मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय २४

3
एकादशस्कन्धः · 24

प्रातश्चिन्तनम्

नारद उवाच

नारायण महाभाग गायत्र्यास्तु समासतः ।

शान्त्यादिकान्प्रयोगांस्तु वदस्व करुणानिधे

॥१॥

श्रीनारायण उवाच

अतिगुह्यमिदं पृष्टं त्वया ब्रह्यतनूद्भव ।

न कस्यापि च वक्तव्यं दुष्टाय पिशुनाय च

॥२॥

अथ शान्तिः पयोऽक्ताभिः समिद्भिर्जुहुयाद् द्विजः ।

शमीसमिद्भिः शाम्यन्ति भूतरोगग्रहादयः

॥३॥

आर्द्राभिः क्षीरवृक्षस्य समिद्भिर्जुहुयाद् द्विजः ।

जुहुयाच्छकलैर्वापि भूतरोगादिशान्तये

॥४॥

जलेन तर्पयेत्सूर्यं पाणिभ्यां शान्तिमाप्नुयात् ।

जानुदघ्ने जले जप्त्वा सर्वान्दोषाञ्छमं नयेत्

॥५॥

कण्ठदघ्ने जले जप्त्वा मुच्येत्प्राणान्तिकाद्भयात् ।

सर्वेभ्यः शान्तिकर्मभ्यो निमज्याप्सु जपः स्मृतः

॥६॥

सौवर्णे राजते वापि पात्रे ताम्रमयेऽपि वा ।

क्षीरवृक्षमये वापि निर्व्रणे मृण्मयेऽपि वा

॥७॥

सहस्रं पञ्चगव्येन हुत्वा सुज्वलितेऽनले ।

क्षीरवृक्षमयैः काष्ठैः शेषं सम्पादयेच्छनैः

॥८॥

प्रत्याहुतिं स्पृशञ्जप्त्वा सहस्रं पात्रसंस्थितम् ।

तेन तं प्रोक्षयेद्देशं कुशैर्मन्त्रमनुस्मरन्

॥९॥

बलिं किरंस्ततस्तस्मिन्ध्यायेत्तु परदेवताम् ।

अभिचारसमुत्पन्ना कृत्या पापं च नश्यति

॥१०॥

देवभूतपिशाचाद्यान् यद्येवं कुरुते वशे ।

गृहं ग्रामं पुरं राष्ट्रं सर्वं तेभ्यो विमुच्यते

॥११॥

निखने मुच्यते तेभ्यो लिखने मध्यतोऽपि च ।

मण्डले शूलमालिख्य पूर्वोक्ते च क्रमेऽपि वा

॥१२॥

अभिमन्त्र्य सहस्रं तन्निखनेत्सर्वशान्तये ।

सौवर्णं राजतं वापि कुम्भं ताम्रमयं च वा

॥१३॥

मृण्मयं वा नवं दिव्यं सूत्रवेष्टितमव्रणम् ।

स्थण्डिले सैकते स्थाप्य पूरयेन्मन्त्रविज्जलैः

॥१४॥

दिग्भ्य आहृत्य तीर्थानि चतसृभ्यो द्विजोत्तमैः ।

एलाचन्दनकर्पूरजातीपाटलमल्लिकाः

॥१५॥

बिल्वपत्रं तथा क्रान्तां देवीं व्रीहियवांस्तिलान् ।

सर्षपान्क्षीरवृक्षाणां प्रवालानि च निक्षिपेत्

॥१६॥

सर्वाण्यभिविधायैव कुशकूर्चसमन्वितम् ।

स्नातः समाहितो विप्रः सहस्रं मन्त्रयेद् बुधः

॥१७॥

दिक्षु सौरानधीयीरन्मन्त्रान्विप्रास्त्रयीविदः ।

प्रोक्षयेत्पाययेदेनं नीरं तेनाभिषिञ्चयेत्

॥१८॥

भूतरोगाभिचारेभ्यः स निर्मुक्तः सुखी भवेत् ।

अभिषेकेण मुच्येत मृत्योरास्यगतो नरः

