मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वादशस्कन्धः, अध्याय २

3
द्वादशस्कन्धः · 2

गायत्रिशक्त्यादिप्रतिपादनम्

श्रीनारायण उवाच

वर्णानां शक्तयः काश्च ताः शृणुष्व महामुने ।

वामदेवी प्रिया सत्या विश्वा भद्रविलासिनी

॥१॥

प्रभावती जया शान्ता कान्ता दुर्गा सरस्वती ।

विद्रुमा च विशालेशा व्यापिनी विमला तथा

॥२॥

तमोऽपहारिणी सूक्ष्मा विश्वयोनिर्जया वशा ।

पद्मालया परा शोभा भद्रा च त्रिपदा स्मृता

॥३॥

चतुर्विंशतिवर्णानां शक्तयः समुदाहृताः ।

अतः परं वर्णवर्णान्व्याहरामि यथातथम्

॥४॥

चम्पका अतसीपुष्पसन्निभं विद्रुमं तथा ।

स्फटिकाकारकं चैव पद्मपुष्पसमप्रभम्

॥५॥

तरुणादित्यसङ्काशं शङ्खकुन्देन्दुसन्निभम् ।

प्रवालपद्यपत्राभं पद्मरागसमप्रभम्

॥६॥

इन्द्रनीलमणिप्रख्यं मौक्तिकं कुङ्कुमप्रभम् ।

अञ्जनाभं च रक्तं च वैदूर्यं क्षौद्रसन्निभम्

॥७॥

हारिद्रं कुन्ददुग्धाभं रविकान्तिसमप्रभम् ।

शुकपुच्छनिभं तद्वच्छतपत्रनिभं तथा

॥८॥

केतकीपुष्पसंकाशं मल्लिकाकुसुमप्रभम् ।

करवीरश्च इत्येते क्रमेण परिकीर्तिताः

॥९॥

वर्णाः प्रोक्ताश्च वर्णानां महापापविशोधनाः ।

पृथिव्यापस्तथा तेजो वायुराकाश एव च

॥१०॥

गन्धो रसश्च रूपं च शब्दः स्पर्शस्तथैव च ।

उपस्थं पायुपादं च पाणी वागपि च क्रमात्

॥११॥

प्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं च ततः परम् ।

प्राणोऽपानस्तथा व्यानः समानश्च ततः परम्

॥१२॥

तत्त्वान्येतानि वर्णानां क्रमशः कीर्तितानि तु ।

अतः परं प्रवक्ष्यामि वर्णमुद्राः कमेण तु

॥१३॥

सुमुखं सम्पुटं चैव विततं विस्मृतं तथा ।

द्विमुखं त्रिमुखं चैव चतुःपञ्चमुखं तथा

॥१४॥

षण्मुखाधोमुखं चैव व्यापकाज्जलिकं तथा ।

शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम्

॥१५॥

विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् ।

सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा

॥१६॥

त्रिशूलयोनी सुरभिश्चाक्षमाला च लिङ्गकम् ।

अम्बुजं च महामुद्रास्तुर्यरूपाः प्रकीर्तिताः

॥१७॥

इत्येताः कीर्तिता मुद्रा वर्णानां ते महामुने ।

महापापक्षयकराः कीर्तिदाः कान्तिदा मुने

॥१८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादस्कन्धे गायत्रिशक्त्यादिप्रतिपादनं नाम द्वितीयोऽध्यायः ॥ २ ॥

वर्गःदेवीभागवतपुराणम्