मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय २३

3
एकादशस्कन्धः · 23

तप्तकृच्छ्रादिलक्षणवर्णनम्

श्रीनारायण उवाच

अमृतापिधानमित्येवमुच्चार्य साधकोत्तमः ।

उच्छिष्टभाग्भ्यः पात्रान्नं दद्यादन्ते विचक्षणः

॥१॥

ये के चास्मत्कुले जाता दासदास्योऽनकाङ्क्षिणः ।

ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले

॥२॥

रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् ।

अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु

॥३॥

पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् ।

पात्रे तु निक्षिपेद्यस्तु स विप्रः पङ्क्तिदूषकः

॥४॥

उच्छिष्टस्तेन संस्पृष्टः शुना शूद्रेण च द्विजः ।

उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति

॥५॥

अनुच्छिष्टेन संस्पृष्टैः स्नानमेव विधीयते ।

एकाहुतिप्रदानेन कोटियज्ञफलं लभेत्

॥६॥

पञ्चभिः पञ्चकोटीनां तदनन्तफलं स्मृतम् ।

प्राणाग्निहोत्रवेत्रे यो ह्यन्नदानं करोति च

॥७॥

दातुश्चैव तु यत्पुण्यं भोक्तुश्चैव तु यत्फलम् ।

प्राप्नुतस्तौ तदेव द्वावुभौ तौ स्वर्गगामिनौ

॥८॥

सपवित्रकरो भुङ्क्ते यस्तु विप्रो विधानतः ।

ग्रासे ग्रासे फलं तस्य पञ्चगव्यसमं भवेत्

॥९॥

पूजाकालत्रये नित्यं जपस्तर्पणमेव च ।

होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते

॥१०॥

अधःशयानो धर्मात्मा जितक्रोधो जितेन्द्रियः ।

लघुमिष्टहिताशी च विनीतः शान्तचेतसा

॥११॥

नित्यं त्रिषवणस्नायी नित्यं स शुभभाषणः ।

स्त्रीशूद्रपतितत्व्रात्यनास्तिकोच्छिष्टभाषणम्

॥१२॥

चाण्डालभाषणं चैव न कुर्यान्मुनिसत्तम ।

नत्वा नैव च भाषेत जपहोमार्चनादिषु

॥१३॥

मैथुनस्य तथालापं तद्गोष्ठीमपि वर्जयेत् ।

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा

॥१४॥

सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते ।

राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यमुदाहृतम्

॥१५॥

ऋतुस्तातेषु दारेषु सङ्गतिर्या विधानतः ।

संस्कृतायां सवर्णायामृतुं दृष्ट्वा प्रयत्नतः

॥१६॥

रात्रौ तु गमनं कार्यं ब्रह्मचर्यं हरेन्न तत् ।

ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि

॥१७॥

तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः ।

अजागलस्य यज्जन्म तज्जन्म श्रुतिचोदितम्

॥१८॥

अतः कार्यं तु विप्रेन्द्र ऋणत्रयविशोधनम् ।

ते देवानामृषीणां च पितॄणामृणिनस्तथा

॥१९॥

ऋषिभ्यो ब्रह्मचर्येण पितृभ्यस्तु तिलोदकैः ।

मुच्येद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरेत्

॥२०॥

क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक् ।

भिक्षाशी वा जपेद्विद्वान्कृच्छ्रचान्द्रायणादिकृत्

॥२१॥

लवणं क्षारमम्लं च गृञ्जनं कांस्यभोजनम् ।

ताम्बूलं च द्विभुक्तं च दुष्टवासः प्रमत्तनम्

॥२२॥

श्रुतिस्मृतिविरोधं च जपं रात्रौ विवर्जयेत् ।

वृथा न कालं गमयेद्द्यूतस्त्रीस्वापवादतः

॥२३॥

गमयेद्देवतापूजास्तोत्रागमविलोकनैः ।

भूशय्या ब्रह्मचारित्वं मौनचर्या तथैव च

॥२४॥

नित्यं त्रिषवणस्नानं शूद्रकर्मविवर्जनम् ।

नित्यपूजा नित्यदानमानन्दस्तुतिकीर्तनम्

॥२५॥

नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ।

जपनिष्ठस्य धर्मा ये द्वादशैते सुसिद्धिदाः

॥२६॥

नित्यं सूर्यमुपस्थाय तस्य चाभिमुखो जपेत् ।

देवताप्रतिमादौ वा वह्नौ वाभ्यर्च्य तन्मुखः

॥२७॥

स्नानपूजाजपध्यानहोमतर्पणतत्परः ।

निष्कामो देवतायां च सर्वकर्मनिवेदकः

॥२८॥

एवमादींश्च नियमान्पुरश्चरणकृच्चरेत् ।

तस्माद्द्विजः प्रसन्नात्मा जपहोमपरायणः

॥२९॥

तपस्यध्ययने युक्तो भवेद्भूतानुकम्पकः ।

तपसा स्वर्गमाप्नोति तपसा विन्दते महत्

॥३०॥

तपोयुक्तस्य सिध्यन्ति कर्माणि नियतात्मनः ।

विद्वेषणं संहरणं मारणं रोगनाशनम्

॥३१॥

येन येनाथ ऋषिणा यदर्थं देवताः स्तुताः ।

