मन्त्रदीक्षाविधिवर्णनम्
नारद उवाच
श्रुतं सहस्रनामाख्यं श्रीगायत्र्याः फलप्रदम् ।
स्तोत्रं महोन्नतिकरं महाभाग्यकरं परम्
॥१॥अधुना श्रोतुमिच्छामि दीक्षालक्षणमुत्तमम् ।
विना येन न सिध्येत देवीमन्त्रेऽधिकारिता
॥२॥ब्राह्मणानां क्षत्रियाणां विशां स्त्रीणां तथैव च ।
सामान्यविधिना सर्वं विस्तरेण वद प्रभो
॥३॥श्रीनारायण उवाच
शृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम् ।
देवाग्निगुरुपूजादावधिकारो यया भवेत्
॥४॥दिव्यं ज्ञानं हि या दद्यात्कुर्यात्पापक्षयं तु या ।
सैव दीक्षेति सम्प्रोक्ता वेदतन्त्रविशारदैः
॥५॥अवश्यं सा तु कर्तव्या यतो बहुफला मता ।
गुरुशिष्यावुभावत्राप्यतिशुद्धावपेक्षितौ
॥६॥गुरुस्तु विधिवत्प्रातः कृत्यं सर्वं विधाय च ।
स्नानसन्ध्यादिकं सर्वं यथाविधि विधाय च
॥७॥कमण्डलुकरो मौनी गृहं यायात्सरित्तटात् ।
यागमण्डपमासाद्य विशेत्तत्रासने वरे
॥८॥आचम्य प्राणानायम्य गन्धपुष्पविमिश्रितम् ।
सप्तवारास्त्रमन्त्रेण जप्तं वारि सुसाधयेत्
॥९॥वारिणा तेन मतिमानस्त्रमन्त्रं समुच्चरन् ।
प्रोक्षयेद्द्वारमखिलं ततः पूजां समाचरेत्
॥१०॥ऊर्ध्वोदुम्बरके देवं गणनाथं तथा श्रियम् ।
सरस्वतीं नाममन्त्रैः पूजयेद्गन्धपुष्पकैः
॥११॥द्वारदक्षिणशाखायां गङ्गां विघ्नेशमर्चयेत् ।
द्वारस्य वामशाखायां क्षेत्रपालं च सूर्यजाम्
॥१२॥देहल्यां पूजयेदस्त्रदेवतामस्त्रमन्त्रतः ।
सर्वं देवीमयं दृश्यमिति सञ्चिन्त्य सर्वतः
॥१३॥दिव्यानुत्सारयेद्विघ्नानस्त्रमन्त्रजपेन तु ।
अन्तरिक्षगतान्विघ्नान्पादघातैस्तु भूमिगान् ।
१४ वामशाखां स्पृशन्पश्चात्प्रविशेद्दक्षिणाङ्घ्रिणा ।
प्रविश्य कुम्भं संस्थाप्य सामान्यार्घ्यं विधाय च
॥१५॥तेन चार्घ्यजलेनापि नैर्ऋत्यां दिशि पूजयेत् ।
वास्तुनाथं पद्मयोनिं गन्धपुष्पाक्षतादिभिः
॥१६॥ततः कुर्यात्पञ्चगव्यं तेन चार्घ्योदकेन च ।
तोरणस्तम्भपर्यन्तं प्रोक्षयेन्मण्डपं गुरुः
॥१७॥सर्वं देवीमयं चेदं भावयेन्मनसा किल ।
मूलमन्त्रं जपन्भक्त्या प्रोक्षणं स्याच्छराणुना
॥१८॥शरमन्त्रं समुच्चार्य ताडयेन्मण्डपक्षमाम् ।
हुंमन्त्रं तु समुच्चार्य कुर्यादभ्युक्षणं ततः
॥१९॥धूपयेदन्तरं धूपैर्विकिरान् विकिरेत्ततः ।
मार्जयेत्तांस्तु मार्जन्या कुशनिर्मितया पुनः
॥२०॥ईशानदिशि तत्पुञ्जं कृत्वा संस्थापयेन्मुने ।
पुण्याहवाचनं कृत्वा दीनानाथांश्च तोषयेत्
॥२१॥विशेन्मृद्वासने पश्चान्नमस्कृत्य गुरुं निजम् ।
प्राङ्मुखो विधिवद्ध्यात्वा देयमन्त्रस्य देवताम्
