स्वपित्रुद्धारवर्णनम्
जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् व्यास उवाच ।
इति ते कथितं भूप यद्यत्पृष्टं त्वयानघ ।
नारायणेन यत्प्रोक्तं नारदाय महात्मने
॥१॥श्रुत्वैतत्तु महादेव्याः पुराणं परमाद्भुतम् ।
कृतकृत्यो भवेन्मर्त्यो देव्याः प्रियतमो हि सः
॥२॥कुरु चाम्बामखं राजन् स्वपित्रुद्धरणाय वै ।
खिन्नोऽसि येन राजेन्द्र पितुर्ज्ञात्वा तु दुर्गतिम्
॥३॥गृहाण त्वं महादेव्या मन्त्रं सर्वोत्तमोत्तमम् ।
यथाविधिविधानेन जन्मसाफल्यदायकम्
॥४॥सूत उवाच
तच्छ्रुत्वा नृपशार्दूलः प्रार्थयित्वा मुनीश्वरम् ।
तस्मादेव महामन्त्रं देवीप्रणवसंज्ञकम्
॥५॥दीक्षाविधिं विधानेन जग्राह नृपसत्तमः ।
तत आहूय धौम्यादीन्नवरात्रसमागमे
॥६॥अम्बायज्ञं चकाराशु वित्तशाढ्यविवर्जितः ।
ब्राह्मणैः पाठयामास पुराणं त्वेतदुत्तमम्
॥७॥श्रीदेव्यग्रेऽम्बिकाप्रीत्यै देवीभागवतं परम् ।
ब्राह्मणान्भोजयामासाप्यसंख्यातान्सुवासिनीः
॥८॥कुमारीर्वटुकादींश्च दीनानाथांस्तथैव च ।
द्रव्यप्रदानैस्तान्सर्वान् सन्तोष्य वसुधाधिपः
॥९॥समाप्य यज्ञं संस्थाने संस्थितो यावदेव हि ।
तावदेव हि चाकाशान्नारदः समवातरत्
॥१०॥रणयन्महतीं वीणां ज्वलदग्निशिखोपमः ।
ससम्भमः समुत्थाय दृष्ट्वा तं नारदं मुनिम्
॥११॥आसनाद्युपचारैश्च पूजयामास भूमिपः ।
कृत्वा तु कुशलप्रश्नं पप्रच्छागमकारणम्
॥१२॥राजोवाच
कुत आगमनं साधो ब्रूहि किं करवाणि ते ।
सनाथोऽहं कृतार्थोऽहं त्वदागमनकारणात्
॥१३॥इति राज्ञो वचः श्रुत्वा प्रोवाच मुनिसत्तमः ।
अद्याश्चर्यं मया दृष्टं देवलोके नृपोत्तम
॥१४॥तन्निवेदयितुं प्राप्तस्त्वत्सकाशे सुविस्मितः ।
पिता ते दुर्गतिं प्राप्तो निजकर्मविपर्ययात्
॥१५॥स एवायं दिव्यरूपवपुर्भूत्वाधुनैव हि ।
देवदेवैः स्तुतः सम्यगप्सरोभिः समन्ततः
॥१६॥विमानवरमारुह्य मणिद्वीपं गतोऽभवत् ।
देवीभागवतस्यास्य श्रवणोत्थफलेन च
॥१७॥अम्बामखफलेनापि पिता ते सुगतिं गतः ।
धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव
॥१८॥नरकादुद्धृतस्तातस्त्वया तु कुलभूषण ।
देवलोके स्फीतकीर्तिस्तवाद्य विपुलाभवत्
॥१९॥सूत उवाच
नारदोक्तं समाकर्ण्य प्रेमगद्गदितान्तरः ।
पपात पादाम्बुजयोर्व्यासस्याद्भुतकर्मणः
॥२०॥तवानुग्रहतो देव कृतार्थोऽहं महामुने ।
किं मया प्रतिकर्तव्यं नमस्कारादृते तव
॥२१॥अनुग्राह्यः सदैवाहमेवमेव त्वया मुने ।
इति राज्ञो वचः श्रुत्वाप्याशीर्भिरभिनन्द्य च
॥२२॥उवाच वचनं श्लक्ष्णं भगवान् बादरायणः ।
राजन्सर्वं परित्यज्य भज देवीपदाम्बुजम्
॥२३॥देवीभागवतं चैव पठ नित्यं समाहितः ।
अम्बामखं सदा भक्त्या कुरु नित्यमतन्द्रितः
॥२४॥अनायासेन तेन त्वं मोक्ष्यसे भवबन्धनात् ।
सन्त्यन्यानि पुराणानि हरिरुद्रमुखानि च
॥२५॥देवीभागवतस्यास्य कलां नार्हन्ति षोडशीम् ।
सारमेतत्पुराणानां वेदानां चैव सर्वशः
॥२६॥मूलप्रकृतिरेवैषा यत्र तु प्रतिपाद्यते ।
समं तेन पुराणं स्यात्कथमन्यन्नृपोत्तम
॥२७॥पाठे वेदसमं पुण्यं यस्य स्याज्जनमेजय ।
पठितव्यं प्रयत्नेन तदेव विबुधोत्तमैः
॥२८॥इत्युक्त्वा नृपवर्यं तं जगाम मुनिराट् ततः ।
जग्मुश्चैव यथास्थानं धौम्यादिमुनयोऽमलाः
॥२९॥देवीभागवतस्यैव प्रशंसां चक्रुरुत्तमाम् ।
राजा शशास धरणीं ततः सन्तुष्टमानसः ।
देवीभागवतं चैव पठच्छृण्वन्तिरन्तरम्
॥३०॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादलसाहस्र्यां संहितायां द्वादशस्कन्धे जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
वर्गःदेवीभागवतपुराणम्