स स कामः समृद्ध्येत तेषां तेषां तथा तथा

॥३२॥

तानि कर्माणि वक्ष्यामि विधानानि च कर्मणाम् ।

पुरश्चरणमादौ च कर्मणां सिद्धिकारकम्

॥३३॥

स्वाध्यायाभ्यसनस्यादौ प्राजापत्यं चरेद्द्विजः ।

केशश्मश्रुलोमनखान् वापयित्वा ततः शुचिः

॥३४॥

तिष्ठेदहनि रात्रौ तु शुचिरासीत वाग्यतः ।

सत्यवादी पवित्राणि जपेद्व्याहृतयस्तथा

॥३५॥

ज्येकाराद्यास्तु ता जप्त्वा सावित्रीं च तदित्यृचम् ।

आपो हि ष्ठेति सूक्तं च पवित्रं पापनाशनम्

॥३६॥

पुनन्त्यः स्वस्तिमत्यश्च पावमान्यस्तथैव च ।

सर्वत्रैतत्प्रयोक्तव्यमादावन्ते च कर्मणाम्

॥३७॥

आसहस्रादाशताद्वाप्यादशादथवा जपेत् ।

अकारं व्याहृतीस्तिस्रः सावित्रीमथवायुतम्

॥३८॥

तर्पयित्वाद्भिराचार्यानृषींश्छन्दांसि देवताः ।

अनार्येण न भाषेत शूद्रेणापि न गर्हितैः

॥३९॥

नापि चोदक्यया वध्वा पतितैर्नान्त्यजैर्नृभिः ।

न देवब्राह्मणद्विष्टैर्नाचार्यगुरुनिन्दकैः

॥४०॥

न मातृपितृविद्विष्टैर्नावमन्येत कञ्चन ।

कृच्छ्राणामेष सर्वेषां विधिरुक्तोऽनुपूर्वशः

॥४१॥

प्राजापत्यस्य कृच्छ्रस्य तथा सान्तपनस्य च ।

पराकस्य च कृच्छ्रस्य विधिश्चान्द्रायणस्य च

॥४२॥

पञ्चभिः पातकैः सर्वैर्दुष्कृतैश्च प्रमुच्यते ।

तप्तकृच्छ्रेण सर्वाणि पापानि दहति क्षणात्

॥४३॥

त्रिभिश्चान्द्रायणैः पूतो ब्रह्मलोकं समश्नुते ।

अष्टभिर्देवताः साक्षात्पश्येत वरदास्तदा

॥४४॥

छन्दांसि दशभिर्ज्ञात्वा सर्वान्कामान्समश्नुते ।

त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्

॥४५॥

त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरेद्द्विजः ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्

॥४६॥

एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।

एकैकं ग्रासमश्नीयादहानि त्रीणि पूर्ववत्

॥४७॥

त्र्यहं चोपवसेदित्थमतिकृच्छ्रं चरेद्द्विजः ।

एवमेव त्रिभिर्युक्तं महासान्तपनं स्मृतम्

॥४८॥

तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् ।

प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः

॥४९॥

नियतस्तु पिबेदापः प्राजापत्यविधिः स्मृतः ।

यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्

॥५०॥

पराको नाम कृच्छ्रोऽयं सर्वपापप्रणोदनः ।

एकैकं तु ग्रसेत्पिण्डं कृष्णे शुक्ले च वर्धयेत्

॥५१॥

अमावास्यां न भुञ्जीत एवं चान्द्रायणे विधिः ।

उपस्पृश्य त्रिषवणमेतच्चान्द्रायणं स्मृतम्

॥५२॥

चतुरः प्रातरश्नीयाद्विप्रः पिण्डात्कृताह्निकः ।

चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम्

॥५३॥

अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते ।

नियतात्मा हविष्यस्य यतिचान्द्रायणं व्रतम्

॥५४॥

एतद्रुद्रास्तथादित्या वसवश्च चरन्ति हि ।

सर्वे कुशलिनो देवा मरुतश्च भुवा सह

॥५५॥

एकैकं सप्तरात्रेण पुनाति विधिवत्कृतम् ।

त्वगसृक्पिशितास्थीनि मेदोमज्जावसास्तथा

॥५६॥

एकैकं सप्तरात्रेण शुध्यत्येव न संशयः ।

एभिर्व्रतैर्विपूतात्मा कर्म कुर्वीत नित्यशः

॥५७॥

एवं शुद्धस्य कर्माणि सिध्यन्त्येव न संशयः ।

शुद्धात्मा कर्म कुर्वीत सत्यवादी जितेन्द्रियः

॥५८॥

इष्टान्कामांस्ततः सर्वान्सम्प्राप्नोति न संशयः ।

त्रिरात्रमेवोपवसेद्रहितः सर्वकर्मणा

॥५९॥

त्रीणि नक्तानि वा कुर्यात्ततः कर्म समारभेत् ।

एवं विधानं कथितं पुरश्चर्याफलप्रदम्

॥६०॥

गायत्र्याश्च पुरश्चर्यां सर्वकामप्रदायिनी ।

कथिता तव देवर्षे महापापविनाशिनी

॥६१॥

आदौ कुर्याद्व्रतं मन्त्री देहशोधनकारकम् ।

पुरश्चर्यां ततः कुर्यात्समस्तफलभाग्भवेत्

॥६२॥

इति ते कथितं गुह्यं पुरश्चर्याविधानकम् ।

एतत्परस्मै नो वाच्यं श्रुतिसारं यतः स्मृतम्

॥६३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे तप्तकृच्छ्रादिलक्षणवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