॥२२॥भूतशुद्ध्यादिकं कृत्वा पूर्वोक्तेनैव वर्त्मना ।
ऋष्यादिन्यासकं कुर्याद्देयमन्त्रस्य वै मुने
॥२३॥न्यसेन्मुनिं तु शिरसि मुखे छन्दः समीरितम् ।
देवतां हृदयाम्भोजे गुह्ये बीजं तु पादयोः
॥२४॥शक्तिं विन्यस्य पश्चात्तु तालत्रयरवात्ततः ।
दिग्बन्धं कारयेत्पश्चाच्छोटिकाभिस्त्रिभिर्नरः
॥२५॥प्राणायामं ततः कृत्वा मूलमन्त्रमनुस्मरन् ।
मातृकां विन्यसेद्देहे तत्प्रकारस्तथोच्यते
॥२६॥ॐ अं नम इति प्रोच्य न्यसेच्छिरसि मन्त्रवित् ।
एवमेव तु सर्वेषु न्यसेत्स्थानेषु वै मुने
॥२७॥मूलमन्त्रं षडङ्गं च न्यसेदङ्गेषु सत्तमः ।
अङ्गुष्ठादिष्वङ्गुलीषु हृदयादिषु च क्रमात्
॥२८॥नमः स्वाहावषड्युक्तैर्हुंवौषट्फट्पदान्वितैः ।
प्रणवादियुतैर्मन्त्रैः षड्भिरेव षडङ्गकम्
॥२९॥वर्णन्यासादिकं पश्चान्मूलमन्त्रस्य योजयेत् ।
स्थानेषु तत्तत्कल्पोक्तेष्विति न्यासविधिः स्मृतः
॥३०॥ततो निजे शरीरेऽस्मिंश्चिन्तयेदासनं शुभम् ।
दक्षांसे च न्यसेद्धर्मं वामांसे ज्ञानमेव च
॥३१॥वामोरौ चापि वैराग्यं दक्षोरावथ विन्यसेत् ।
ऐश्वर्यं मुखदेशे तु मुने ध्यायेदधर्मकम्
॥३२॥वामपार्श्वे नाभिदेशे दक्षपार्श्वे तथा पुनः ।
नञादीश्चापि ज्ञानादीन्पूर्वोक्तानेव विन्यसेत्
॥३३॥पादा धर्मादयः प्रोक्ताः पीठस्य मुनिसत्तम ।
अधर्माद्यास्तु गात्राणि स्मृतानि मुनिपुङ्गवैः
॥३४॥मध्येऽनन्तं हृदि स्थाने न्यसेन्मृद्वासने स्थले ।
प्रपञ्चपद्मं विमलं तस्मिन्सूर्येन्दुपावकान्
॥३५॥न्यसेत्कलायुतान्मन्त्री संक्षेपात्ता वदाम्यहम् ।
सूर्यस्य द्वादश कलास्ता इन्दोः षोडश स्मृताः
॥३६॥दश वह्नेः कलाः प्रोक्तास्ताभिर्युक्तांस्तु तान्स्मरेत् ।
सत्त्वं रजस्तमश्चैव न्यसेत्तेषामथोपरि
॥३७॥आत्मानमन्तरात्मानं परमात्मानमेव च ।
ज्ञानात्मानं न्यसेद्विद्वानित्थं पीठस्य कल्पना
॥३८॥अमुकासनाय नम इति मन्त्रेण साधकः ।
आसनं पूजयित्वा तु तस्मिन्ध्यायेत्पराम्बिकाम्
॥३९॥कल्पोक्तविधिना मन्त्री देयमन्त्रस्य देवताम् ।
मानसैरुपचारैश्च पूजयेत्तां यथाविधि
॥४०॥मुद्राः प्रदर्शयेद्विद्वान्कल्पोक्ता मोदकारिकाः ।
याभिर्विरचिताभिस्तु मोदो देव्यास्तु जायते
॥४१॥श्रीनारायण उवाच
ततः स्ववामभागाग्रे षट्कोणोपरि वर्तुलम् ।
चतुरस्रयुतं सम्यङ्मध्ये मण्डलमालिखेत्
॥४२॥मध्ये त्रिकोणं संलिख्य शङ्खमुद्रां प्रदर्शयेत् ।
षडङ्गानि च षट्कोणेष्वर्चयेत्कुसुमादिभिः
॥४३॥अग्न्यादिषु तु कोणेषु षडङ्गार्चनमाचरेत् ।
आधारपात्रमादाय शङ्खस्य मुनिसत्तम
॥४४॥अस्त्रमन्त्रेण सम्प्रोक्ष्य स्थापयेत्तत्र मण्डले ।
