मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय २०

3
एकादशस्कन्धः · 20

ब्रह्मयज्ञादिकीर्तनम्

श्रीनारायण उवाच

त्रिराचम्य द्विजः पूर्वं द्विर्मार्जनमथाचरेत् ।

उपस्पृशेत्सव्यपाणिं पादौ च प्रोक्षयेत्ततः

॥१॥

शिरसि चक्षुषि तथा नासायां श्रोत्रदेशके ।

हृदये च तथा मौलौ प्रोक्षणं सम्यगाचरेत्

॥२॥

देशकालौ समुच्चार्य ब्रह्मयज्ञमथाचरेत् ।

द्वौ दर्भौ दक्षिणे हस्ते वामे त्रीनासने सकृत्

॥३॥

उपवीते शिखायां च पादमूले सकृत्सकृत् ।

विमुक्तये सर्वपापक्षयार्थं चैवमेव हि

॥४॥

सूत्रोक्तदेवताप्रीत्यै ब्रह्मयज्ञं करोम्यहम् ।

गायत्रीं त्रिर्जपेत्पूर्वं चाग्निमीळे ततः परम्

॥५॥

यदङ्गेति ततः प्रोच्य अग्निर्वै इति कीर्तयेत् ।

अथ महाव्रतं चैव पन्था एतच्च कीर्तयेत्

॥६॥

अथातः संहितायाश्च विदा मघवदित्यपि ।

महाव्रतस्येति तथा इषे त्वोर्जे इतीव हि

॥७॥

अग्न आयाहि चेत्येवं शन्तो देवीरितीति च ।

अथ तस्य समाम्नायो वृद्धिरादैजितीव हि

॥८॥

अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च ।

मयरसतजभनेत्येव गौर्ग्मा इत्येव कीर्तयेत्

॥९॥

अथातो धर्मजिज्ञासा अथातो ब्रह्म इत्यपि ।

तच्छंयोरिति च प्रोच्य ब्रह्मणे नम इत्यपि

॥१०॥

तर्पणं चैव देवानां ततः कुर्यात्प्रदक्षिणम् ।

प्रजापतिश्च ब्रह्मा च वेदा देवास्तथर्षयः

॥११॥

सर्वाणि चैव छन्दांसि तथोङ्कारस्तथैव च ।

वषट्कारो व्याहृतयः सावित्री च ततः परम्

॥१२॥

गायत्री चैव यज्ञाश्च द्यावापृथिवी इत्यपि ।

अन्तरिक्षं त्वहोरात्राणि च सांख्या अतः परम्

॥१३॥

सिद्धाः समुद्रा नद्यश्च गिरयश्च ततः परम् ।

क्षेत्रौषधिवनस्पत्यो गन्धर्वाप्सरसस्तथा

॥१४॥

नागा वयांसि गावश्च साध्या विप्रास्तथैव च ।

यक्षा रक्षांसि भूतानीत्येवमन्तानि कीर्तयेत्

॥१५॥

अथो निवीती भूत्वा च ऋषीन्सन्तर्पयेदपि ।

शतर्चिनो माध्यमाश्च गृत्समदस्तथैव च

॥१६॥

विश्वामित्रो वामदेवोऽत्रिर्भरद्वाज एव च ।

वसिष्ठश्च प्रगाथश्च पावमान्यस्ततः परम्

॥१७॥

क्षुद्रसूक्ता महासूक्ताः सनकश्च सनन्दनः ।

सनातनस्तथैवात्र सनत्कुमार एव च

॥१८॥

कपिलासुरिनामानौ वोहलिः पञ्चशीर्षकः ।

प्राचीनावीतिना तच्च कर्तव्यमथ तर्पणम्

॥१९॥

सुमन्तुर्जैमिनिर्वैशम्पायनः पैलसूत्रयुक् ।

भाष्यभारतपूर्वं च महाभारत इत्यपि

॥२०॥

धर्माचार्या इमे सर्वे तृप्यन्त्विति च कीर्तयेत् ।

जानन्ति बाहविगार्ग्यगौतमाश्चैव शाकलः

॥२१॥

बाभ्रव्यमाण्डव्ययुतोमाण्डूकेयस्ततः परम् ।

गार्गी वाचक्नवी चैव वडवा प्रातिथेयिका

॥२२॥

सुलभायुक्तमैत्रेयी कहोलश्च ततः परम् ।

कौषीतकं महाकौषीतकं वै तर्पयेत्ततः

॥२३॥

भारद्वाजं च पैङ्ग्यं च महापैङ्ग्यं सुयज्ञकम् ।

सांख्यायनमैतरेयं महैतरेयमेव च

॥२४॥

बाष्कलं शाकलं चैव सुजातवक्त्रमेव च ।

औदवाहिं च सौजामिं शौनकं चाश्वलायनम्

॥२५॥

ये चान्ये सर्व आचार्यास्ते सर्वे तृप्तिमाप्नुयुः ।

ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः

॥२६॥

ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ।

एवं ते ब्रह्मयज्ञस्य विधिरुक्तो महामुने

॥२७॥

यश्चायं कुरुते ब्रह्मयज्ञस्य विधिमुत्तमम् ।