॥१९॥

अवश्यं कारयेद्विद्वान्राजा दीर्घं जिजीविषुः ।

गावो देयाश्च ऋत्विग्भ्य अभिषेके शतं मुने

॥२०॥

दक्षिणा येन वा तुष्टिर्यथाशक्त्याथवा भवेत् ।

जपेदश्वत्थमालभ्य मन्दवारे शतं द्विजः

॥२१॥

भूतरोगाभिचारेभ्यो मुच्यते महतो भयात् ।

गुडूच्याः पर्वविच्छिन्नाः पयोऽक्ता जुहुयाद् द्विजः

॥२२॥

एवं मृत्युञ्जयो होमः सर्वव्याधिविनाशनः ।

आम्रस्य जुहुयात्पत्रैः पयोऽक्तैर्ज्वरशान्तये

॥२३॥

वचाभिः पयसाक्ताभिः क्षयं हुत्वा विनाशयेत् ।

मधुत्रितयहोमेन राजयक्ष्मा विनश्यति

॥२४॥

निवेद्य भास्करायान्नं पायसं होमपूर्वकम् ।

राजयक्ष्माभिभूतं च प्राशयेच्छान्तिमाप्नुयात्

॥२५॥

लताः पर्वसु विच्छिद्य सोमस्य जुहुयाद् द्विजः ।

सोमे सूर्येण संयुक्ते पयोऽक्ताः क्षयशान्तये

॥२६॥

कुसुमैः शङ्खवृक्षस्य हुत्वा कुष्ठं विनाशयेत् ।

अपस्मारविनाशः स्यादपामार्गस्य तण्डुलैः

॥२७॥

क्षीरवृक्षसमिद्धोमादुन्मादोऽपि विनश्यति ।

औदुम्बरसमिद्धोमादतिमेहः क्षयं व्रजेत्

॥२८॥

प्रमेहं शमयेद्धुत्वा मधुनेक्षुरसेन वा ।

मधुत्रितयहोमेन नयेच्छान्तिं मसूरिकाम्

॥२९॥

कपिलासर्पिषा हुत्वा नयेच्छान्तिं मसूरिकाम् ।

उदुम्बरवटाश्वत्थैर्गोगजाश्वामयं हरेत्

॥३०॥

पिपीलिमधुवल्मीके गृहे जाते शतं शतम् ।

शमीसमिद्भिरन्नेन सर्पिषा जुहुयाद् द्विजः

॥३१॥

तदुत्थं शान्तिमायाति शेषैस्तत्र बलिं हरेत् ।

अभ्रस्तनितभूकम्पालक्ष्यादौ वनवेतसः

॥३२॥

सप्ताहं जुहुयादेवं राष्ट्रे राज्यं सुखी भवेत् ।

यां दिशं शतजप्तेन लोष्ठेनाभिप्रताडयेत्

॥३३॥

ततोऽग्निमारुतारिभ्यो भयं तस्य विनश्यति ।

मनसैव जपेदेनां बद्धो मुच्येत बन्धनात्

॥३४॥

भूतरोगविषादिभ्यः स्पृशञ्जप्त्वा विमोचयेत् ।

भूतादिभ्यो विमुच्येत जलं पीत्वाभिमन्त्रितम्

॥३५॥

अभिमन्त्र्य शतं भस्म न्यसेद्भूतादिशान्तये ।

शिरसा धारयेद्भस्म मन्त्रयित्वा तदित्यृचा

॥३६॥

सर्वव्याधिविनिर्मुक्तः सुखी जीवेच्छतं समाः ।

अशक्तः कारयेच्छान्तिं विप्रं दत्त्वा तु दक्षिणाम्

॥३७॥

अथ पुष्टिं श्रियं लक्ष्मीं पुष्पैर्हुत्वाप्नुयाद् द्विजः ।

श्रीकामो जुहुयात्पद्मै रक्तैः श्रियमवाप्नुयात्

॥३८॥

हुत्वा श्रियमवाप्नोति जातीपुष्पैर्नवैः शुभैः ।

शालितण्डुलहोमेन श्रियमाप्नोति पुष्कलाम्

॥३९॥

