मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वादशस्कन्धः, अध्याय ५

3
द्वादशस्कन्धः · 5

श्रीगायत्रीस्तोत्रवर्णनम्

श्रीगायत्रीस्तोत्रवर्णनम् नारद उवाव भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् ।

गायत्र्याः कथितं तस्माद्गायत्र्याः स्तोत्रमीरय

॥१॥

श्रीनारायण उवाच

आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि ।

सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते

॥२॥

त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती ।

बाह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा

॥३॥

प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।

वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा

॥४॥

हंसस्था गरुडारूढा तथा वृषभवाहिनी ।

ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः

॥५॥

यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते ।

सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि

॥६॥

रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी ।

त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी

॥७॥

सप्तर्षिप्रीतिजननी माया बहुवरप्रदा ।

शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा

॥८॥

आनन्दजननी दुर्गा दशधा परिपढ्यते ।

वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी

॥९॥

गरिष्ठा च वरार्हा च वरारोहा च सप्तमी ।

नीलगङ्गा तथा सन्ध्या सर्वदा भोगमोक्षदा

॥१०॥

भागीरथी मर्त्यलोके पाताले भोगवत्यपि ।

त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी

॥११॥

भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी ।

भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः

॥१२॥

महर्लोके महासिद्धिर्जनलोके जनेत्यपि ।

तपस्विनी तपोलोके सत्यलोके तु सत्यवाक्

॥१३॥

कमला विष्णुलोके च गायत्री ब्रह्मलोकदा ।

रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी

॥१४॥

अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे ।

साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी

॥१५॥

ततः परा परा शक्तिः परमा त्वं हि गीयसे ।

इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा

॥१६॥

गङ्गा च यमुना चैव विपाशा च सरस्वती ।

सरयूर्देविका सिन्धुर्नर्मदैरावती तथा

॥१७॥

गोदावरी शतद्रूश्च कावेरी देवलोकगा ।

कौशिकी चन्द्रभागा च वितस्ता च सरस्वती

॥१८॥

गण्डकी तापिनी तोया गोमती वेत्रवत्यपि ।

इडा च पिङ्गला चैव सुषुम्णा च तृतीयका

॥१९॥

गान्धारी हस्तिजिह्वा च पूषापूषा तथैव च ।

अलम्बुषा कुहूश्चैव शङ्खिनी प्राणवाहिनी

॥२०॥

नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः ।

हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका

॥२१॥

तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी ।

मूले तु कुण्डलीशक्तिर्व्यापिनी केशमूलगा

॥२२॥

शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी ।

किमन्यद्बहुनोक्तेन यत्किञ्चिज्जगतीत्रये

॥२३॥

तत्सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते ।

इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम्

॥२४॥

महापापप्रशमनं महासिद्धिविधायकम् ।

य इदं कीर्तयेत्स्तोत्रं सन्ध्याकाले समाहितः

॥२५॥

अपुत्रः प्राप्नुयात्युत्रं धनार्थी धनमाप्नुयात् ।

सर्वतीर्थतपोदानयज्ञयोगफलं लभेत्

॥२६॥

भोगान्भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् ।

तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत्

॥२७॥

यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् ।

लभते नात्र सन्देहः सत्यं सत्यं च नारद

॥२८॥

शृणुयाद्योऽपि तद्भक्त्या स तु पापात्प्रमुच्यते ।

पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम्

॥२९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे श्रीगायत्रीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