मं वह्निमण्डलायोक्त्वा ततो दशकलात्मने
॥४५॥अमुकदेव्या अर्घ्यपात्रस्थानाय नम इत्यपि ।
मन्त्रोऽयमुक्तः शङ्खस्याप्याधारस्थापने बुधैः
॥४६॥आधारे पूर्वमारभ्य प्रदक्षिणक्रमेण तु ।
दश वह्निकलाः पूज्या वह्निमण्डलसंस्थिताः
॥४७॥ततो वै मूलमन्त्रेण प्रोक्षितं शङ्खमुत्तमम् ।
स्थापयेत्तत्र चाधारे मूलमन्त्रमनुस्मरन्
॥४८॥अं सूर्यमण्डलायोक्त्वा द्वादशान्ते कलात्मने ।
अमुकदेव्यर्घ्यपात्राय नम इत्युच्चरेत्ततः
॥४९॥शं शङ्खाय पदं प्रोच्य नम इत्येतदुच्चरेत् ।
प्रोक्षयेत्तेन तं शङ्खं तस्मिन्द्वादश पूजयेत्
॥५०॥सूर्यस्य द्वादश कलास्तपन्याद्या यथाक्रमम् ।
विलोममातृकां प्रोच्य मूलमन्त्रं विलोमकम्
॥५१॥जलैरापूरयेच्छङ्खं तत्र चेन्दोः कलां न्यसेत् ।
ॐ सोममण्डलायोक्त्वान्ते षोडशकलात्मने
॥५२॥अमुकार्घ्यामृतायेति हृन्मन्त्रान्तो मनुः स्मृतः ।
पूजयेन्मनुना तेन जलं तु सृणिमुद्रया
॥५३॥तीर्थान्यावाह्य तत्रैवाप्यष्टकृत्वो जपेन्मनुम् ।
षडङ्गानि जले न्यस्य हृदा संपूजयेदपः
॥५४॥अष्टकृत्वो जपेन्मूलं छादयेन्मत्स्यमुद्रया ।
ततो दक्षिणदिग्भागे शङ्खस्य प्रोक्षणीं न्यसेत्
॥५५॥शङ्खाम्बु किञ्चिन्निक्षिप्य प्रोक्षयेत्तेन सर्वतः ।
पूजाद्रव्यं निजात्मानं विशुद्धं भावयेत्ततः
॥५६॥श्रीनारायणाय उवाच
ततः स्वपुरतो वेद्यां सर्वतोभद्रमण्डलम् ।
संलिख्य कर्णिकामध्यं पूरयेच्छालितण्डुलैः
॥५७॥आस्तीर्य दर्भांस्तत्रैव न्यसेत्कूर्चं सलक्षणम् ।
आधारशक्तिमारभ्य पीठमन्वन्तमर्चयेत्
॥५८॥निर्व्रणं कुम्भमादायाप्यस्त्राद्भिः क्षालितान्तरम् ।
तन्तुना वेष्टयेत्तं तु त्रिगुणेनारुणेन च
॥५९॥नवरत्नोदरं कूर्चयुतं गन्धादिपूजितम् ।
स्थापयेत्तत्र पीठे तु तारमन्त्रेण देशिकः
॥६०॥ऐक्यं कुम्भस्य पीठस्य भावयेत्पूरयेत्ततः ।
मातृकां प्रतिलोमेन जपंस्तीर्थोदकैर्मुने
॥६१॥मूलमन्त्रं च सञ्जप्य पूरयेद्देवताधिया ।
अश्वत्थपनसाम्राणां कोमलैर्नवपल्लवैः
॥६२॥छादयेत्कुम्भवदनं चषकं सफलाक्षतम् ।
संस्थापयेत मतिमान् वस्त्रयुग्मेन वेष्टयेत्
॥६३॥प्राणस्थापनमन्त्रेण प्राणस्थापनमाचरेत् ।
आवाहनादिमुद्राभिर्मोदयेद्देवतां पराम्
॥६४॥ध्यायेत्तां परमेशानीं कल्पोक्तेन प्रकारतः ।
स्वागतं कुशलप्रश्नं देव्या अग्रे समुच्चरेत्
॥६५॥पाद्यं दद्यात्ततोऽप्यर्घ्यं ततश्चाचमनीयकम् ।
मधुपर्कं च साभ्यङ्गं देव्यै स्नानं निवेदयेत्
॥६६॥वाससी च ततो दद्याद्रक्ते क्षौमे सुनिर्मले ।
नानामणिगणाकीर्णानाकल्पान्कल्पयेत्ततः
