मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय १५

3
एकादशस्कन्धः · 15

त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम्

त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् श्रीनारायण उवाच ।

अग्निरित्यादिभिर्मन्त्रैर्भस्म संशोध्य सादरम् ।

धारणीयं ललाटादौ त्रिपुण्ड्रं केवलं द्विजैः

॥१॥

ब्रह्मक्षत्रियवैश्याश्च एते सर्वे द्विजाः स्मृताः ।

तस्माद्द्विजैः प्रयत्नेन त्रिपुण्ड्रं धार्यमन्वहम्

॥२॥

यस्योपनयनं ब्रह्मन् स एव द्विज उच्यते ।

तस्माच्छ्रौतं द्विजैः कार्यं त्रिपुण्ड्रस्य च धारणम्

॥३॥

विभूतिधारणं त्यक्त्वा यः सत्कर्म समाचरेत् ।

तत्कृतं चाकृतप्रायं भवत्येव न संशयः

॥४॥

न गायत्र्युपदेशोऽपि भस्मनो धारणं विना ।

ततो धृत्वैव भस्माङ्गे गायत्रीजपमाचरेत्

॥५॥

गायत्रीं मूलमेवाहुर्ब्राह्मण्ये मुनिपुङ्गव ।

सा भस्मधारणाभावे न केनाप्युपदिश्यते

॥६॥

न तावदधिकारोऽस्ति गायत्रीग्रहणे मुने ।

यावन्न भस्म भालादौ धृतमग्निसमुद्भवम्

॥७॥

भस्महीनललाटत्वं न ब्रह्मण्यानुमापकम् ।

एवमेव मया ब्रह्मन् हेतुरुक्तः सुपुण्यदः

॥८॥

मन्त्रपूतं सितं भस्म ललाटे परिवर्तते ।

स एव ब्राह्मणो विद्वान्सत्यं सत्यं मयोच्यते

॥९॥

यस्यास्ति सहजा प्रीतिर्मणिवद्भस्मसंग्रहे ।

स एव ब्राह्मणो ब्रह्मन् सत्यं सत्यं मयोच्यते

॥१०॥

न यस्य सहजा प्रीतिर्मणिवद्भस्मसंग्रहे ।

स चाण्डाल इति ज्ञेयो जन्मजन्मान्तरे ध्रुवम्

॥११॥

न यस्य सहजा प्रीतिस्त्रिपुण्ड्रोद्धूलनादिषु ।

स चाण्डाल इति ज्ञेयः सत्यं सत्यं मयोच्यते

॥१२॥

ये भस्मधारणं त्यक्त्वा भुञ्जन्ते च फलादिकम् ।

ते सर्वे नरकं घोरं प्राप्नुवन्ति न संशयः

॥१३॥

(विभूतिधारणं त्यक्त्वा यः शिवं पूजयिष्यति ।

स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः ।

सर्वकर्मबहिर्भूतो भस्मधारणवर्जितः ।

) विभूतिधारणं त्यक्त्वा कुर्वन् हेमतुलामपि ।

न तत्फलमवाप्नोति पतितो हि भवेद्धि सः

॥१४॥

यथोपवीतरहितैः सन्ध्या न क्रियते द्विजैः ।

तथा सन्ध्या न कर्तव्या विभूतिरहितैरपि

॥१५॥

गतोपवीतैः सन्ध्यायां कार्यः प्रतिनिधिः क्वचित् ।

जपादिकं तु सावित्र्यास्तथैवोपोषणादिकम्

॥१६॥

विभूतिधारणे त्वन्यो नास्ति प्रतिनिधिः क्वचित् ।

विभूतिधारणं त्यक्त्वा यदि सन्ध्यां करोति यः

॥१७॥

प्रत्यवैत्येव येनासौ नाधिकारी तदा द्विजः ।

यथा श्रुत्वान्त्यजो वेदान्प्रत्यवैति तथा द्विजः

॥१८॥

प्रत्यवैति न सन्देहः सन्ध्याकृद्भस्मवर्जितः ।

सम्पादनीय यत्नेन श्रौतं भस्म सदा द्विजैः

॥१९॥

स्मार्तं वा तदभावे तु लौकिकं वा समाहितैः ।

यादृशं तादृशं वास्तु पवित्रं भस्म सन्ततम्

॥२०॥

धारणीयं प्रयत्नेन द्विजैः सन्ध्यादिकर्मसु ।

न संविशन्ति पापानि भस्मनिष्ठे ततः सदा

॥२१॥

