ।

यत्रकुत्रापि दत्तं चेत्तद्ग्राह्यं नैव वैदिकैः

॥११॥

शूद्रैः कापालिकैर्वाथ पाखण्डैरपरैस्तु तत् ।

त्रिपुण्ड्रं धारयेद्भक्त्या मनसापि न लङ्घयेत्

॥१२॥

श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् ।

त्रिपुण्ड्रधारणं भक्त्या तथा देहावगुण्ठनम्

॥१३॥

द्विजः कुर्याद्धि मन्त्रेण तत्त्यागी पतितो भवेत् ।

उद्धूलनं त्रिपुण्ड्रं च भक्त्या नैवाचरन्ति ये

॥१४॥

तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ।

येन भस्मोक्तमार्गेण धृतं न मुनिपुङ्गव

॥१५॥

तस्य विद्धि मुने जन्म निष्कलं सौकरं यथा ।

येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम्

॥१६॥

श्मशानसदृशं तत्स्यान्न प्रेक्ष्यं पुण्यकृज्जनैः ।

धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम्

॥१७॥

धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ।

त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते

॥१८॥

धारयन्ति च ये भक्त्या धारयन्ति तमेव ते ।

यथा कृशानुरहितो भूधरो न विराजते

॥१९॥

अशेषसाधनेऽप्येवं भस्महीनं शिवार्चनम् ।

उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये

॥२०॥

तैः पूर्वाचरितं सर्वं विपरीतं भवेदपि ।

भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य च धारणम्

॥२१॥

विना वेदोचिताचारं स्मार्तस्यानर्थकारणम् ।

कृतं स्यादकृतं तेन श्रुतमप्यश्रुतं भवेत्

॥२२॥

अधीतमनधीतं च त्रिपुण्ड्रं यो न धारयेत् ।

वृथा वेदा वृथा यज्ञा वृथा दानं वृथा तपः

॥२३॥

वृथा व्रतोपवासेन त्रिपुण्ड्रं यो न धारयेत् ।

भस्मधारणकं त्यक्त्वा मुक्तिमिच्छति यः पुमान्

॥२४॥

विषपानेन नित्यत्वं कुरुते ह्यात्मनो हि सः ।

स्रष्टा सृष्टिच्छलेनाह त्रिपुण्ड्रस्य च धारणम्

॥२५॥

ससर्ज स ललाटं हि तिर्यगूर्ध्वं न वर्तुलम् ।

तिर्यग्रेखाः प्रदृश्यन्ते ललाटे सर्वदेहिनाम्

॥२६॥

तथापि मानवा मूर्खा न कुर्वन्ति त्रिपुण्ड्रकम् ।

न तद्ध्यानं न तन्मोक्षं न तज्ज्ञानं न तत्तपः

॥२७॥

विना तिर्यक्त्रिपुण्ड्रं च विप्रेण यदनुष्ठितम् ।

वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत्

॥२८॥

त्रिपुण्ड्रेण विना विप्रो नाधिकारी शिवार्चने ।

प्राङ्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य पूर्ववत्

॥२९॥

प्राणानायम्य सङ्कल्प्य भस्मस्नानं समाचरेत् ।

आदाय भसितं शुद्धमग्निहोत्रसमुद्भवम्

॥३०॥

ईशानेन तु मन्त्रेण स्वमूर्धनि विनिक्षिपेत् ।

तत आदाय तद्भस्म मुखे च पुरुषेण तु

॥३१॥

अघोराख्येण हृदये गुह्ये वामाह्वयेन च ।

सद्योजाताभिधानेन भस्म पादद्वये क्षिपेत्

॥३२॥

सर्वाङ्गं प्रणवेनैव मन्त्रेणोद्धूलनं ततः ।

एतदाग्नेयकं स्नानमुदितं परमर्षिभिः

॥३३॥

सर्वकर्मसमृद्ध्यर्थं कुर्यादादाविदं बुधः ।

ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथाविधि

॥३४॥

तिर्यक्त्रिपुण्ड्रं विधिना ललाटे हृदये गले ।

पञ्चभिर्ब्रह्मभिर्वापि कृतेन भसितेन च

॥३५॥

घृतमेतत्त्रिपुण्ड्रं स्यात्सर्वकर्मसु पावनम् ।

शूद्रैरन्त्यजहस्तस्थं न धार्यं भस्म च क्वचित्

॥३६॥

भस्मना साग्निहोत्रेण लिप्तः कर्म समाचरेत् ।

अन्यथा सर्वकर्माणि न फलन्ति कदाचन

॥३७॥

सत्यं शौचं जपो होमस्तीर्थं देवादिपूजनम् ।

तस्य व्यर्थमिदं सर्वं यस्त्रिपुण्ड्रं न धारयेत्

॥३८॥

त्रिपुण्ड्रधृग्विप्रवरो यो रुद्राक्षधरः शुचिः ।

स हन्ति रोगदुरितव्याधिदुर्भिक्षतस्करान्

॥३९॥

समाप्नोति परं ब्रह्म यतो नावर्तते पुनः ।

स पङ्क्तिपावनः श्राद्धे पूज्यो विप्रैः सुरैरपि

॥४०॥

श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ।

धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः ।

भस्मधारणमाहात्म्यं भूयोऽपि कथयामि ते

॥४१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे भस्मधारणमाहाम्यवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