मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय २

3
एकादशस्कन्धः · 2

शौचविधिवर्णनम्

श्रीनारायण उवाच

आचारहीनं न पुनन्ति वेदा यदप्यधीताः सह षड्भिरङ्गैः ।

छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः

॥१॥

ब्राह्मे मुहूर्त्ते चोत्थाय तत्सर्वं सम्यगाचरेत् ।

रात्रेरन्तिमयामे तु वेदाभ्यासं चरेद् बुधः

॥२॥

किञ्चित्कालं ततः कुर्यादिष्टदेवानुचिन्तनम् ।

योगी तु पूर्वमार्गेण ब्रह्मध्यानं समाचरेत्

॥३॥

जीवब्रह्मैक्यता येन जायते तु निरन्तरम् ।

जीवन्मुक्तश्च भवति तत्क्षणादेव नारद

॥४॥

पञ्चपञ्च उषःकालः सप्तपञ्चारुणोदयः ।

अष्टपञ्चभवेत्प्रातः शेषः सूर्योदयः स्मृतः

॥५॥

प्रातरुत्थाय यः कुर्याद्विण्मूत्रं द्विजसत्तमः ।

नैर्ऋत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः

॥६॥

विण्मूत्रेऽपि च कर्णस्थ आश्रमे प्रथमे द्विजः ।

निवीतं पृष्ठतः कुर्याद्वानप्रस्थगृहस्थयोः

॥७॥

कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् ।

विण्मूत्रं तु गृही कुर्यात्कर्णस्थं प्रथमाश्रमी

॥८॥

अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा ।

वाचं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः

॥९॥

न फालकृष्टे न जले न चितायां न पर्वते ।

जीर्णदेवालये कुर्यान्न वल्मीके न शाद्वले

॥१०॥

न ससत्त्वेषु गर्तेषु न गच्छन्न पथि स्थितः ।

सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने

॥११॥

पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः ।

उत्साहे मैथुने वापि तथा वै गुरुसन्निधौ

॥१२॥

यागे दाने ब्रह्मयज्ञे द्विजो मौनं समाचरेत् ।

देवता ऋषयः सर्वे पिशाचोरगराक्षसाः

॥१३॥

इतो गच्छन्तु भूतानि बहिर्भूमिं करोम्यहम् ।

इति सम्प्रार्थ्य पश्चात्तु कुर्याच्छौचं यथाविधि

॥१४॥

वाय्वग्नी विप्रमादित्यमापः पश्यंस्तथैव गाः ।

न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम्

॥१५॥

उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः ।

तत आच्छाद्य विण्मूत्रं लोष्ठपर्णतृणादिभिः

॥१६॥

गृहीतलिङ्ग उत्थाय स गच्छेद्वारिसन्निधौ ।

पात्रे जलं गहीत्वा तु गच्छेदन्यत्र चैव हि

॥१७॥

गृहीत्वा मृत्तिकां कूलाच्छ्वेतां ब्राह्मणसत्तमः ।

रक्तां पीतां तथा कृष्णां गृह्णीयुश्चान्यवर्णकाः

॥१८॥

अथवा या यत्र देशे सैव ग्राह्या द्विजोत्तमैः ।

अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषकोत्करात्

॥१९॥

कृतशौचावशिष्टाच्च न ग्राह्याः पञ्चमृत्तिकाः ।

मूत्रात्तु द्विगुणं शौचे मैथुने त्रिगुणं स्मृतम्

॥२०॥

एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् ।

मूत्रशौचं समाख्यातं शौचे तद् द्विगुणं स्मृतम्

॥२१॥