कर्तव्यमपि यत्नेन ब्राह्मणैर्भस्मधारणम् ।

मध्याङ्गुलित्रयेणैव स्वदक्षिणकरस्य तु

॥२२॥

षडङ्गुलायतं मानमपि चाधिकमानकम् ।

नेत्रयुग्मप्रमाणेन भाले दीप्तं त्रिपुण्ड्रकम्

॥२३॥

कदाचिद्भस्मना कुर्यात्स रुद्रो नात्र संशयः ।

अकारोऽनामिका प्रोक्त उकारो मध्यमाङ्गुलिः

॥२४॥

मकारस्तर्जनी तस्मात् त्रिपुण्ड्रं त्रिगुणात्मकम् ।

त्रिपुण्ड्रं मध्यमातर्जन्यनामाभिरनुलोमतः

॥२५॥

अत्र ते कथयाम्येनमितिहासं पुरातनम् ।

कदाचिदथ दुर्वासाः पितृलोकं गतोऽभवत्

॥२६॥

भस्मसन्दिग्धसर्वाङ्गो रुद्राक्षाभरणान्वितः ।

शिव शङ्कर सर्वात्मञ्छ्रीमातर्जगदम्बिके

॥२७॥

नामानीति गृणन्नुच्चैस्तापसानां शिखामणिः ।

कव्यवाडादयस्ते तु प्रत्युत्थानाभिवादनैः

॥२८॥

आसनाद्युपचारैश्च सम्मानं बहु चक्रिरे ।

नानाकथाभिरन्योन्यं सम्भाषाञ्चक्रिरे तदा

॥२९॥

तस्मिंस्तु समये कुम्भीपाकस्थानां तु पापिनाम् ।

घोरः समभवच्छब्दो हा हताः स्मेतिवादिनाम्

॥३०॥

मृताः स्मेति वदन्त्येके दग्धाः स्मेति परे जगुः ।

छिन्नाः स्मेति विभिन्नाः स्मेत्येवं रोदनकारिणः

॥३१॥

श्रुत्वा तं करुण शब्दं दुःखितो मुनिराड् हृदि ।

पप्रच्छ पितृनाथांस्तान्केषां शब्दोऽयमित्यपि

॥३२॥

ते समूचुर्मुनेऽत्रैव पुरी संयमनी परा ।

वर्तते यमराडत्र पापिनां भोगदायकः

॥३३॥

नानादूतैः कालरूपैः कृष्णवर्णेर्भयङ्करैः ।

सहितोऽत्रैव तत्पुर्यां नायको विद्यतेऽनघ

॥३४॥

तत्र कुण्डान्यनेकानि पापिनां भोगदानि च ।

षडशीतिर्घोररूपैर्दूतैः परिवृतानि च

॥३५॥

तत्र मुख्यतमं कुण्डं कुम्भीपाकाभिधं महत् ।

वर्तते तद्गतानां च यातनानां तु वर्णनम्

॥३६॥

कर्तुं न शक्यते कैश्चिदपि वर्षशतैरपि ।

ये शिवद्रोहिणः सन्ति तथा देवीविनिन्दकाः

॥३७॥

ये विष्णुद्रोहिणः सन्ति पतन्त्यत्रैव ते मुने ।

ये वेदनिन्दकाः सन्ति सूर्यस्य च गणेशितुः

॥३८॥

ब्राह्मणानां द्रोहिणो ये पतन्त्यत्रैव ते मुने ।

कामाचाराश्च ये सन्ति तप्तमुद्राङ्किताश्च ये

॥३९॥

त्रिशूलधारिणो ये च पतन्त्यत्रैव ते मुने ।

मातृपितृगुरुज्येष्ठपुराणस्मृतिनिन्दकाः

॥४०॥

ये धर्मदूषकाः सन्ति पतन्त्यत्रैव ते मुने ।

तेषामयं महाघोरः शब्दः श्रवणदारुणः

॥४१॥

श्रूयतेऽस्माभिरनिशं वैराग्यं यच्छ्रुतेर्भवेत् ।

इति तेषां वचः श्रुत्वा मुनिराट् तद्दिदृक्षया

॥४२॥

उत्थाय चलितस्तूर्णं ययौ कुण्डसमीपतः ।

अवाङ्मुखो ददर्शाधस्तस्मिन्नेव क्षणे मुने

॥४३॥

तत्रत्यानां पापिनां तु स्वर्गाधिकमभूत्सुखम् ।

हसन्ति केचिद्गायन्ति नृत्यन्ति च तथापरे

॥४४॥

परस्परं रमन्ते तेऽत्युन्मत्ताः सुखवर्धनात् ।

मृदङ्गमुरजावीणाढक्कादुन्दुभिनिस्वनाः

॥४५॥

समुद्भूतास्तु मधुराः पञ्चमस्वरभूषिताः ।

वसन्तवल्लीपुष्पाणां सुगन्धमरुतो ववुः

॥४६॥

मुनिस्तु चकितो दृष्ट्वा यमदूताश्च विस्मिताः ।

