मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वादशस्कन्धः, अध्याय ९

3
द्वादशस्कन्धः · 9

ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम्

व्यास उवाच

कदाचिदथ काले तु दशपञ्चसमा विभो ।

प्राणिनां कर्मवशतो न ववर्ष शतक्रतुः

॥१॥

अनावृष्ट्यातिदुर्भिक्षमभवत्क्षयकारकम् ।

गहे गृहे शवानां तु संख्या कर्तुं न शक्यते

॥२॥

केचिदश्वान्वराहान्वा भक्षयन्ति क्षुधार्दिताः ।

शवानि च मनुष्याणां भक्षयन्त्यपरे जनाः

॥३॥

बालकं बालजननी स्त्रियं पुरुष एव च ।

भक्षितुं चलिताः सर्वे क्षुधया पीडिता नराः

॥४॥

ब्राह्मणा बहवस्तत्र विचारं चक्रुरुत्तमम् ।

तपोधनो गौतमोऽस्ति स नः खेदं हरिष्यति

॥५॥

सर्वैर्मिलित्वा गन्तव्यं गौतमस्याश्रमेऽधुना ।

गायत्रीजपसंसक्तगौतमस्याश्रमेऽधुना

॥६॥

सुभिक्षं श्रूयते तत्र प्राणिनो बहवो गताः ।

एवं विमृश्य भूदेवाः साग्निहोत्राः कुटुम्बिनः

॥७॥

सगोधनाः सदासाश्च गौतमस्याश्रमं ययुः ।

पूर्वदेशाद्ययुः केचित्केचिद्दक्षिणदेशतः

॥८॥

पाश्चात्या औत्तराहाश्च नानादिग्भ्यः समाययुः ।

दृष्ट्वा समाजं विप्राणां प्रणनाम स गौतमः

॥९॥

आसनाद्युपचारैश्च पूजयामास वाडवान् ।

चकार कुशलप्रश्नं ततश्चागमकारणम्

॥१०॥

ते सर्वे स्वस्ववृत्तान्तं कथयामासुरुत्स्मयाः ।

दृष्ट्वा तान्दुःखितान्विप्रानभयं दत्तवान्मुनिः

॥११॥

युष्माकमेतत्सदनं भवद्दासोऽस्मि सर्वथा ।

का चिन्ता भवतां विप्रा मयि दासे विराजति

॥१२॥

धन्योऽहमस्मिन्समये यूयं सर्वे तपोधनाः ।

येषां दर्शनमात्रेण दुष्कृतं सुकृतायते

॥१३॥

ते सर्वे पादरजसा पावयन्ति गृहं मम ।

को मदन्यो भवेद्धन्यो भवतां समनुग्रहात्

॥१४॥

स्थेयं सर्वैः सुखेनैव सन्ध्याजपपरायणैः ।

व्यास उवाच ।

इति सर्वान्ममाश्वास्य गौतमो मुनिराट् ततः

॥१५॥

गायत्रीं प्रार्थयामास भक्तिसन्नतकन्धरः ।

नमो देवि महाविद्ये वेदमातः परात्परे

॥१६॥

व्याहृत्यादिमहामन्त्ररूपे प्रणवरूपिणि ।

साम्यावस्थात्मिके मातर्नमो ह्रींकाररूपिणि

॥१७॥

स्वाहास्वधास्वरूपे त्वां नमामि सकलार्थदाम् ।

भक्तकल्पलतां देवीमवस्थात्रयसाक्षिणीम्

॥१८॥

तुर्यातीतस्वरूपां च सच्चिदानन्दरूपिणीम् ।

सर्ववेदान्तसंवेद्यां सूर्यमण्डलवासिनीम्

॥१९॥

प्रातर्बालां रक्तवर्णां मध्याह्ने युवतीं पराम् ।

सायाह्ने कृष्णवर्णां तां वृद्धां नित्यं नमाम्यहम्

॥२०॥

सर्वभूतारणे देवि क्षमस्व परमेश्वरि ।

इति स्तुता जगन्माता प्रत्यक्षं दर्शनं ददौ

॥२१॥

पूर्णपात्रं ददौ तस्मै येन स्यात्सर्वपोषणम् ।

उवाच मुनिमम्बा सा यं यं कामं त्वमिच्छसि

॥२२॥

तस्य पूर्तिकरं पात्रं मया दत्तं भविष्यति ।