समिद्भिर्बिल्ववृक्षस्य हुत्वा श्रियमवाप्नुयात् ।

बिल्वस्य शकलैर्हुत्वा पत्रैः पुष्पैः फलैरपि

॥४०॥

श्रियमाप्नोति परमां मूलस्य शकलैरपि ।

समिद्भिर्बिल्ववृक्षस्य पायसेन च सर्पिषा

॥४१॥

शतं शतं च सप्ताहं हुत्वा श्रियमवाप्नुयात् ।

लाजैस्त्रिमधुरोपेतैर्होमे कन्यामवाप्नुयात्

॥४२॥

अनेन विधिना कन्या वरमाप्नोति वाञ्छितम् ।

रक्तोत्पलशतं हुत्वा सप्ताहं हेम चाप्नुयात्

॥४३॥

सूर्यबिम्बे जलं हुत्वा जलस्थं हेम चाप्नुयात् ।

अन्नं हुत्वाप्नुयादन्नं व्रीहीन्व्रीहिपतिर्भवेत्

॥४४॥

करीषचूर्णैर्वत्सस्य हुत्वा पशुमवाप्नुयात् ।

प्रियङ्गुपायसाज्यैश्च भवेद्धोमादिभिः प्रजा

॥४५॥

निवेद्य भास्करायान्नं पायसं होमपूर्वकम् ।

भोजयेत्तदृतुस्नातां पुत्रं परमवाप्नुयात्

॥४६॥

सप्ररोहाभिरार्द्राभिरायुर्हुत्वा समाप्नुयात् ।

समिद्भिः क्षीरवृक्षस्य हुत्वायुषमवाप्नुयात्

॥४७॥

सप्ररोहाभिरार्द्राभी रक्ताभिर्मधुरत्रयैः ।

व्रीहीणां च शतं हुत्वा हेम चायुरवाप्नुयात्

॥४८॥

सुवर्णकुड्मलं हुत्वा शतमायुरवाप्नुयात् ।

दूर्वाभिः पयसा वापि मधुना सर्पिषापि वा

॥४९॥

शतं शतं च सप्ताहमपमृत्युं व्यपोहति ।

शमीसमिद्भिरन्नेन पयसा वा च सर्पिषा

॥५०॥

शतं शतं च सप्ताहमपमृत्युं व्यपोहति ।

न्यग्रोधसमिधो हुत्वा पायसं होमयेत्ततः

॥५१॥

शतं शतं च सप्ताहमपमृत्युं व्यपोहति ।

क्षीराहारो जपेन्मृत्योः सप्ताहाद्विजयी भवेत्

॥५२॥

अनश्नन्वाग्यतो जप्त्वा त्रिरात्रं मुच्यते यमात् ।

निमज्ज्याप्सु जपेदेवं सद्यो मृत्योर्विमुच्यते

॥५३॥

जपेद् बिल्वं समाश्रित्य मासं राज्यमवाप्नुयात् ।

बिल्वं हुत्वाप्नुयाद्राज्यं समूलफलपल्लवम्

॥५४॥

हुत्वा पद्मशतं मासं राज्यमाप्नोत्यकण्टकम् ।

यवागूं ग्राममाप्नोति हुत्वा शालिसमन्वितम्

॥५५॥

अश्वत्थसमिधो हुत्वा युद्धादौ जयमाप्नुयात् ।

अर्कस्य समिधो हुत्वा सर्वत्र विजयी भवेत्

॥५६॥

संयुक्तैः पयसा पत्रैः पुष्पैर्वा वेतसस्य च ।

पायसेन शतं हुत्वा सप्ताहं वृष्टिमाप्नुयात्

॥५७॥

नाभिदघ्ने जले जप्त्वा सप्ताहं वृष्टिमाप्नुयात् ।

जले भस्मशतं हुत्वा महावृष्टिं निवारयेत्

॥५८॥

पालाशाभिरवाप्नोति समिद्भिर्ब्रह्मवर्चसम् ।

पलाशकुसुमैर्हुत्वा सर्वमिष्टमवाप्नुयात्

॥५९॥

पयो हुत्वाऽऽप्नुयान्मेधामाज्यं बुद्धिमवाप्नुयात् ।