॥६७॥मनुना पुटितैर्वर्णैर्मातृकाया विधानतः ।
देव्या अङ्गेषु विन्यस्य चन्दनाद्यैः समर्चयेत्
॥६८॥गन्धः कालागुरुभवः कर्पूरेण समन्वितः ।
काश्मीरं चन्दनं चापि कस्तूरीसहितं मुने
॥६९॥कुन्दपुष्पादिपुष्पाणि परदेव्यै समर्पयेत् ।
धूपोऽगुरुपुरुव्रातोशीरचन्दनशर्कराः
॥७०॥मधुमिश्राः स्मृता देव्याः प्रिया धूपात्मना सदा ।
दीपाननेकान्दत्त्वाथ नैवेद्यं दर्शयेत्सुधीः
॥७१॥प्रतिद्रव्यं जलं दद्यात्प्रोक्षणीस्थं न चान्यथा ।
ततः कुर्यादङ्गपूजां कल्पोक्तावरणानि च
॥७२॥साङ्गां देवीमथाभ्यर्च्य वैश्वदेवं ततश्चरेत् ।
दक्षिणे स्थण्डिलं कृत्वा तत्राधाय हुताशनम्
॥७३॥मूर्तिस्थां देवतां तत्रावाह्य संपूज्य च क्रमात् ।
तारव्याहृतिभिर्हुत्वा मूलमन्त्रेण वै ततः
॥७४॥पञ्चविंशतिवारं तु पायसेन ससर्पिषा ।
हुनेत्पश्चाद्व्याहृतिभिः पुनश्च जुहुयान्मुने
॥७५॥गन्धाद्यैरर्चयित्वा च देवीं पीठे तु योजयेत् ।
वह्निं विसृज्य हविषा परितो विकिरेद्बलिम्
॥७६॥देवतायाः पार्षदेभ्यो गन्धपुष्पादिसंयुतान् ।
पञ्चोपचारान्दत्त्वाथ ताम्बूलं छत्रचामरे
॥७७॥दद्याद्देव्यै ततो मन्त्रं सहस्रावृत्तितो जपेत् ।
जपं समर्प्य चैशान्यां विकिरे दिशि संस्थिते
॥७८॥कर्करीं स्थापयेत्तस्यां दुर्गामावाह्य पूजयेत् ।
रक्ष रक्षेति चोच्चार्य नालमुक्तेन वारिणा
॥७९॥अस्त्रमन्त्रं जपन्देशं सेचयेत्तु प्रदक्षिणम् ।
कर्करीं स्थापयेत्स्थाने पूजयेच्चास्त्रदेवताम्
॥८०॥पश्चाद्गुरुस्तु शिष्येण सह भुञ्जीत वाग्यतः ।
तस्यां रात्रौ तु तद्वेद्यां निद्रां कुर्यात्प्रयत्नतः
॥८१॥श्रीनारायण उवाच
ततः कुण्डस्य संस्कारं स्थण्डिलस्य च वा मुने ।
प्रवक्ष्यामि समासेन यथाविधि विधानतः
॥८२॥मूलमन्त्रं समुच्चार्य वीक्षयेदस्त्रमन्त्रतः ।
प्रोक्षयेत्ताडनं कुर्यात्तेनैव कवचेन तु
॥८३॥अभ्युक्षणं समुद्दिष्टं तिस्रस्तिस्रस्ततः परम् ।
प्रागग्रा उदगग्राश्च लिखेल्लेखाः समन्ततः
॥८४॥प्रणवेन समभ्युक्ष्य पीठं देव्याः समर्चयेत् ।
आधारशक्तिमारभ्य पीठमन्त्रावसानकम्
॥८५॥तस्मिन्पीठे समावाह्य शिवौ परमकारणौ ।
गन्धाद्यैरुपचारैश्च पूजयेत्तौ समाहितः
॥८६॥देवीं ध्यायेदृतुस्नातां संसक्तां शङ्करेण तु ।
कामातुरां तयोः क्रीडां किञ्चित्कालं विभावयेत्
॥८७॥अथ वह्निं समादाय पात्रेण पुरतो न्यसेत् ।
क्रव्यादांशं परित्यज्य पूर्वोक्तैर्वीक्षणादिभिः
॥८८॥संस्कृत्य वह्निं रं बीजमुच्चार्य तदनन्तरम् ।
चैतन्यं योजयेत्तस्मिन्प्रणवेनाभिमन्त्रयेत्
॥८९॥सप्तवारं ततो धेनुमुद्रां सन्दर्शयेद्गुरुः ।
