मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वादशस्कन्धः, अध्याय ११

3
द्वादशस्कन्धः · 11

पद्मरागादिमणिविनिर्मितप्राकारवर्णनम्

व्यास उवाच

पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः ।

पद्मरागमयः सालो मध्ये भूश्चैव तादृशी

॥१॥

दशयोजनवान्दैर्घ्ये गोपुरद्वारसंयुतः ।

तन्मणिस्तम्भसंयुक्ता मण्डपाः शतशो नृप

॥२॥

मध्ये भुवि समासीनाश्चतुःषष्टिमिताः कलाः ।

नानायुधधरा वीरा रत्नभूषणभूषिताः

॥३॥

प्रत्येकलोकस्तासां तु तत्तल्लोकस्य नायकाः ।

समन्तात्पद्मरागस्य परिवार्य स्थिताः सदा

॥४॥

स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः ।

तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय

॥५॥

पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ।

श्रद्धा स्वाहा स्वधाभिख्या माया संज्ञा वसुन्धरा

॥६॥

त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ।

सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया

॥७॥

विमला चामला तद्वदरुणी पुनरारुणी ।

प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च

॥८॥

सन्ध्या माता सती हंसी मर्दिका वज्रिका परा ।

देवमाता भगवती देवकी कमलासना

॥९॥

त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी ।

लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी

॥१०॥

रथरेखाह्वया पश्चाच्छशिरेखा तथापरा ।

गगनवेगा पवनवेगा वेगा चैव ततः परम्

॥११॥

अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा ।

अनङ्गानङ्गमथना तथैवानङ्गमेखला

॥१२॥

अनङ्गकुसुमा पश्चाद्विश्वरूपा सुरादिका ।

क्षयङ्करी भवेच्छक्तिरक्षोभ्या च ततः परम्

॥१३॥

सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचितव्रता ।

उदाराख्या च वागीशी चतुःषष्टिमिताः स्मृताः

॥१४॥

ज्वलज्जिह्नाननाः सर्वा वमन्त्यो वह्निमुल्बणम् ।

जलं पिबामः सकलं संहरामो विभावसुम्

॥१५॥

पवनं स्तम्भयामोऽद्य भक्षयामोऽखिलं जगत् ।

इति वाचं संगिरन्ते क्रोधसंरक्तलोचनाः

॥१६॥

चापबाणधराः सर्वा युद्धायैवोत्सुकाः सदा ।

दंष्ट्राकटकटारावैर्बधिरीकृतदिङ्मुखाः

॥१७॥

पिङ्गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा ।

शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता

॥१८॥

एकैकशक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने ।

शताक्षौहिणिका सेना तादृशी नृपसत्तम

॥१९॥

किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् ।

सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने

॥२०॥

रथानां गणना नास्ति हयानां करिणां तथा ।

शस्त्राणां गणना तद्वद्गणानां गणना तथा

॥२१॥

पद्मरागमयादग्रे गोमेदमणिनिर्मितः ।

दशयोजनदैर्घ्येण प्राकारो वर्तते महान्

॥२२॥

भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी ।

गोमेदकल्पितान्येव तद्वासिसदनानि च

॥२३॥

पक्षिणः स्तम्भवर्याश्च वृक्षा वाप्यः सरांसि च ।

गोमेदकल्पिता एव कुङ्कुमारुणविग्रहाः

॥२४॥

तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः ।

नानाशस्त्रप्रहरणा गोमेदमणिभूषिताः

॥२५॥

प्रत्येकलोकवासिन्यः परिवार्य समन्ततः ।

गोमेदसाले सन्नद्धाः पिशाचवदना नृप

॥२६॥

स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः ।

क्रोधरक्तेक्षणा भिन्धि पचच्छिन्धि दहेति च

॥२७॥

वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः ।

एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता

॥२८॥

सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी ।

तादृशीनां महासेना वर्णनीया कथं नृप

॥२९॥

रथानां नैव गणना वाहनानां तथैव च ।

सर्वयुद्धसमारम्भस्तत्र देव्या विराजते

॥३०॥

तासां नामानि वक्ष्यामि पापनाशकराणि च ।

विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा

॥३१॥

रुद्रा वीर्या प्रभा नन्दा पोषिणी ऋद्धिदा शुभा ।

कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी

॥३२॥

विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ।

निशुम्भशुम्भमथिनी महिषासुरमर्दिनी

॥३३॥

इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी ।

नारी नारायणी चैव त्रिशूलिन्यपि पालिनी

॥३४॥

अम्बिका ह्लादिनी पश्चादित्येवं शक्तयः स्मृताः ।

यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम्

॥३५॥

पराजयो न चैतासां कदाचित्क्वचिदस्ति हि ।

गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः

॥३६॥