अभिमन्त्र्य पिबेद् ब्राह्मं रसं मेधामवाप्नुयात्

॥६०॥

पुष्पहोमे भवेद्वासस्तन्तुभिस्तद्विधं पटम् ।

लवणं मधुसम्मिश्रं हुत्वेष्टं वशमानयेत्

॥६१॥

नयेदिष्टं वशं हुत्वा लक्ष्मीपुष्पैर्मधुप्लुतैः ।

नित्यमञ्जलिनाऽऽत्मानमभिषिञ्चेज्जले स्थितः

॥६२॥

मतिमारोग्यमायुष्यमग्र्यं स्वास्थ्यमवाप्नुयात् ।

कुर्याद्विप्रोऽन्यमुद्दिश्य सोऽपि पुष्टिमवाप्नुयात्

॥६३॥

अथ चारुविधिर्मासं सहस्रं प्रत्यहं जपेत् ।

आयुष्कामः शुचौ देशे प्राप्नुयादायुरूत्तमम्

॥६४॥

आयुरारोग्यकामस्तु जपेन्मासद्वयं द्विजः ।

भवेदायुष्यमारोग्यं श्रियै मासत्रयं जपेत्

॥६५॥

आयुः श्रीपुत्रदाराद्याश्चतुर्भिश्च यशो जपात् ।

पुत्रदारायुरारोग्यं श्रियं विद्यां च पञ्चभिः

॥६६॥

एवमेवोत्तरान्कामान् मासैरेवोत्तरैर्व्रजेत् ।

एकपादो जपेदूर्ध्वबाहुः स्थित्वा निराश्रयः

॥६७॥

मासं शतत्रयं विप्रः सर्वान्कामानवाप्नुयात् ।

एवं शतोत्तरं जप्त्वा सहस्रं सर्वमाप्नुयात्

॥६८॥

रुद्ध्वा प्राणमपानं च जपेन्मासं शतत्रयम् ।

यदिच्छेत्तदवाप्नोति सहस्रात्परमाप्नुयात्

॥६९॥

एकपादो जपेदूर्ध्वबाहू रुद्ध्वानिलं वशः ।

मासं शतमवाप्नोति यदिच्छेदिति कौशिकः

॥७०॥

एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् ।

निमज्ज्याप्सु जपेन्मासं शतमिष्टमवाप्नुयात्

॥७१॥

एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् ।

एकपादो जपेदूर्ध्वबाहू रुद्ध्वा निराश्रयः

॥७२॥

नक्तमश्नन् हविष्यान्नं वत्सरादृषितामियात् ।

गीरमोघा भवेदेवं जप्त्वा संवत्सरद्वयम्

॥७३॥

त्रिवत्सरं जपेदेवं भवेत्त्रैकालदर्शनम् ।

आयाति भगवान्देवश्चतुःसंवत्सरं जपेत्

॥७४॥

पञ्चभिर्वत्सरैरेवमणिमादिगुणो भवेत् ।

एवं षड्वत्सरं जप्त्वा कामरूपित्वमाप्नुयात्

॥७५॥

सप्तिभिर्वत्सरैरेवममरत्वमवाप्नुयात् ।

मनुत्वं नवभिः सिद्धमिन्द्रत्वं दशभिर्भवेत्

॥७६॥

एकादशभिराप्नोति प्राजापत्यं सुवत्सरैः ।

बह्मत्वं प्राप्नुयादेवं जप्त्वा द्वादशवत्सरान्

॥७७॥

एतेनैव जिता लोकास्तपसा नारदादिभिः ।

शाकमन्ये परे मूलं फलमन्ये पयः परे

॥७८॥

घृतमन्ये परे सोममपरे चरुवृत्तयः ।

ऋषयः पक्षमश्नन्ति केचिद्भैक्ष्याशिनोऽहनि

॥७९॥

हविष्यमपरेऽश्नन्तः कुर्वन्त्येव परं तपः ।

अथ शुद्ध्यै रहस्यानां त्रिसहस्रं जपेद् द्विजः

॥८०॥