शरेण रक्षितं कृत्वा तनुत्रेणावगुण्ठयेत्
॥९०॥अर्चितं त्रिः परिभ्राम्य प्रादक्षिण्येन सत्तमः ।
कुण्डोपरि जपंस्तारं जानुस्पृष्टमहीतलः
॥९१॥शिवबीजधिया देव्या योनौ वह्निं विनिक्षिपेत् ।
आचामयेत्ततो देवं देवीं च जगदम्बिकाम्
॥९२॥चित्पिङ्गल हनदहपचयुग्मं ततः परम् ।
सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं वह्निदीपने
॥९३॥अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम्
॥९४॥मन्त्रेणानेन तं वह्निं स्तुवीत परमादरात् ।
ततो न्यसेद्वह्निमन्त्रं षडङ्गं देशिकोत्तमः
॥९५॥सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषः स्मृतः ।
धूमव्यापी सप्तजिह्वो धनुर्धर इति क्रमात्
॥९६॥जातियुक्ताः षडङ्गाः स्युः पूर्वस्थानेषु विन्यसेत् ।
ध्यायेद्वह्निं हेमवर्णं त्रिनेत्रं पद्मसंस्थितम्
॥९७॥इष्टशक्तिस्वस्तिकाभीर्धारकं मङ्गलं परम् ।
परिषिञ्चेत्ततः कुण्डं मेखलोपरि मन्त्रवित्
॥९८॥दर्भैः परिस्तरेत्पश्चात्परिधीन्विन्यसेदथ ।
त्रिकोणवृत्तषट्कोणं साष्टपत्रं सभूपुरम्
॥९९॥यन्त्रं विभावयेद्वह्नेः पूर्वं वा संलिखेदथ ।
तन्मध्ये पूजयेद्वह्निं मन्त्रेणानेन वै मुने
॥१००॥वैश्वानर ततो जातवेदः पश्चादिहावह ।
लोहिताक्षपदं प्रोक्त्वा सर्वकर्माणि साधय
॥१०१॥वह्निजायान्तको मन्त्रस्तेन वह्निं तु पूजयेत् ।
मध्ये षट्स्वपि कोणेषु हिरण्या गगना तथा
॥१०२॥रक्ता कृष्णा सुप्रभा च बहुरूपातिरक्तिका ।
पूजयेत्सप्तजिह्वास्ताः केसरेष्वङ्गपूजनम्
॥१०३॥दलेषु पूजयेन्मूर्तीः शक्तिस्वस्तिकधारिणी ।
जातवेदाः सप्तजिह्वो हव्यवाहन एव च
॥१०४॥अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः ।
कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः
॥१०५॥ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्तयः ।
लोकपालांश्चतुर्दिक्षु वज्राद्यायुधसंयुतान्
॥१०६॥श्रीनारायण उवाच
ततः स्रुक्स्रुवसंस्कारावाज्यसंस्कार एव च ।
कृत्वा होमं ततः कुर्यात्स्रुवेणादाय वै घृतम्
॥१०७॥दक्षिणाद्घृतभागात्तु वह्नेर्दक्षिणलोचने ।
जुहुयादग्नये स्वाहेत्येवं वै वामतोऽन्यतः
॥१०८॥सोमाय स्वाहेति मध्याद्घृतमादाय सत्तम ।
अग्नीषोमाभ्यां स्वाहेति मध्यनेत्रे हुनेत्ततः
॥१०९॥पुनर्दक्षिणभागात्तु घृतमादाय वै मुखे ।
अग्नये स्विष्टकृत्स्वाहेत्यनेनैव हुनेत्ततः
॥११०॥सताराभिर्व्याहृतिभिर्जुहुयादथ साधकः ।
जुहुयादग्निमन्त्रेण त्रिवारं तु ततः परम्
॥१११॥ततस्तु प्रणवेनैवाप्यष्टावष्टौ घृताहुतीः ।