विट्शौचे लिङ्गदेशे तु प्रदद्यान्मृत्तिकाद्वयम् ।

पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः

॥२२॥

वामपादं पुरस्कृत्य पश्चाद्दक्षिणमेव च ।

प्रत्येकं च चतुर्वारं मृत्तिकां लेपयेत्सुधीः

॥२३॥

एवं शौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ।

त्रिगुणं वानप्रस्थस्य यतीनां च चतुर्गुणम्

॥२४॥

आर्द्रामलकमाना तु मृत्तिका शौचकर्मणि ।

प्रत्येकं तु सदा ग्राह्या नातो न्यूना कदाचन

॥२५॥

एतद्दिवा स्याद्विट्शौचं तदर्धं निशि कीर्तितम् ।

आतुरस्य तदर्धं तु मार्गस्थस्य तदर्धकम्

॥२६॥

स्त्रीशूद्राणामशक्तानां बालानां शौचकर्मणि ।

यथा गन्धक्षयः स्यात्तु तथा कुर्यादसंख्यकम्

॥२७॥

गन्धलेपक्षयो यावत्तावच्छौचं विधीयते ।

सर्वेषामेव वर्णानामित्याह भगवान्मनुः

॥२८॥

वामहस्तेन शौचं तु कुर्याद्वै दक्षिणेन न ।

नाभेरधो वामहस्तो नाभेरूर्ध्वं तु दक्षिणः

॥२९॥

शौचकर्मणि विज्ञेयो नान्यथा द्विजपुङ्गवैः ।

जलपात्रं न गृह्णीयाद्विण्मूत्रोत्सर्जने बुधः

॥३०॥

गृह्णीयाद्यदि मोहेन प्रायश्चित्तं चरेत्ततः ।

मोहाद्वाप्यथवाऽऽलस्यान्न कुर्याच्छौचमात्मनः

॥३१॥

जलाहारस्त्रिरात्रः स्यात्ततो जापाच्च शुध्यति ।

देशकालद्रव्यशक्तिस्वोपपत्तीश्च सर्वशः

॥३२॥

ज्ञात्वा शौचं प्रकर्तव्यमालस्यं नात्र धारयेत् ।

पुरीषोत्सर्जने कुर्याद् गण्डूषान्द्वादशैव तु

॥३३॥

चतुरो मूत्रविक्षेपे नातो न्यूनान्कदाचन ।

अधोमुखं नरः कृत्वा त्यजेत्तं वामतः शनैः

॥३४॥

आचम्य च ततः कुर्याद्दन्तधावनमादरात् ।

कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलमव्रणम्

॥३५॥

कनिष्ठिकाग्रवत्स्थूलं पूर्वार्धे कृतकूर्चकम् ।

करञ्जोदुम्बरौ चूतः कदम्बो लोध्रचम्पकौ ।

बदरीति द्रुमाश्चेति प्रोक्ता दन्तप्रधावने

॥३६॥

अन्नाद्याय व्यूहध्वंसे सोमो राजायमागमत् ।

स मे मुखं प्रक्षाल्य तेजसा च भगेन च

॥३७॥

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।

ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते

॥३८॥

अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेषु च ।

अपां द्वादशगण्डूषैर्विदध्याद्दन्तधावनम्

॥३९॥

रवेर्दिने यः कुरुते प्राणी दन्तस्य धावनम् ।

सविता भक्षितस्तेन स्वकुलं तेन घातितम्

॥४०॥

प्रतिपद्दर्शषष्ठीषु नवम्येकादशीरवौ ।

दन्तानां काष्ठसंयोगाद्दहत्यासप्तमं कुलम्

॥४१॥

कृत्वालं पादशौचं ह्यमलमथ जलं त्रिःपिबेद् द्विर्विमृज्य तर्जन्याङ्गुष्ठवत्या सजलमभिमृशे- न्नासिकारन्ध्रयुग्मम् ।

अङ्गुष्ठानामिकाभ्यां नयनयुगयुतं कर्णयुग्मं कनिष्ठा- ङ्गुष्ठाभ्यां नाभिदेशे हृदयमथ तले- नाङ्गुलीभिः शिरांसि

॥४२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे शौचविधिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