इत्युक्त्वान्तर्दधे देवी गायत्री परमा कला

॥२३॥

अन्नानां राशयस्तस्मानिर्गताः पर्वतोपमाः ।

षड्रसा विविधा राजंस्तृणानि विविधानि च

॥२४॥

भूषणानि च दिव्यानि क्षौमानि वसनानि च ।

यज्ञानां च समारम्भाः पात्राणि विविधानि च

॥२५॥

यद्यदिष्टमभूद्राजन् मुनेस्तस्य महात्मनः ।

तत्सर्वं निर्गतं तस्माद्गायत्रीपूर्णपात्रतः

॥२६॥

अथाहूय मुनीन्सर्वान्मुनिराड् गौतमस्तदा ।

धनं धान्यं भूषणानि वसनानि ददौ मुदा

॥२७॥

गोमहिष्यादिपशवो निर्गताः पूर्णपात्रतः ।

निर्गतान्यज्ञसम्भारान्स्रुक्स्रुवप्रभृतीन्ददौ

॥२८॥

ते सर्वे मिलिता यज्ञांश्चक्रिरे मुनिवाक्यतः ।

स्थानं तदेव भूयिष्ठमभवत्स्वर्गसन्निभम्

॥२९॥

यत्किञ्चित् त्रिषु लोकेषु सुन्दरं वस्तु दृश्यते ।

तत्सर्वं तत्र निष्पन्नं गायत्रीदत्तपात्रतः

॥३०॥

देवाङ्गनासमा दाराः शोभन्ते भूषणादिभिः ।

मुनयो देवसदृशा वस्त्रचन्दनभूषणैः

॥३१॥

नित्योत्सवः प्रववृते मुनेराश्रममण्डले ।

न रोगादिभयं किञ्चिन्न च दैत्यभयं क्वचित्

॥३२॥

स मुनेराश्रमो जातः समन्ताच्छतयोजनः ।

अन्ये च प्राणिनो येऽपि तेऽपि तत्र समागताः

॥३३॥

तांश्च सर्वान्पुपोषायं दत्त्वाभयमथात्मवान् ।

नानाविधैर्महायज्ञैर्विधिवत्कल्पितैः सुराः

॥३४॥

सन्तोषं परमं प्रापुर्मुनेश्चैव जगुर्यशः ।

सभायां वृत्रहा भूयो जगौ श्लोकं महायशाः

॥३५॥

अहो अयं नः किल कल्पपादपो मनोरथान्पूरयति प्रतिष्ठितः ।

नोचेदकाण्डे क्व हविर्वपा वा सुदुर्लभा यत्र तु जीवनाशा

॥३६॥

इत्थं द्वादशवर्षाणि पुपोष मुनिपुङ्गवान् ।

पुत्रवन्मुनिराड् गर्वगन्धेन परिवर्जितः

॥३७॥

गायत्र्याः परमं स्थानं चकार मुनिसत्तमः ।

यत्र सर्वैर्मुनिवरैः पूज्यते जगदम्बिका

॥३८॥

त्रिकालं परया भक्त्या पुरश्चरणकर्मभिः ।

अद्यापि यत्र देवी सा प्रातर्बाला तु दृश्यते

॥३९॥

मध्याह्ने युवती वृद्धा सायंकाले तु दृश्यते ।

तत्रैकदा समायातो नारदो मुनिसत्तमः

॥४०॥

रणयन्महतीं गायन्गायत्र्याः परमान्गुणान् ।

निषसाद सभामध्ये मुनीनां भावितात्मनाम्

॥४१॥

गौतमादिभिरत्युच्चैः पूजितः शान्तमानसः ।

कथाश्चकार विविधा यशसो गौतमस्य च

॥४२॥

ब्रह्मर्षे देवसदसि देवराट् तव यद्यशः ।

जगौ बहुविधं स्वच्छं मुनिपोषणजं परम्

॥४३॥

श्रुत्वा शचीपतेर्वाणीं त्वां द्रष्टुमहमागतः ।

धन्योऽसि त्वं मुनिश्रेष्ठ जगदम्बाप्रसादतः

॥४४॥

इत्युक्त्वा मुनिवर्यं तं गायत्रीसदनं ययौ ।

ददर्श जगदम्बां तां प्रेमोत्फुल्लविलोचनः

॥४५॥

तुष्टाव विधिवद्देवीं जगाम त्रिदिवं पुनः ।

अथ तत्र स्थिता ये ते ब्राह्मणा मुनिपोषिताः

॥४६॥

उत्कर्षं तु मुनेः श्रुत्वासूयया खेदमागताः ।

