गायत्रीमन्त्रकवचवर्णनम्
नारद उवाच
स्वामिन्सर्वजगन्नाथ संशयोऽस्ति मम प्रभो ।
चतुःषष्टिकलाभिज्ञ पातकाद्योगविद्वर
॥१॥मुच्यते केन पुण्येन ब्रह्मरूपः कथं भवेत् ।
देहश्च देवतारूपो मन्त्ररूपो विशेषतः
॥२॥कर्म तच्छ्रोतुमिच्छामि न्यासं च विधिपूर्वकम् ।
ऋषिश्छन्दोऽधिदैवं च ध्यानं च विधिवद्विभो
॥३॥श्रीनारायण उवाच
अस्त्येकं परमं गुह्यं गायत्रीकवचं तथा ।
पठनाद्धारणान्मर्त्यः सर्वपापैः प्रमुच्यते
॥४॥सर्वान्कामानवाप्नोति देवीरूपश्च जायते ।
गायत्रीकवचस्यास्य ब्रह्मविष्णुमहेश्वराः
॥५॥ऋषयो ऋग्यजुःसामाथर्वश्छन्दांसि नारद ।
ब्रह्मरूपा देवतोक्ता गायत्री परमा कला
॥६॥तद्बीजं भर्ग इत्येषा शक्तिरुक्ता मनीषिभिः ।
कीलकं च धियः प्रोक्तं मोक्षार्थे विनियोजनम्
॥७॥चतुर्भिर्हृदयं प्रोक्तं त्रिभिर्वर्णेः शिरः स्मृतम् ।
चतुर्भिः स्याच्छिखा पश्चात् त्रिभिस्तु कवचं स्मृतम्
॥८॥चतुर्भिर्नेत्रमुद्दिष्टं चतुर्भिः स्यात्तदस्त्रकम् ।
अथ ध्यानं प्रवक्ष्यामि साधकाभीष्टदायकम्
॥९॥मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै- र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे
॥१०॥गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ।
ब्रह्मसन्ध्या तु मे पश्चादुत्तरायां सरस्वती
॥११॥पार्वती मे दिशं रक्षेत्पावकीं जलशायिनी ।
यातुधानी दिशं रक्षेद्यातुधानभयङ्करी
॥१२॥पावमानी दिशं रक्षेत्पवमानविलासिनी ।
दिशं रौद्री च मे पातु रुद्राणी रुद्ररूपिणी
॥१३॥ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेत्सर्वाङ्गं भुवनेश्वरी
॥१४॥तत्पदं पातु मे पादौ जङ्घे मे सवितुः पदम् ।
वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव च
॥१५॥देवस्य मे तद्धृदयं धीमहीति च गल्लयोः ।
धियः पदं च मे नेत्रे यः पदं मे ललाटकम्
॥१६॥नः पातु मे पदं मूर्ध्नि शिखायां मे प्रचोदयात् ।
तत्पदं पातु मूर्धानं सकारः पातु भालकम्
॥१७॥चक्षुषी तु विकारार्णस्तुकारस्तु कपोलयोः ।
नासापुटं वकारार्णो रेकारस्तु मुखे तथा
॥१८॥णिकार ऊर्ध्वमोष्ठं तु यकारस्त्वधरोष्ठकम् ।
आस्यमध्ये भकारार्णो र्गोकारश्चिबुके तथा
॥१९॥देकारः कण्ठदेशे तु वकारः स्कन्धदेशकम् ।
स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम्
॥२०॥मकारो हृदयं रक्षेद्धिकार उदरे तथा ।
धिकारो नाभिदेशे तु योकारस्तु कटिं तथा
॥२१॥गुह्यं रक्षतु योकार ऊरू द्वौ नः पदाक्षरम् ।
प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशकम्
॥२२॥दकारं गुल्फदेशे तु यकारः पदयुग्मकम् ।
तकारव्यञ्जनं चैव सर्वाङ्गं मे सदावतु
॥२३॥इदं तु कवचं दिव्यं बाधाशतविनाशनम् ।
चतुःषष्टिकलाविद्यादायकं मोक्षकारकम्
॥२४॥मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ।
पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत्
॥२५॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां द्वादशस्कन्धे गायत्रीमन्त्रकवचवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
वर्गःदेवीभागवतपुराणम्