मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वादशस्कन्धः, अध्याय १

3
द्वादशस्कन्धः · 1

गायत्रीविचारः

नारद उवाच

सदाचारविधिर्देव भवता वर्णितः प्रभो ।

तस्याप्यतुलमाहात्म्यं सर्वपापविनाशनम्

॥१॥

श्रुतं भवन्मुखाम्भोजच्युतं देवीकथामृतम् ।

व्रतानि यानि चोक्तानि चान्द्रायणमुखानि ते

॥२॥

दुःखसाध्यानि जानीमः कर्तृसाध्यानि तानि च ।

तदस्मात्साम्प्रतं यत्तु सुखसाध्यं शरीरिणाम्

॥३॥

देवीप्रसादजनकं शुभानुष्ठानसिद्धिदम् ।

तत्कर्म वद मे स्वामिन् कृपापूर्वं सुरेश्वर

॥४॥

सदाचारविधौ यश्च गायत्रीविधिरीरितः ।

तस्मिन्मुख्यतमं किं स्यात्किं वा पुण्याधिकप्रदम्

॥५॥

ये गायत्रीगता वर्णास्तत्त्वसंख्यास्त्वयेरिताः ।

तेषां के ऋषयः प्रोक्ताः कानि छन्दांसि वै मुने

॥६॥

तेषां का देवताः प्रोक्ताः सर्वं कथय मे प्रभो ।

महत्कौतूहलं मे च मानसे परिवर्तते

॥७॥

श्रीनारायणाय उवाच

कुर्यादन्यन्न वा कुर्यादनुष्ठानादिकं तथा ।

गायत्रीमात्रनिष्ठस्तु कृतकृत्यो भवेद्द्विजः

॥८॥

सन्ध्यासु चार्घ्यदानं च गायत्रीजपमेव च ।

सहस्रत्रितयं कुर्वन्सुरैः पूज्यो भवेन्मुने

॥९॥

न्यासान्करोतु वा मा वा गायत्रीमेव चाभ्यसेत् ।

ध्यात्वा निर्व्याजया वृत्त्या सच्चिदानन्दरूपिणीम्

॥१०॥

यदक्षरैकसंसिद्धेः स्पर्धते ब्राह्मणोत्तमः ।

हरिशङ्करकञ्जोत्थसूर्यचन्द्रहुताशनैः

॥११॥

अथातः श्रूयतां ब्रह्मन् वर्णऋष्यादिकांस्तथा ।

छन्दांसि देवतास्तद्वत्क्रमात्तत्त्वानि चैव हि

॥१२॥

वामदेवोऽत्रिर्वसिष्ठः शुक्रः कण्वः पराशरः ।

विश्वामित्रो महातेजाः कपिलः शौनको महान्

॥१३॥

याज्ञवल्क्यो भरद्वाजो जमदग्निस्तपोनिधिः ।

गौतमो मुद्गलश्चैव वेदव्यासश्च लोमशः

॥१४॥

अगस्त्यः कौशिको वत्सः पुलस्त्यो माण्डुकस्तथा ।

दुर्वासास्तपसां श्रेष्ठो नारदः कश्यपस्तथा

॥१५॥

इत्येते ऋषयः प्रोक्ता वर्णानां क्रमशो मुने ।

गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च

॥१६॥

त्रिष्टुभं जगती चैव तथातिजगती मता ।

शक्वर्यतिशक्वरी च धृतिश्चातिधृतिस्तथा

॥१७॥

विराट्प्रस्तारपङ्क्तिश्च कृतिः प्रकृतिराकृतिः ।

विकृतिः सकृतिश्चैवाक्षरपङ्क्तिस्तथैव च

॥१८॥

भूर्भुवः स्वरितिच्छन्दस्तथा ज्योतिष्मती स्मृतम् ।

इत्येतानि च छन्दांसि कीर्तितानि महामुने

॥१९॥

दैवतानि शृणु प्राज्ञ तेषामेवानुपूर्वशः ।

आग्नेयं प्रथमं प्रोक्तं प्राजापत्यं द्वितीयकम्

॥२०॥

तृतीयं च तथा सौम्यमीशानं च चतुर्थकम् ।

सावित्रं पञ्चमं प्रोक्तं षष्ठमादित्यदैवतम्

॥२१॥

बार्हस्पत्यं सप्तमं तु मैत्रावरुणमष्टमम् ।

नवमं भगदैवत्यं दशमं चार्यमेश्वरम्

॥२२॥

गणेशमेकादशकं त्वाष्ट्रं द्वादशकं स्मृतम् ।

पौष्णं त्रयोदशं प्रोक्तमैन्द्राग्नं च चतुर्दशम्

॥२३॥

वायव्यं पञ्चदशकं वामदैव्यं च षोडशम् ।

मैत्रावरुणिदैवत्यं प्रोक्तं सप्तदशाक्षरम्

॥२४॥

अष्टादशं वैश्वदेवमूनविंशं तु मातृकम् ।

वैष्णवं विंशतितमं वसुदैवतमीरितम्

॥२५॥

एकविंशतिसंख्याकं द्वाविंशं रुद्रदैवतम् ।

त्रयोविंशं च कौबेरमाश्विनं तत्त्वसंख्यकम्

॥२६॥

चतुर्विंशतिवर्णानां देवतानां च सङ्ग्रहः ।

कथितः परमश्रेष्ठो महापापैकशोधनः ।

यदाकर्णनमात्रेण साङ्गं जाप्यफलं मुने

॥२७॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीविचारो नाम प्रथमोऽध्यायः ॥ १ ॥

वर्गःदेवीभागवतपुराणम्