दशयोजनतुङ्गोऽसौ गोपुरद्वारसंयुतः ।

कपाटशृङ्खलाबद्धो नववृक्षसमुज्ज्वलः

॥३७॥

सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् ।

गृहाणि वीथयो रथ्या महामार्गाङ्गणानि च

॥३८॥

वृक्षालवालतरवः सारङ्गा अपि तादृशाः ।

दीर्घिकाश्रेणयो वाप्यस्तडागाः कूपसंयुताः

॥३९॥

तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः ।

एकैका लक्षदासीभिः सेविता मदगर्विताः

॥४०॥

तालवृन्तधराः काश्चिच्चषकाढ्यकराम्बुजाः ।

काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः

॥४१॥

काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः ।

नानावस्त्रधराः काश्चित्काश्चित्पुष्पकराम्बुजाः

॥४२॥

नानादर्शकराः काश्चित्काश्चित्कुङ्कुमलेपनम् ।

धारयन्त्यः कज्जलं च सिन्दूरचषकं पराः

॥४३॥

काश्चिच्चित्रकनिर्मात्र्यः पादसंवाहने रताः ।

काश्चित्तु भूषाकारिण्यो नानाभूषाधराः पराः

॥४४॥

पुष्पभूषणनिर्मात्र्यः पुष्पशृङ्गारकारिकाः ।

नानाविलासचतुरा बह्व्य एवंविधाः पराः

॥४५॥

निबद्धपरिधानीया युवत्यः सकला अपि ।

देवीकृपालेशवशात्तुच्छीकृतजगत्त्रयाः

॥४६॥

एता दूत्यः स्मृता देव्यः शृङ्गारमदगर्विताः ।

तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम

॥४७॥

अनङ्गरूपा प्रथमाप्यनङ्गमदना परा ।

तृतीया तु ततः प्रोक्ता सुन्दरी मदनातुरा

॥४८॥

ततो भुवनवेगा स्यात्तथा भुवनपालिका ।

स्यात्सर्वशिशिरानङ्गवदनानङ्गमेखला

॥४९॥

विद्युद्दामसमानाङ्ग्यः क्वणत्काञ्चीगुणान्विताः ।

रणन्मञ्जीरचरणा बहिरन्तरितस्ततः

॥५०॥

धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः ।

कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः

॥५१॥

अष्टदिक्षु तथैतासां प्राकाराद्बहिरेव च ।

सदनानि विराजन्ते नानावाहनहेतिभिः

॥५२॥

वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः ।

दशयोजनतुङ्गोऽसौ गोपुरद्वारभूषितः

॥५३॥

वैदूर्यभूमिः सर्वापि गृहाणि विविधानि च ।

वीथ्यो रथ्या महामार्गाः सर्वे वैदूर्यनिर्मिताः

॥५४॥

वापीकूपतडागाश्च स्रवन्तीनां तटानि च ।

बालुका चैव सर्वापि वैदूर्यमणिनिर्मिता

॥५५॥

तत्राष्टदिक्षु परितो ब्राह्म्यादीनां च मण्डलम् ।

निजैर्गणैः परिवृतं भ्राजते नृपसत्तम

॥५६॥

प्रतिब्रह्माण्डमातॄणां ताः समष्टय ईरिताः ।

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा

॥५७॥

वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः ।

अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः

॥५८॥

ब्रह्मरुद्रादिदेवानां समाकारास्तु ताः स्मृताः ।

जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः

॥५९॥

तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः ।

सज्जानि नृपते सन्ति सालङ्काराणि नित्यशः

॥६०॥

दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा ।

हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा

॥६१॥

तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन ।

पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः

॥६२॥

कोटिशस्तु विमानानि नानाचिह्नान्वितानि च ।

नानावादित्रयुक्तानि महाध्वजयुतानि च

॥६३॥

वैदूर्यमणिसालस्याप्यग्रे सालः परः स्मृतः ।

दशयोजनतुङ्गोऽसाविन्द्रनीलाश्मनिर्मितः

॥६४॥

तन्मध्यभूस्तथा वीथ्यो महामार्गा गृहाणि च ।

वापीकूपतडागाश्च सर्वे तन्मणिनिर्मिताः

॥६५॥

तत्र पद्मं तु सम्प्रोक्तं बहुयोजनविस्तृतम् ।

षोडशारं दीप्यमानं सुदर्शनमिवापरम्

॥६६॥

तत्र षोडशशक्तीनां स्थानानि विविधानि च ।

सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि

॥६७॥

तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ।

कराली विकराली च तथोमा च सरस्वती

॥६८॥

श्रीदुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः ।

श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः

॥६९॥

नीलजीमूतसंकाशाः करवालकराम्बुजाः ।

समाः खेटकधारिण्यो युद्धोपक्रान्तमानसाः

॥७०॥

सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः ।

प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः

॥७१॥

ब्रह्माण्डक्षोभकारिण्यो देवीशक्त्युपबृंहिताः ।

नानारथसमारूढा नानाशक्तिभिरन्विताः

॥७२॥

एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः ।

इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः

॥७३॥

मुक्ताप्राकार उदितो दशयोजनदैर्घ्यवान् ।

मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम्

