मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वादशस्कन्धः, अध्याय ८

3
द्वादशस्कन्धः · 8

पराशक्तेराविर्भाववर्णनम्

जनमेजय उवाच

भगवन्सर्वधर्मज्ञ सर्वशास्त्रवतांवर ।

द्विजातीनां तु सर्वेषां शक्त्युपास्तिः श्रुतीरिता

॥१॥

सन्ध्याकालत्रयेऽन्यस्मिन् काले नित्यतया विभो ।

तां विहाय द्विजाः कस्माद्गृह्णीयुश्चान्यदेवताः

॥२॥

दृश्यन्ते वैष्णवाः केचिद्गाणपत्यास्तथापरे ।

कापालिकाश्चीनमार्गरता वल्कलधारिणः

॥३॥

दिगम्बरास्तथा बौद्धाश्चार्वार्का एवमादयः ।

दृश्यन्ते बहवो लोके वेदश्रद्धाविवर्जिताः

॥४॥

किमत्र कारणं ब्रह्मंस्तद्भवान् वक्तुमर्हति ।

बुद्धिमन्तः पण्डिताश्च नानातर्कविचक्षणाः

॥५॥

अपि सन्त्येव वेदेषु श्रद्धया तु विवर्जिताः ।

न हि कश्चित्स्वकल्याणं बुद्ध्या हातुमिहेच्छति

॥६॥

किमत्र कारणं तस्माद्वद वेदविदांवर ।

मणिद्वीपस्य महिमा वर्णितो भवता पुरा

॥७॥

कीदृक् तदस्ति यद्देव्याः परं स्थानं महत्तरम् ।

तच्चापि वद भक्ताय श्रद्दधानाय मेऽनघ

॥८॥

प्रसन्नास्तु वदन्त्येव गुरवो गुह्यमप्युत ।

सूत उवाच ।

इति राज्ञो वचः श्रुत्वा भगवान् बादरायणः

॥९॥

निजगाद ततः सर्वं क्रमेणैव मुनीश्वराः ।

यच्छ्रुत्वा तु द्विजातीनां वेदश्रद्धा विवर्धते

॥१०॥

व्यास उवाच

सम्यक्पृष्टं त्वया राजन् समये समयोचितम् ।

वुद्धिमानसि वेदेषु श्रद्धावांश्चैव लक्ष्यसे

॥११॥

पूर्वं मदोद्धता दैत्या देवैर्युद्धं तु चक्रिरे ।

शतवर्षं महाराज महाविस्मयकारकम्

॥१२॥

नानाशस्त्रप्रहरणं नानामायाविचित्रितम् ।

जगत्क्षयकरं नूनं तेषां युद्धमभून्नृप

॥१३॥

पराशक्तिकृपावेशाद्देवैर्दैत्या जिता युधि ।

भुवं स्वर्गं परित्यज्य गताः पातालवेश्मनि

॥१४॥

ततः प्रहर्षिता देवाः स्वपराक्रमवर्णनम् ।

चक्रुः परस्परं मोहात्साभिमानाः समन्ततः

॥१५॥

जयोऽस्माकं कुतो न स्यादस्माकं महिमा यतः ।

सर्वोत्तरः कुत्र दैत्याः पामरा निष्पराक्रमाः

॥१६॥

सृष्टिस्थितिक्षयकरा वयं सर्वे यशस्विनः ।

अस्मदग्रे पामराणां दैत्यानां चैव का कथा

॥१७॥

पराशक्तिप्रभावं ते न ज्ञात्वा मोहमागताः ।

तेषामनुग्रहं कर्तुं तदैव जगदम्बिका

॥१८॥

प्रादुरासीत्कृपापूर्णा यक्षरूपेण भूमिप ।

कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम्

॥१९॥

विद्युत्कोटिसमानाभं हस्तपादादिवर्जितम् ।

अदृष्टपूर्वं तद्दृष्ट्वा तेजः परमसुन्दरम्

॥२०॥

सविस्मयास्तदा प्रोचुः किमिदं किमिदं त्विति ।

दैत्यानां चेष्टितं किं वा माया कापि महीयसी

॥२१॥

केनचिन्निर्मिता वाथ देवानां स्मयकारिणी ।

सम्भूय ते तदा सर्वे विचारं चक्रुरुत्तमम्

॥२२॥