शीघ्रं ते कथयामासुर्धर्मराजाय वेदिने

॥४७॥

महाराज महाश्चर्यमधुनैवाभवद्विभो ।

स्वर्गादप्यधिकं सौख्यं कुम्भीपाकस्थपापिनाम्

॥४८॥

निमित्तं नैव जानीमः कस्मादिदमभूद्विभो ।

चकिताः स्म वयं सर्वे प्राप्ता देव त्वदन्तिकम्

॥४९॥

निशम्य दूतवाणीं तां धर्मराट् शीघ्रमुत्थितः ।

महामहिषमारूढो ययौ ते यत्र पापिनः

॥५०॥

तां वार्तां प्रेषयामास दूतद्वारामरावतीम् ।

श्रुत्वा तां देवराजोऽपि प्राप्तो देवगणैः सह

॥५१॥

ब्रह्मलोकात्पद्मजोऽपि वैकुण्ठाद्विष्टरश्रवाः ।

तत्तल्लोकाच्च दिक्पालाः समाजग्मुर्गणैः सह

॥५२॥

परिवार्य स्थिताः सर्वे कुम्भीपाकमितस्ततः ।

अपश्यंस्तद्गताञ्जीवान्स्वर्गाधिकसुखान्त्वितान्

॥५३॥

चकिता एव ते सर्वे न विदुस्तस्य कारणम् ।

अहो पापस्य भोगार्थं कुण्डमेतद्विनिर्मितम्

॥५४॥

तत्र सौख्यं यदा जातं तदा पापात्तु किं भयम् ।

उच्छिन्ना वेदमर्यादा परमेशकृता कथम्

॥५५॥

भगवान् स्वस्य संकल्पं वितथं कृतवान्कथम् ।

आश्चर्यमेतदाश्चर्यमेतदित्येव भाषिणः

॥५६॥

तटस्था अभवन्सर्वे न विदुस्तत्र कारणम् ।

एतस्मिन्नन्तरे शौरिः सम्मन्त्र्य विबुधादिभिः

॥५७॥

ययौ कैश्चित्सुरगणैः सहितः शङ्करालयम् ।

पार्वत्या सहितं देवं कोटिकन्दर्पसुन्दरम्

॥५८॥

रमणीयतमाङ्गं तं लावण्यखनिमद्भुतम् ।

सदा षोडशवर्षीयं नानालङ्कारभूषितम्

॥५९॥

नानागणैः परिवृतं लालयन्तं परां शिवाम् ।

ददर्श चन्द्रमौलिं स चतुर्वेदं ननाम ह

॥६०॥

वृत्तान्तं कथयामास चमत्कृतमतिस्फुटम् ।

एतस्य कारणं देव न जानीमः कथञ्चन

॥६१॥

वद तत्कारणं देव सर्वज्ञोऽसि यतः प्रभो ।

विष्णुवाक्यं तदा श्रुत्वा प्रसन्नमुखपङ्कजः

॥६२॥

उवाच मधुरं वाक्यं मेघगम्भीरया गिरा ।

शृणु विष्णो तन्निमित्तं नाश्चर्यं त्वत्र विद्यते

॥६३॥

भस्मनो महिमैवायं भस्मना किं भवेन्न हि ।

कुम्भीपाकं गतो द्रष्टुं दुर्वासाः शैवसम्मतः

॥६४॥

अवाङ्मुखो ददर्शाधस्तदा वायुवशाद्धरे ।

भालभस्मकणास्तत्र पतिता दैवयोगतः

॥६५॥

तेन जातमिदं सर्वं भस्मनो महिमा त्वयम् ।

इतः परं तु तत्तीर्थं पितृलोकनिवासिनाम्

॥६६॥

भविष्यति न सन्देहो यत्र स्नात्वा सुखी भवेत् ।

पितृतीर्थं तु तन्नाम्नाप्यत ऊर्ध्वं भविष्यति

॥६७॥

मल्लिङ्गस्थापनं तत्र कार्यं देव्याश्च सत्तम ।

पूजयिष्यन्ति ते तत्र पितृलोकनिवासिनः

॥६८॥

त्रैलोक्ये यानि तीर्थानि तत्र श्रेष्ठमिदं भवेत् ।

पित्रीश्वरीपूजया तु त्रैलोक्यं पूजितं भवेत्

॥६९॥

श्रीनारायण उवाच

इति देववचः श्रुत्वा देवं मूर्ध्ना प्रणम्य च ।

तदनुज्ञां समादाय ययौ देवान्तिकं हरिः

॥७०॥

तत्सर्वं कथयामास कारणं शङ्करोदितम् ।

साधु साध्विति ते प्रोचुरमरा मौलिचालनैः

॥७१॥

शशंसुर्भस्ममाहात्म्यं हरिब्रह्मादयः सुराः ।

पितरश्चैव सन्तुष्टास्तीर्थलाभात्परन्तप

॥७२॥

तत्तीर्थतीरे लिङ्गं च देव्या मूर्तिं यथाविधि ।