सर्ववेदाङ्गपाठस्य फलमाप्नोति साधकः

॥२८॥

वैश्वदेवं ततः कुर्यान्नित्यश्राद्धं तथैव च ।

अतिथिभ्योऽन्नदानं च नित्यमेव समाचरेत्

॥२९॥

गोग्रासं च ततो दत्त्वा भुञ्जीत ब्राह्मणैः सह ।

अह्नस्तु पञ्चमे भागे प्रकुर्यादेतदुत्तमम्

॥३०॥

इतिहासपुराणाद्यैः षष्ठसप्तमकौ नयेत् ।

अष्टमे लोकयात्रा तु बहिः सन्ध्यां ततः पुनः

॥३१॥

अथ सायन्तनीं सन्ध्यां प्रवक्ष्यामि महामुने ।

यदनुष्ठानमात्रेण महामाया प्रसीदति

॥३२॥

आचम्य प्राणानायम्य साधकः स्थिरमानसः ।

बद्धपद्मासनो योगी सायंकाले स्थिरो भवेत्

॥३३॥

श्रुतिस्मृत्यादिकर्मादौ सगर्भः प्राणसंयमः ।

अगर्भो ध्यानमात्रं तु स चामन्त्रः प्रकीर्तितः

॥३४॥

भूतशुद्ध्यादिकं कृत्वा नान्यथा कर्म कीर्तितम् ।

सलक्षो देवतां ध्यात्वा पूरकुम्भकरेचकैः

॥३५॥

ध्यानं प्रकुर्यात्सन्ध्यायां सायंकाले विचक्षणः ।

वृद्धां सरस्वतीं देवीं कृष्णाङ्गीं कृष्णवाससम्

॥३६॥

शङ्खचक्रगदापद्महस्तां गरुडवाहनाम् ।

नानारत्नलसद्भूषां क्वणन्मञ्जीरमेखलाम्

॥३७॥

अनर्घ्यरत्नमुकुटां तारहारावलीयुताम् ।

ताटङ्कबद्धमाणिक्यकान्तिशोभिकपोलकाम्

॥३८॥

पीताम्बरधरां देवीं सच्चिदानन्दरूपिणीम् ।

सामवेदेन सहितां संयुतां सत्त्ववर्त्मना

॥३९॥

व्यवस्थितां च स्वर्लोके आदित्यपय्हगामिनीम् ।

आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात्

॥४०॥

एवं ध्यात्वा च तां देवीं सन्ध्यासङ्कल्पमाचरेत् ।

आपो हि ष्ठेति मन्त्रेण अग्निश्चेति तथैव च

॥४१॥

विदध्यादाचमनकं शेषं पूर्ववदीरितम् ।

गायत्रीमन्त्रमुक्च्चार्य श्रीनारायणप्रीतये

॥४२॥

अर्घ्यं दद्याच्च सूर्याय साधकः शुद्धमानसः ।

उभौ पादौ समौ कृत्वा हस्ते धूत्वा जलाञ्जलिम्

॥४३॥

देवं ध्यात्वा मण्डलस्थं क्षिपेदर्घ्यं ततः क्रमात् ।

अर्घ्यं दद्यात्तु यो नीरे मूढात्मा ज्ञानवर्जितः

॥४४॥

उल्लङ्घ्य स्मृतिमन्त्रांश्च प्रायश्चित्ती भवेद्द्विजः ।

ततः सूर्यमुपस्थायाप्यसावादित्यमन्त्रतः

॥४५॥

गायत्र्याश्च जपं कुर्यादुपविश्य ततो बृसीम् ।

सहस्रं वा तदर्धं वा श्रीदेवीध्यानपूर्वकम्

॥४६॥

यथा प्रातः पुनस्तद्वदुपस्थानादिकं चरेत् ।

सायं सन्ध्यातर्पणे च क्रमेण परिकीर्तयेत्

॥४७॥

वसिष्ठो ऋषिरेवात्र सरस्वत्याः प्रकीर्तितः ।

देवता विष्णुरूपा सा छन्दश्चैव सरस्वती

॥४८॥

सायंकालीनसन्ध्यायास्तर्पणे विनियोगकः ।

स्वरित्युक्त्वा च पुरुषं सामवेदं तथैव च

॥४९॥

मण्डलं चेति सम्प्रोच्य हिरण्यगर्भकं तथा ।

तथैव परमात्मानं ततोऽपि च सरस्वतीम्

॥५०॥

वेदमातरमेवात्र सङ्कृतिं तद्वदेव च ।

सन्ध्यां वृद्धां तथा विष्णुरूपिणीमुषसीं तथा

॥५१॥

निर्मृजीं च तथा सर्वसिद्धीनां कारिणीं तथा ।

सर्वमन्त्राधिपतिकां भूर्भुवः स्वश्च पूरुषम्

॥५२॥

इत्येवं तर्पणं कार्यं सन्ध्यायाः श्रुतिसम्मतम् ।

सायं सन्ध्याविधानं च कथितं पापनाशनम्

॥५३॥

सर्वदुःखहरं व्याधिनाशकं मोक्षदं तथा ।

सदाचारेषु सन्ध्यायाः प्राधान्यं मुनिपुङ्गव ।

सन्ध्याचरणतो देवी भक्ताभीष्टं प्रयच्छति

॥५४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे ब्रह्मयज्ञादिकीर्तनं नाम विंशोऽध्यायः ॥ २० ॥