गर्भाधानादिसंस्कारकृते तु जुहुयान्मुने
॥११२॥गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ।
जातकर्म नामकर्माप्युपनिष्क्रमणं तथा
॥११३॥अन्नाशनं तथा चूडा व्रतबन्धस्तथैव च ।
महानाम्न्यं व्रतं पश्चात्तथौपनिषदं व्रतम्
॥११४॥गोदानोद्वाहकौ प्रोक्ताः संस्काराः श्रुतिचोदिताः ।
ततः शिवं पार्वतीं च पूजयित्वा विसर्जयेत्
॥११५॥जुहुयात्पञ्च समिधो वह्निमुद्दिश्य साधकः ।
पश्चादावरणानां चाप्येकैकामाहुतिं हुनेत्
॥११६॥घृतं स्रुचि समादाय चतुर्वारं स्रुवेण च ।
पिधाय तां तु तेनैव मुने तिष्ठन्निजासने
॥११७॥वौषडन्तेन मनुना वह्नेस्तु जुहुयात्ततः ।
महागणेशमन्त्रेण जुहुयादाहुतीर्दश
॥११८॥वह्नौ पीठं समभ्यर्च्य देयमन्त्रस्य देवताम् ।
वह्नौ ध्यात्वा तु तद्वक्त्रे पञ्चविंशतिसंख्यया
॥११९॥मूलमन्त्रेण जुहुयाद्वक्त्रैकीकरणाय च ।
वह्निदेवतयोरैक्यं भावयन्नात्मना सह
॥१२०॥एकीभूतं भावयेत्तु ततस्तु साधकोत्तमः ।
षडङ्गं देवतानां च जुहुयादाहुतीः पृथक्
॥१२१॥एकादशैव जुहुयादाहुतीर्मुनिसत्तम ।
एतेन नाडीसन्धानं वह्निदेवतयोर्मुने
॥१२२॥एकैकक्रमयोगेनाप्यावृत्तीनां तथैव च ।
एकैकक्रमयोगेन घृतेन जुहुयान्मुने
॥१२३॥ततः कल्पोक्तद्रव्यैस्तु जुहुयादथवा तिलैः ।
देवतामूलमन्त्रेण गजान्तकसहस्रकम्
॥१२४॥एवं हुत्वा ततो देवीं सन्तुष्टां भावयेन्मुने ।
तथैवावृतिदेवीश्च वह्न्याद्या देवता अपि
॥१२५॥ततः शिष्यं च सुस्नातं कृतसम्यादिकक्रियम् ।
वस्त्रद्वययुतं स्वर्णाभरणेन समन्वितम्
॥१२६॥कमण्डलुकरं शुद्धं कुण्डस्यान्तिकमानयेत् ।
नमस्कृत्य ततः शिष्यो गुरूनथ सभासदः
॥१२७॥कुलदेवं नमस्कृत्य विशेत्तत्राथ विष्टरे ।
गुरुस्ततस्तु तं शिष्यं कृपादृष्ट्या विलोकयेत्
॥१२८॥तच्चैतन्यं निजे देहे भावयेत्सङ्गतं त्विति ।
ततः शिष्यतनुस्थानामध्वनां परिशोधनम्
॥१२९॥कुर्यात्तु होमतो विद्वान्दिव्यदृष्ट्यवलोकनात् ।
येन जायेत शुद्धात्मा योग्यो देवाद्यनुग्रहे
॥१३०॥श्रीनारायण उवाच
तनौ ध्यायेत्तु शिष्यस्य षडध्वनः कमेण तु ।
पादयोस्तु कलाध्वानमन्धौ तत्त्वाध्वकं पुनः
॥१३१॥नाभौ तु भुवनाध्वानं वर्णाध्वानं तथा हृदि ।
पदाध्वानं तथा भाले मन्त्राध्वानं तु मूर्धनि
॥१३२॥शिष्यं स्पृशंस्तु कूर्चेन तिलैराज्यपरिप्लुतैः ।
शोधयाम्यमुमध्वानं स्वाहेति मनुमुच्चरन्
॥१३३॥ताराढ्यं जुहुयादष्टवारं प्रत्यध्वमेव हि ।
षडध्वनस्ततस्तांस्तु लीनान् ब्रह्मणि भावयेत्
॥१३४॥पुनरुत्पादयेत्तस्मात्सृष्टिमार्गेण वै गुरुः ।
आत्मस्थितं तच्चैतन्यं पुनः शिष्ये तु योजयेत्