स्थापयामासुरमराः पूजयामासुरन्वहम्

॥७३॥

तत्र ये प्राणिनोऽभूवन्पापभोगार्थमास्थिताः ।

ते विमानं समारुह्य गताः कैलासमण्डलम्

॥७४॥

नाम्ना भद्रगणास्ते तु वसन्त्यद्यापि तत्र हि ।

पुनश्च दूरदेशे तु कुम्भीपाको विनिर्मितः

॥७५॥

निरुद्धं शैवगमनं देवैस्तत्र तु तद्दिनात् ।

इति ते सर्वमाख्यातं भस्ममाहात्म्यमुत्तमम्

॥७६॥

नातः परतरं किञ्चिदधिकं विद्यते मुने ।

ऊर्ध्वपुण्ड्रविधिं चैवाप्यधिकारिविभेदतः

॥७७॥

प्रवक्ष्ये मुनिशार्दूल वैष्णवागमलोकनात् ।

ऊर्ध्वपुण्ड्रप्रमाणानि दिव्यान्यङ्गुलिभेदतः

॥७८॥

वर्णाभिमन्त्रदेवांश्च प्रवक्ष्यामि फलानि च ।

पर्वताग्रे नदीतीरे शिवक्षेत्रे विशेषतः

॥७९॥

सिन्धुतीरे च वल्मीके तुलसीमूलमाश्रिते ।

मृद एतास्तु सङ्ग्राह्या वर्जयेदन्यमृत्तिकाः

॥८०॥

श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत् ।

श्रीकरं पीतमित्याहुर्धर्मदं श्वेतमुच्यते

॥८१॥

अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत् ।

अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी

॥८२॥

एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् ।

वर्तिदीपावलिकृतिं वेणपत्राकृतिं तथा

॥८३॥

पद्मस्य मुकुलाकारं तथा कुर्यात्प्रयत्नतः ।

मत्स्यकूर्माकृतिं वापि शङ्खाकारं ततः परम्

॥८४॥

दशाङ्गुलिप्रमाणं तु उत्तमोत्तममुच्यते ।

नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम्

॥८५॥

सप्तषट्पञ्चभिः पुण्ड्रं मध्यमं त्रिविधं स्मृतम् ।

चतुस्त्रिद्व्यङ्गुलैः पुण्ड्रं कनिष्ठं त्रिविधं भवेत्

॥८६॥

ललाटे केशवं विद्यान्नारायणमथोदरे ।

माधवं हृदि विन्यस्य गोविन्दं कण्ठकूपके

॥८७॥

उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते ।

तत्पार्श्वबाहुमध्ये च मधुसूदनमेव च

॥८८॥

त्रिविक्रमं कर्णदेशे वामकुक्षौ तु वामनम् ।

श्रीधरं बाहुके वामे हृषीकेशं तु कर्णके

॥८९॥

पृष्ठे च पद्मनाभं तु ककुद्दामोदरं स्मरेत् ।

द्वादशैतानि नामानि वासुदेवेति मूर्धनि

॥९०॥

पूजाकाले च होमे च सायं प्रातः समाहितः ।

नामान्युच्चार्य विधिना धारयेदूर्ध्वपुण्ड्रकम्

॥९१॥

अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् ।

शुचिरेव भवेन्नित्यं मूर्ध्नि पुण्ड्राङ्कितो नरः

॥९२॥

ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् ।

श्वपाकोऽपि विमानस्थो मम लोके महीयते

॥९३॥

एकान्तिनो महाभागा मत्स्वरूपविदोऽमलाः ।

सान्तरालान्प्रकुर्वन्ति पुण्ड्रान्विष्णुपदाकृतीन्

॥९४॥

परमैकान्तिनोऽप्येवं मत्पादैकपरायणाः ।

हरिद्राचूर्णसंयुक्ताञ्छूलाकारांस्तु वामलान्

॥९५॥

अन्ये तु वैष्णवाः पुण्ड्रानच्छिद्रानपि भक्तितः ।

प्रकुर्वीरन्दीपपद्मवेणुपत्रोपमाकृतीन्

॥९६॥

अच्छिद्रानपि सच्छिद्रान् कुर्युः केवलवैष्णवाः ।