॥७४॥

मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् ।

तत्र देवीसमाकारा देव्यायुधधराः सदा

॥७५॥

सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः ।

देवीसमानभोगास्ता इङ्गितज्ञास्तु पण्डिताः

॥७६॥

कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः ।

देव्यभिप्रायबोध्यस्ताश्चतुरा अतिसुन्दराः

॥७७॥

नानाशक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् ।

प्राणिनां ताः समाचारं ज्ञानशक्त्या विदन्ति च

॥७८॥

तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम ।

अनङ्गकुसुमा प्रोक्ताप्यनङ्गकुसुमातुरा

॥७९॥

अनङ्गमदना तद्वदनङ्गमदनातुरा ।

भुवनपाला गगनवेगा चैव ततः परम्

॥८०॥

शशिरेखा च गगनरेखा चैव ततः परम् ।

पाशाङ्कुशवराभीतिधरा अरुणविग्रहाः

॥८१॥

विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् ।

मुक्तासालादग्रभागे महामारकतोऽपरः

॥८२॥

सालोत्तमः समुद्दिष्टो दशयोजनदैर्घ्यवान् ।

नानासौभाग्यसंयुक्तो नानाभोगसमन्वितः

॥८३॥

मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च ।

षट्कोणमत्र विस्तीर्णं कोणस्था देवताः शृणु

॥८४॥

पूर्वकोणे चतुर्वक्त्रो गायत्रीसहितो विधिः ।

कुण्डिकाक्षगुणाभीतिदण्डायुधधरः परः

॥८५॥

तदायुधधरा देवी गायत्री परदेवता ।

वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च

॥८६॥

स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि ।

ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये

॥८७॥

व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि ।

रक्षःकोणे शङ्खचक्रगदाम्बुजकराम्बुजा

॥८८॥

सावित्री वर्तते तत्र महाविष्णुश्च तादृशः ।

ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोऽखिलाः

॥८९॥

सावित्रीविग्रहा ये च ते सर्वे तत्र सन्ति हि ।

वायुकोणे परश्वक्षमालाभयवरान्वितः

॥९०॥

महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी ।

ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप

॥९१॥

गौरीभेदाश्च ये सर्वे ते तत्र निवसन्ति हि ।

चतुःषष्ट्यागमा ये च ये चान्येऽप्यागमाः स्मृताः

॥९२॥

ते सर्वे मूर्तिमन्तश्च तत्रैव निवसन्ति हि ।

अग्निकोणे रत्नकुम्भं तथा मणिकरण्डकम्

॥९३॥

दधानो निजहस्ताभ्यां कुबेरो धनदायकः ।

नानावीथीसमायुक्तो महालक्ष्मीसमन्वितः

॥९४॥

देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः ।

वारुणे तु महाकोणे मदनो रतिसंयुतः

॥९५॥

पाशाङ्कुशधनुर्बाणधरो नित्यं विराजते ।

शृङ्गारा मूर्तिमन्तस्तु तत्र सन्निहिताः सदा

॥९६॥

ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः ।

पाशाङ्कुशधरो वीरो विघ्नहर्ता विराजते

॥९७॥

विभूतयो गणेशस्य या याः सन्ति नृपोत्तम ।

ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः

॥९८॥

प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः ।

एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम्

॥९९॥

महामारकतस्याग्रे शतयोजनदैर्घ्यवान् ।

प्रवालसालोऽस्त्यपरः कुङ्कुमारुणविग्रहः

॥१००॥

मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् ।

तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च

॥१०१॥

हृल्लेखा गगना रक्ता चतुर्थी तु करालिका ।

महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः

॥१०२॥

पाशाङ्कुशवराभीतिधारिण्योऽमितभूषणाः ।

देवीसमानवेषाढ्या नवयौवनगर्विताः

॥१०३॥

प्रवालसालादग्रे तु नवरत्नविनिर्मितः ।

बहुयोजनविस्तीर्णो महासालोऽस्ति भूमिप

॥१०४॥

तत्र चाम्नायदेवीनां सदनानि बहून्यपि ।

नवरत्नमयान्येव तडागाश्च सरांसि च

॥१०५॥

श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि ।

महाविद्या महाभेदाः सन्ति तत्रैव भूमिप

॥१०६॥

निजावरणदेवीभिर्निजभूषणवाहनैः ।

सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः

॥१०७॥

सप्तकोटिमहामन्त्रदेवताः सन्ति तत्र हि ।

नवरत्नमयादग्रे चिन्तामणिगृहं महत्

॥१०८॥

तत्रत्यं वस्तुमात्रं तु चिन्तामणिविनिर्मितम् ।

सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्गारोपलैस्तथा

॥१०९॥

विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः ।

येषां प्रभाभिरन्तःस्थं वस्तु किञ्चिन्न दृश्यते

॥११०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां द्वादशस्कन्धे पद्मरागादिमणिविनिर्मितप्राकारवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥

वर्गःदेवीभागवतपुराणम्