॥१३५॥पूर्णाहुतिं ततो हुत्वा देवतां कलशे नयेत् ।
पुनर्व्याहृतिभिर्हुत्वा वह्नेरङ्गाहुतीस्तथा
॥१३६॥एकैकशो गुरुर्दत्त्वा विसृजेद्वह्निमात्मनि ।
ततः शिष्यस्य नेत्रे तु बध्नीयाद्वाससा गुरुः
॥१३७॥नेत्रमन्त्रेण तं शिष्यं कुण्डतो मण्डलं नयेत् ।
पुष्पाञ्जलिं मुख्यदेव्यां कारयेच्छिष्यहस्ततः
॥१३८॥नेत्रबन्धं निराकृत्य वेशयेत्कुशविष्टरे ।
भूतशुद्धिं शिष्यदेहे कुर्यात्प्रोक्तेन वर्त्मना
॥१३९॥मन्त्रोदितांस्तथा न्यासान्कृत्वा शिष्यतनौ ततः ।
मण्डले वेशयेच्छिष्यमन्यस्मिन्कुम्भसंस्थितान्
॥१४०॥पल्लवाञ्छिष्यशिरसि विन्यसेन्मातृकां जपेत् ।
कलशस्थजलैः शिष्यं स्नापयेद्देवतात्मकैः
॥१४१॥वर्धनीजलसेकं च कुर्याद्रक्षार्थमञ्जसा ।
ततः शिष्यः समुत्थाय वाससी परिधाय च
॥१४२॥कृतभस्मावलेपश्च संविशेद्गुरुसन्निधौ ।
ततो गुरुः स्वकीयात्तु हृदयान्निर्गतां शिवाम्
॥१४३॥प्रविष्टां शिष्यहृदये भावयेत्करुणानिधिः ।
पूजयेद्गन्धपुष्पाद्यैरैक्यं वै भावयंस्तयोः
॥१४४॥ततस्त्रिंशो दक्षकर्णे शिष्यस्योपदिशेद्गुरुः ।
महामन्त्रं महादेव्याः स्वहस्तं शिरसि न्यसन्
॥१४५॥अष्टोत्तरशतं मन्त्रं शिष्योऽपि प्रजपेन्मुने ।
दण्डवत्प्रणमेद्भूमौ तं गुरुं देवतात्मकम्
॥१४६॥सर्वस्वमर्पयेत्तस्मै यावज्जीवमनन्यधीः ।
ऋत्विग्भ्यो दक्षिणां दत्त्वा ब्राह्मणांश्चापि भोजयेत्
॥१४७॥सुवासिनीः कुमारीश्च बटुकांश्चैव सर्वशः ।
दीनानाथान्दरिद्रांश्च वित्तशाठ्यविवर्जितः
॥१४८॥कृतार्थतां स्वस्य बुद्ध्वा नित्यमाराधयेन्मनुम् ।
इति ते कथितः सम्यग्दीक्षाविधिरनुत्तमः
॥१४९॥विमृश्यैतदशेषेण भज देवीपदाम्बुजम् ।
नान्यस्तु परमो धर्मो ब्राह्मणस्यात्र विद्यते
॥१५०॥वैदिकः स्वस्वगृह्योक्तक्रमेणोपदिशेन्मनुम् ।
तान्त्रिकस्तन्त्ररीत्या तु स्थितिरेषा सनातनी
॥१५१॥तत्तदुक्तप्रयोगांस्ते ते ते कुर्युर्न चान्यथा ।
श्रीनारायण उवाच ।
इति सर्वं मयाख्यातं यत्पृष्टं नारद त्वया
॥१५२॥अतः परं पराम्बाया भज नित्यं पदाम्बुजम् ।
नित्यमाराध्य तच्चाहं निर्वृतिं परमां गतः
॥१५३॥व्यास उवाच
इति राजन्नारदाय प्रोक्त्वा सर्वमनुत्तमम् ।
समाधिमीलिताक्षस्तु दध्यौ देवीपदाम्बुजम्
॥१५४॥नारायणस्तु भगवान् मुनिवर्यशिखामणिः ।
नारदोऽपि ततो नत्वा गुरुं नारायणं परम् ।
जगाम सद्यस्तपसे देवीदर्शनलालसः
॥१५५॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे मन्त्रदीक्षाविधिवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
वर्गःदेवीभागवतपुराणम्