यथास्य न यशो भूयात्कर्तव्यं सर्वथैव हि

॥४७॥

काले समागते पश्चादिति सर्वैस्तु निश्चितम् ।

ततः कालेन कियताप्यभूद्वृष्टिर्धरातले

॥४८॥

सुभिक्षमभवत्सर्वदेशेषु नृपसत्तम ।

श्रुत्वा वार्तां सुभिक्षस्य मिलिताः सर्ववाडवाः

॥४९॥

गौतमं शप्तुमुद्योगं हा हा राजन् प्रचक्रिरे ।

धन्यौ तेषां च पितरौ ययोरुत्पत्तिरीदृशी

॥५०॥

कालस्य महिमा राजन् वक्तुं केन हि शक्यते ।

गौर्निर्मिता माययैका मुमूर्षुर्जरती नृप

॥५१॥

जगाम सा च शालायां होमकाले मुनेस्तदा ।

हुंहुंशब्दैर्वारिता सा प्राणांस्तत्याज तत्क्षणे

॥५२॥

गौर्हतानेन दुष्टेनेत्येवं ते चुक्रुशुर्द्विजाः ।

होमं समाप्य मुनिराङ् विस्मयं परमं गतः

॥५३॥

समाधिमीलिताक्षः संश्चिन्तयामास कारणम् ।

कृतं सर्वं द्विजैरेतदिति ज्ञात्वा तदैव सः

॥५४॥

दधार कोपं परमं प्रलये रुद्रकोपवत् ।

शशाप च ऋषीन्सर्वान्कोपसंरक्तलोचनः

॥५५॥

वेदमातरि गायत्र्यां तद्ध्याने तन्मनोर्जपे ।

भवतानुन्मुखा यूयं सर्वथा ब्राह्मणाधमाः

॥५६॥

वेदे वेदोक्तयज्ञेषु तद्वार्तासु तथैव च ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥५७॥

शिवे शिवस्य मन्त्रे च शिवशास्त्रे तथैव च ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥५८॥

मूलप्रकृत्याः श्रीदेव्यास्तद्ध्याने तत्कथासु च ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥५९॥

देवीमन्त्रे तथा देव्याः स्थानेऽनुष्ठानकर्मणि ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥६०॥

देव्युत्सवदिदृक्षायां देवीनामानुकीर्तने ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥६१॥

देवीभक्तस्य सान्निध्ये देवीभक्तार्चने तथा ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥६२॥

शिवोत्सवदिदृक्षायां शिवभक्तस्य पूजने ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥६३॥

रुद्राक्षं बिल्वपत्रे च तथा शुद्धे च भस्मनि ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥६४॥

श्रौतस्मार्तसदाचारे ज्ञानमार्गे तथैव च ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥६५॥

अद्वैतज्ञाननिष्ठायां शान्तिदान्त्यादिसाधने ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥६६॥

नित्यकर्माद्यनुष्ठानेऽप्यग्निहोत्रादिसाधने ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥६७॥

स्वाध्यायाध्ययने चैव तथा प्रवचनेऽपि च ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥६८॥

गोदानादिषु दानेषु पितृश्राद्धेषु चैव हि ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥६९॥