यक्षस्य निकटे गत्वा प्रष्टव्यं कस्त्वमित्यपि ।

बलाबलं ततो ज्ञात्वा कर्तव्या तु प्रतिक्रिया

॥२३॥

ततो वह्निं समाहूय प्रोवाचेन्द्रः सुराधिपः ।

गच्छ वह्ने त्वमस्माकं यतोऽसि मुखमुत्तमम्

॥२४॥

ततो गत्वा तु जानीहि किमिदं यक्षमित्यपि ।

सहस्राक्षवचः श्रुत्वा स्वपराक्रमगर्भितम्

॥२५॥

वेगात्स निर्गतो वह्निर्ययौ यक्षस्य सन्निधौ ।

तदा प्रोवाच यक्षस्तं त्वं कोऽसीति हुताशनम्

॥२६॥

वीर्यं च त्वयि किं यत्तद्वद सर्वं ममाग्रतः ।

अग्निरस्मि तथा जातवेदा अस्मीति सोऽब्रवीत्

॥२७॥

सर्वस्य दहने शक्तिर्मयि विश्वस्य तिष्ठति ।

तदा यक्षं परं तेजस्तदग्रे निदधौ तृणम्

॥२८॥

दहैनं यदि ते शक्तिर्विश्वस्य दहनेऽस्ति हि ।

तदा सर्वबलेनैवाकरोद्यत्नं हुताशनः

॥२९॥

न शशाक तृणं दग्धुं लज्जितोऽगात्सुरान्प्रति ।

पृष्टे देवैस्तु वृत्तान्ते सर्वं प्रोवाच हव्यभुक्

॥३०॥

वृथाभिमानो ह्यस्माकं सर्वेशत्वादिके सुराः ।

ततस्तु वृत्रहा वायुं समाहूयेदमब्रवीत्

॥३१॥

त्वयि प्रोतं जगत्सर्वं त्वच्चेष्टाभिस्तु चेष्टितम् ।

त्वं प्राणरूपः सर्वेषां सर्वशक्तिविधारकः

॥३२॥

त्वमेव गत्वा जानीहि किमिदं यक्षमित्यपि ।

नान्यः कोऽपि समर्थोऽस्ति ज्ञातुं यक्षं परं महः

॥३३॥

सहस्राक्षवचः श्रुत्वा गुणगौरवगुम्फितम् ।

साभिमानो जगामाशु यत्र यक्षं विराजते

॥३४॥

यक्षं दृष्ट्वा ततो वायुं प्रोवाच मृदुभाषया ।

कोऽसि त्वं त्वयि का शक्तिर्वद सर्वं ममाग्रतः

॥३५॥

ततो यक्षवचः श्रुत्वा गर्वेण मरुदब्रवीत् ।

मातरिश्वाहमस्मीति वायुरस्मीति चाब्रवीत्

॥३६॥

वीर्यं तु मयि सर्वस्य चालने ग्रहणेऽस्ति हि ।

मच्चेष्टया जगत्सर्वं सर्वव्यापारवद्भवेत्

॥३७॥

इति श्रुत्वा वायुवाणीं निजगाद परं महः ।

तृणमेतत्तवाग्रे यत्तच्चालय यथेप्सितम्

॥३८॥

नोचेद्गर्वं विहायैनं लज्जितो गच्छ वासवम् ।

श्रुत्वा यक्षवचो वायुः सर्वशक्तिसमन्वितः

॥३९॥

उद्योगमकरोत्तच्च स्वस्थानान्न चचाल ह ।

लज्जितोऽगाद्देवपार्श्वे हित्वा गर्वं स चानिलः

॥४०॥

वृत्तान्तमवदत्सर्वं गर्वनिर्वापकारणम् ।

नैतञ्ज्ञातुं समर्थाः स्म मिथ्यागर्वाभिमानिनः

॥४१॥

अलौकिकं भाति यक्षं तेजः परमदारुणम् ।

ततः सर्वे सुरगणाः सहस्राक्षं समूचिरे

॥४२॥

देवराडसि यस्मात्त्वं यक्षं जानीहि तत्त्वतः ।

तत इन्द्रो महागर्वात्तद्यक्षं समुपाद्रवत्

॥४३॥

प्राद्रवच्च परं तेजो यक्षरूपं परात्परम् ।

अन्तर्धानं ततः प्राप तद्यक्षं वासवाग्रतः

॥४४॥

अतीव लज्जितो जातो वासवो देवराडपि ।

यक्षसम्भाषणाभावाल्लघुत्वं प्राप चेतसि

॥४५॥

अतः परं न गन्तव्यं मया तु सुरसंसदि ।

किं मया तत्र वक्तव्यं स्वलघुत्वं सुरान्प्रति

॥४६॥