अच्छिद्रकरणे तेषां प्रत्यवायो न विद्यते

॥९७॥

एकान्तिनां प्रपन्नानां परमैकान्तिनामपि ।

अच्छिद्रपुण्ड्राकरणे प्रत्यवायो महान्भवेत्

॥९८॥

ऊर्ध्वपुण्ड्रं तु यः कुर्याद्दण्डाकारं तु शोभनम् ।

मध्ये छिद्रं वैष्णवाश्च नमोऽन्तैः केशवादिभिः

॥९९॥

विमलान्यूर्ध्वपुण्ड्राणि सान्तरालानि यो नरः ।

करोति विपुलं तत्र मन्दिरं मे करोति सः

॥१००॥

ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे ।

लक्ष्म्या साकं सहासीनो रमते विष्णुरव्ययः

॥१०१॥

निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः ।

स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति

॥१०२॥

अच्छिद्रमूर्ध्वपुण्ड्रं तु यः करोति विमूढधीः ।

स पर्यायेण तानेति नरकानेकविंशतिम्

॥१०३॥

ऋजूनि स्फुटपार्श्वानि सान्तरालानि विन्यसेत् ।

ऊर्ध्वपुण्ड्राणि दण्डाब्जदीपमत्स्यनिभानि च

॥१०४॥

शिखोपवीतवद्धार्यमूर्ध्वपुण्ड्रं द्विजेन च ।

विना कृताश्चेद्विफलाः क्रियाः सर्वा महामुने

॥१०५॥

तस्मात्सर्वेषु कार्येषु कार्यं विप्रस्य धीमतः ।

ऊर्ध्वपुण्ड्रं त्रिशूलं च वर्तुलं चतुरस्रकम्

॥१०६॥

अर्धचन्द्रादिकं लिङ्गं वेदनिष्ठो न धारयेत् ।

जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः

॥१०७॥

पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् ।

ख्यातिकान्त्यादिसिद्ध्यर्थं चापि विष्ण्वागमादिषु

॥१०८॥

स्थितं पुण्ड्रान्तरं नैव धारयेद्वैदिको जनः ।

तिर्यक्त्रिपुण्ड्रं सन्त्यज्य श्रौतं कथमपि भ्रमात्

॥१०९॥

ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् ।

विना पुण्ड्रान्तरं मोहाद्धारयन्नारकी भवेत्

॥११०॥

वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि ।

पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि

॥१११॥

नाङ्कनं विग्रहे कुर्याद्वेदमार्गं समाश्रितः ।

श्रौतधर्मैकनिष्ठानां लिङ्गं तु श्रौतमेव हि

॥११२॥

अश्रौतधर्मनिष्ठानामश्रौत लिङ्गमीरितम् ।

देवता वेदसिद्धा यास्तासां लिङ्गं तु वैदिकम्

॥११३॥

अश्रौततन्त्रनिष्ठा यास्तासामश्रौतमेव हि ।

वेदसिद्धो महादेवः साक्षात्संसारमोचकः

॥११४॥

भक्तानामुपकाराय श्रौतं लिङ्गं दधाति च ।

वेदसिद्धस्य विष्णोश्च श्रौतं लिङ्गं न चेतरत्

॥११५॥

प्रादुर्भावविशेषाणामपि तस्य तदेव हि ।

श्रौतं लिङ्गं तु विज्ञेयं त्रिपुण्ड्रोद्धूलनादिकम्

॥११६॥

अश्रौतमूर्ध्वपुण्ड्रादि नैव तिर्यक्त्रिपुण्ड्रकम् ।

वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना

॥११७॥

ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि ।

यस्तु नारायणं देवं प्रपन्नः परमं पदम् ।

धारयेत्सर्वदा शूलं ललाटे गन्धवारिणा

॥११८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