मासं शुद्धो भवेत्स्तेयात्सुवर्णस्य द्विजोत्तमः ।

जपेन्मासं त्रिसाहस्रं सुरापः शुद्धिमाप्नुयात्

॥८१॥

मासं जपेत् त्रिसाहस्रं शुचिः स्याद् गुरुतल्पगः ।

त्रिसहस्रं जपेन्मासं कुटीं कृत्वा वने वसन्

॥८२॥

ब्रह्महा मुच्यते पापादिति कौशिकभाषितम् ।

द्वादशाहं निमज्ज्याप्सु सहस्रं प्रत्यहं जपेत्

॥८३॥

मुच्येरन्नंहसः सर्वे महापातकिनो द्विजाः ।

त्रिसाहस्रं जपेन्मासं प्राणानायम्य वाग्यतः

॥८४॥

महापातकयुक्तो वा मुच्यते महतो भयात् ।

प्राणायामसहस्रेण ब्रह्महापि विशुध्यति

॥८५॥

षट्कृत्वस्त्वभ्यसेदूर्ध्वं प्राणापानौ समाहितः ।

प्राणायामो भवेदेष सर्वपापप्रणाशनः

॥८६॥

सहस्रमभ्यसेन्मासं क्षितिपः शुचितामियात् ।

द्वादशाहं त्रिसाहस्रं जपेद्धि गोवधे द्विजः

॥८७॥

अगम्यागमनस्तेयहननाभक्ष्यभक्षणे ।

दशसाहस्रमभ्यस्ता गायत्री शोधयेद् द्विजम्

॥८८॥

प्राणायामशतं कृत्वा मुच्यते सर्वकिल्विषात् ।

सर्वेषामेव पापानां सङ्करे सति शुद्धये

॥८९॥

सहस्रमभ्यसेन्मासं नित्यजापी वने वसन् ।

उपवाससमं जप्यं त्रिसहस्रं तदित्यृचम्

॥९०॥

चतुर्विंशतिसाहस्रमभ्यस्तात्कृच्छ्रसंज्ञिता ।

चतुःषष्टिसहस्राणि चान्द्रायणसमानि तु

॥९१॥

शतकृत्वोऽभ्यसेन्नित्यं प्राणानायम्य सन्ध्ययोः ।

तदित्यृचमवाप्नोति सर्वपापक्षयं परम्

॥९२॥

निमज्ज्याप्सु जपेन्नित्यं शतकृत्वस्तदित्यृचम् ।

ध्यायन्देवीं सूर्यरूपां सर्वपापैः प्रमुच्यते

॥९३॥

इति ते सम्यगाख्याताः शान्तिशुद्ध्यादिकल्पनाः ।

रहस्यातिरहस्याश्च गोपनीयास्त्वया सदा

॥९४॥

इति संक्षेपतः प्रोक्तः सदाचारस्य संग्रहः ।

विधिनाऽऽचरणादस्य माया दुर्गा प्रसीदति

॥९५॥

नैमित्तिकं च नित्यं च काम्यं कर्म यथाविधि ।

आचरेन्मनुजः सोऽयं भुक्तिमुक्तिफलाप्तिभाक्

॥९६॥

आचारः प्रथमो धर्मो धर्मस्य प्रभुरीश्वरी ।

इत्युक्तं सर्वशास्त्रेषु सदाचारफलं महत्

॥९७॥

आचारवान्सदा पूतः सदैवाचारवान्मसुखी ।

आचारवान्सदा धन्यः सत्यं सत्यं च नारद

॥९८॥

देवीप्रसादजनकं सदाचारविधानकम् ।

यदपि शृणुयान्मर्त्यो महासम्पत्तिसौख्यभाक्

॥९९॥

सदाचारेण सिद्धेच्च ऐहिकामुष्मिकं सुखम् ।

तदेव ते मया प्रोक्तं किमन्यच्छ्रोतुमिच्छसि

॥१००॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे सदाचारनिरूपणं नाम चतुर्विंशोध्यायः ॥ २४ ॥