देहत्यागो वरस्तस्मान्मानो हि महतां धनम् ।

माने नष्टे जीवितं तु मृतितुल्यं न संशयः

॥४७॥

इति निश्चित्य तत्रैव गर्वं हित्वा सुरेश्वरः ।

चरित्रमीदृशं यस्य तमेव शरणं गतः

॥४८॥

तस्मिन्नेव क्षणे जाता व्योमवाणी नभस्तले ।

मायाबीजं सहस्राक्ष जप तेन सुखी भव

॥४९॥

ततो जजाप परमं मायाबीजं परात्परम् ।

लक्षवर्षं निराहारो ध्यानमीलितलोचनः

॥५०॥

अकस्माच्चैत्रमासीयनवम्यां मध्यगे रवौ ।

तदेवाविरभूत्तेजस्तस्मिन्नेव स्थले पुनः

॥५१॥

तेजोमण्डलमध्ये तु कुमारीं नवयौवनाम् ।

भास्वज्जपाप्रसूनाभां बालकोटिरविप्रभाम्

॥५२॥

बालशीतांशमुकुटां वस्त्रान्तर्व्यञ्जितस्तनीम् ।

चतुर्भिर्वरहस्तैस्तु वरपाशाङ्कुशाभयान्

॥५३॥

दधानां रमणीयाङ्गीं कोमलाङ्गलतां शिवाम् ।

भक्तकल्पद्रुमामम्बां नानाभूषणभूषिताम्

॥५४॥

त्रिनेत्रां मल्लिकामालाकबरीजूटशोभिताम् ।

चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुताम्

॥५५॥

दन्तच्छटाभिरभितः पद्मरागीकृतक्षमाम् ।

प्रसन्तस्मेरवदनां कोटिकन्दर्पसुन्दराम्

॥५६॥

रक्ताम्बरपरीधानां रक्तचन्दनचर्चिताम् ।

उमाभिधानां पुरतो देवीं हैमवतीं शिवाम्

॥५७॥

निर्व्याजकरुणामूर्तिं सर्वकारणकारणाम् ।

ददर्श वासवस्तत्र प्रेमगद्गदितान्तरः

॥५८॥

प्रेमाश्रुपूर्णनयनो रोमाञ्चिततनुस्ततः ।

दण्डवत्प्रणनामाथ पादयोर्जगदीशितुः

॥५९॥

तुष्टाव विविधैः स्तोत्रैर्भक्तिसन्नतकन्धरः ।

उवाच परमप्रीतः किमिदं यक्षमित्यपि

॥६०॥

प्रादुर्भूतं च कस्मात्तद्वद सर्वं सुशोभने ।

इति तस्य वचः श्रुत्वा प्रोवाच करुणार्णवा

॥६१॥

रूपं मदीयं ब्रह्मैतत्सर्वकारणकारणम् ।

मायाधिष्ठानभूतं तु सर्वसाक्षि निरामयम्

॥६२॥

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि

॥६३॥

ओमित्येकाक्षरं ब्रह्म तदेवाहुश्च ह्रींमयम् ।

द्वे बीजे मम मन्त्रौ स्तो मुख्यत्वेन सुरोत्तम

॥६४॥

भागद्वयवती यस्मात्सृजामि सकलं जगत् ।

तत्रैकभागः सम्प्रोक्तः सच्चिदानन्दनामकः

॥६५॥

मायाप्रकृतिसंज्ञस्तु द्वितीयो भाग ईरितः ।

सा च माया परा शक्तिः शक्तिमत्यहमीश्वरी

॥६६॥

चन्द्रस्य चन्द्रिकेवेयं ममाभिन्नत्वमागता ।

साम्यावस्थात्मिका चैषा माया मम सुरोत्तम

॥६७॥

प्रलये सर्वजगतो मदभिन्नैव तिष्ठति ।

प्राणिकर्मपरीपाकवशतः पुनरेव हि

॥६८॥

रूपं तदेवमव्यक्तं व्यक्तीभावमुपैति च ।

अन्तर्मुखा तु यावस्था सा मायेत्यभिधीयते

॥६९॥

बहिर्मुखा तु या माया तमःशब्देन सोच्यते ।

बहिर्मुखात्तमोरूपाज्जायते सत्त्वसम्भवः

॥७०॥

रजोगुणस्तदैव स्यात्सर्गादौ सुरसत्तम ।

गुणत्रयात्मकाः प्रोक्ता ब्रह्मविष्णुमहेश्वराः

॥७१॥

रजोगुणाधिको ब्रह्मा विष्णुः सत्त्वाधिको भवेत् ।