कृच्छ्रचान्द्रायणे चैव प्रायश्चित्ते तथैव च ।

भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः

॥७०॥

श्रीदेवीभिन्नदेवेषु श्रद्धाभक्तिसमन्विताः ।

शङ्खचक्राद्यङ्किताश्च भवत ब्राह्मणाधमाः

॥७१॥

कापालिकमतासक्ता बौद्धशास्त्ररताः सदा ।

पाखण्डाचारनिरता भवत ब्राह्मणाधमाः

॥७२॥

पितृमातृसुताभ्रातृकन्याविक्रयिणस्तथा ।

भार्याविकयिणस्तद्वद्भवत ब्राह्मणाधमाः

॥७३॥

वेदविक्रयिणस्तद्वत्तीर्थविक्रयिणस्तथा ।

धर्मविक्रयिणस्तद्वद्भवत ब्राह्मणाधमाः

॥७४॥

पाञ्चरात्रे कामशास्त्रे तथा कापालिके मते ।

बौद्धे श्रद्धायुता यूयं भवत ब्राह्मणाधमाः

॥७५॥

मातृकन्यागामिनश्च भगिनीगामिनस्तथा ।

परस्त्रीलम्पटाः सर्वे भवत ब्राह्मणाधमाः

॥७६॥

युष्माकं वंशजाताश्च स्त्रियश्च पुरुषास्तथा ।

मद्दत्तशापदग्धास्ते भविष्यन्ति भवत्समाः

॥७७॥

किं मया बहुनोक्तेन मूलप्रकृतिरीश्वरी ।

गायत्री परमा भूयाद्युष्मासु खलु कोपिता

॥७८॥

अन्धकूपादिकुण्डेषु युष्माकं स्यात्सदा स्थितिः ।

व्यास उवाच ।

वाग्दण्डमीदृशं कृत्वाप्युपस्पृश्य जलं ततः

॥७९॥

जगाम दर्शनार्थं च गायत्र्याः परमोस्तुकः ।

प्रणनाम महादेवीं सापि देवी परात्परा

॥८०॥

ब्राह्मणानां कृतिं दृष्ट्वा स्मयं चित्ते चकार ह ।

अद्यापि तस्या वदनं स्मययुक्तं च दृश्यते

॥८१॥

उवाच मुनिवर्यं तं स्मयमानमुखाम्बुजा ।

भुजङ्गायार्पितं दुग्धं विषायैवोपजायते

॥८२॥

शान्तिं कुरु महाभाग कर्मणो गतिरीदृशी ।

इति देवीं प्रणम्याथ ततोऽगात्स्वाश्रमं प्रति

॥८३॥

ततो विप्रैः शापदग्धैर्विस्मृता वेदराशयः ।

गायत्री विस्मृता सर्वैस्तदद्भुतमिवाभवत्

॥८४॥

ते सर्वेऽथ मिलित्वा तु पश्चात्तापयुतास्तथा ।

प्रणेमुर्मुनिवर्यं तं दण्डवत्पतिता भुवि

॥८५॥

नोचुः किञ्चन वाक्यं तु लज्जयाधोमुखाः स्थिताः ।

प्रसीदेति प्रसीदेति प्रसीदेति पुनः पुनः

॥८६॥

प्रार्थयामासुरभितः परिवार्य मुनीश्वरम् ।

करुणापूर्णहृदयो मुनिस्तान्समुवाच ह

॥८७॥

कृष्णावतारपर्यन्तं कुम्भीपाके भवेत्स्थितिः ।

न मे वाक्यं मृषा भूयादिति जानीथ सर्वथा

॥८८॥

ततः परं कलियुगे भुवि जन्म भवेद्धि वाम् ।

मदुक्तं सर्वमेतत्तु भवेदेव न चान्यथा

॥८९॥

मच्छापस्य विमोक्षार्थं युष्माकं स्याद्यदीषणा ।

तर्हि सेव्यं सदा सर्वैर्गायत्रीपदपङ्कजम्

॥९०॥

व्यास उवाच

इति सर्वान्विसृज्याथ गौतमो मुनिसत्तमः ।

प्रारब्धामिति मत्वा तु चित्ते शान्तिं जगाम ह

॥९१॥

एतस्मात्कारणाद्राजन् गते कृष्णे तु धीमति ।

कलौ युगे प्रवृत्ते तु कुम्भीपाकात्तु निर्गताः

॥९२॥

भुवि जाता ब्राह्मणाश्च शापदग्धाः पुरा तु ये ।

सन्ध्यात्रयविहीनाश्च गायत्रीभक्तिवर्जिताः

॥९३॥

वेदभक्तिविहीनाश्च पाखण्डमतगामिनः ।

अग्निहोत्रादिसत्कर्मस्वधास्वाहाविवर्जिताः

॥९४॥

मूलप्रकृतिमव्यक्तां नैव जानन्ति कर्हिचित् ।

तप्तमुद्राङ्किताः केचित्कामाचाररताः परे

॥९५॥

कापालिकाः कौलिकाश्च बौद्धा जैनास्तथापरे ।

पण्डिता अपि ते सर्वे दुराचारप्रवर्तकाः

॥९६॥

लम्पटाः परदारेषु दुराचारपरायणाः ।

कुम्भीपाकं पुनः सर्वे यास्यन्ति निजकर्मभिः

॥९७॥

तस्मात्सर्वात्मना राजन् संसेव्या परमेश्वरी ।

न विष्णूपासना नित्या न शिवोपासना तथा

॥९८॥

नित्या चोपासना शक्तेर्यां विना तु पतत्यधः ।

सर्वमुक्तं समासेन यत्पृष्टं तत्त्वयानघ

॥९९॥

अतः परं मणिद्वीपवर्णनं शृणु सुन्दरम् ।

यत्परं स्थानमाद्याया भुवनेश्या भवारणेः

॥१००॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥

वर्गःदेवीभागवतपुराणम्