तमोगुणाधिको रुद्रः सर्वकारणरूपधृक्

॥७२॥

स्थूलदेहो भवेद्ब्रह्मा लिङ्गदेहो हरिः स्मृतः ।

रुद्रस्तु कारणो देहस्तुरीया त्वहमेव हि

॥७३॥

साम्यावस्था तु या प्रोक्ता सर्वान्तर्यामिरूपिणी ।

अत ऊर्ध्वं परं ब्रह्म मद्रूपं रूपवर्जितम्

॥७४॥

निर्गुणं सगुणं चेति द्विधा मद्रूपमुच्यते ।

निर्गुणं मायया हीनं सगुणं मायया युतम्

॥७५॥

साहं सर्वं जगत्सृष्ट्वा तदन्तः सम्प्रविश्य च ।

प्रेरयाम्यनिशं जीवं यथाकर्म यथाश्रुतम्

॥७६॥

सृष्टिस्थितितिरोधाने प्रेरयाम्यहमेव हि ।

ब्रह्माणं च तथा विष्णुं रुद्रं वै कारणात्मकम्

॥७७॥

मद्भयाद्वाति पवनो भीत्या सूर्यश्च गच्छति ।

इन्द्राग्निमृत्यवस्तद्वत्साहं सर्वोत्तमा स्मृता

॥७८॥

मत्प्रसादाद्भवद्भिस्तु जयो लब्धोऽस्ति सर्वथा ।

युष्मानहं नर्तयामि काष्ठपुत्तलिकोपमान्

॥७९॥

कदाचिद्देवविजयं दैत्यानां विजयं क्वचित् ।

स्वतन्त्रा स्वेच्छया सर्वं कुर्वे कर्मानुरोधतः

॥८०॥

तां मां सर्वात्मिकां यूयं विस्मृत्य निजगर्वतः ।

अहङ्कारावृतात्मानो मोहमाप्ता दुरन्तकम्

॥८१॥

अनुग्रहं ततः कर्तुं युष्मद्देहादनुत्तमम् ।

निःसृतं सहसा तेजो मदीयं यक्षमित्यपि

॥८२॥

अतः परं सर्वभावैर्हित्वा गर्वं तु देहजम् ।

मामेव शरणं यात सच्चिदानन्दरूपिणीम्

॥८३॥

व्यास उवाच

इत्युक्त्या च महादेवी मूलप्रकृतिरीश्वरी ।

अन्तर्धानं गता सद्यो भक्त्या देवैरभिष्टुता

॥८४॥

ततः सर्वे स्वगर्वं तु विहाय पदपङ्कजम् ।

सम्यगाराधयामासुर्भगवत्याः परात्परम्

॥८५॥

त्रिसन्ध्यं सर्वदा सर्वे गायत्रीजपतत्पराः ।

यज्ञभागादिभिः सर्वे देवीं नित्यं सिषेविरे

॥८६॥

एवं सत्ययुगे सर्वे गायत्रीजपतत्पराः ।

तारहृल्लेखयोश्चापि जपे निष्णातमानसाः

॥८७॥

न विष्णूपासना नित्या वेदेनोक्ता तु कुत्रचित् ।

न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च

॥८८॥

गायत्र्युपासना नित्या सर्ववेदैः समीरिता ।

यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्वथा

॥८९॥

तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि ।

गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात्

॥९०॥

कुर्यादन्यन्न वा कुर्यादिति प्राह मनुः स्वयम् ।

विहाय तां तु गायत्रीं विष्णूपास्तिपरायणः

॥९१॥

शिवोपास्तिरतो विप्रो नरकं याति सर्वथा ।

तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः ।

देवीपदाम्बुजरता आसन्सर्वे द्विजोत्तमाः

॥९२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां द्वादशस्कन्धे पराशक्तेराविर्भाववर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥

वर्गःवीभागवतपुराणम्