मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वादशस्कन्धः, अध्याय १०

3
द्वादशस्कन्धः · 10

मणिद्वीपवर्णनम्

व्यास उवाच

ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः ।

मणिद्वीपः स एवास्ति यत्र देवी विराजते

॥१॥

सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः ।

पुरा पराम्बयैवायं कल्पितो मनसेच्छया

॥२॥

सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया ।

कैलासादधिको लोको वैकुण्ठादपि चोत्तमः

॥३॥

गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः ।

न तत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित्

॥४॥

छत्रीभूतं त्रिजगतो भवसन्तापनाशकम् ।

छायाभूतं तदेवास्ति ब्रह्माण्डानां तु सत्तम

॥५॥

बहुयोजनविस्तीर्णो गम्भीरस्तावदेव हि ।

मणिद्वीपस्य परितो वर्तते तु सुधोदधिः

॥६॥

मरुत्सङ्घट्टनोत्कीर्णतरङ्ग शतसङ्कुलः ।

रत्नाच्छवालुकायुक्तो झषशङ्खसमाकुलः

॥७॥

वीचिसङ्घर्षसञ्जातलहरीकणशीतलः ।

नानाध्वजसमायुक्तनानापोतगतागतैः

॥८॥

विराजमानः परितस्तीररत्नद्रुमो महान् ।

तदुत्तरमयोधातुनिर्मितो गगने ततः

॥९॥

सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् ।

नानाशस्त्रप्रहरणा नानायुद्धविशारदाः

॥१०॥

रक्षका निवसन्त्यत्र मोदमानाः समन्ततः ।

चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः

॥११॥

नानागणैः परिवृतो देवीभक्तियुतैर्नृप ।

दर्शनार्थं समायान्ति ये देवा जगदीशितुः

॥१२॥

तेषां गणा वसन्त्यत्र वाहनानि च तत्र हि ।

विमानशतसङ्घर्षघण्टास्वनसमाकुलः

॥१३॥

हयहेषाखराघातबधिरीकृतदिङ्मुखः ।

गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः

॥१४॥

सेवका देवसङ्घानां भ्राजन्ते तत्र भूमिप ।

तस्मिन्कोलाहले राजन्न शब्दः केनचित्क्वचित्

॥१५॥

कस्यचिच्छ्रूयतेऽत्यन्तं नानाध्वनिसमाकुले ।

पदे पदे मिष्टवारिपरिपूर्णसरांसि च

॥१६॥

वाटिका विविधा राजन् रत्नद्रुमविराजिताः ।

तदुत्तरं महासारधातुनिर्मितमण्डलः

॥१७॥

सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः ।

तेजसा स्याच्छतगुणः पूर्वसालादयं परः

॥१८॥

गोपुरद्वारसहितो बहुवृक्षसमन्वितः ।

या वृक्षजातयः सन्ति सर्वास्तास्तत्र सन्ति च

॥१९॥

निरन्तरं पुष्पयुताः सदा फलसमन्विताः ।

नवपल्लवसंयुक्ताः परसौरभसङ्कुलाः

॥२०॥

पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः ।

देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः

॥२१॥

लिकुचा हिङ्गुलाश्चैला लवङ्गाः कट्फलास्तथा ।

पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः

॥२२॥

तालास्तमालाः सालाश्च कङ्कोला नागभद्रकाः ।

पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः

॥२३॥

अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः ।

गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः

॥२४॥

चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः ।

कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः

॥२५॥

खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः ।

क्षीरवृक्षाश्च खदिराश्चिञ्जाभल्लातकास्तथा

॥२६॥

रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च ।

तुलसीनां वनान्येवं मल्लिकानां तथैव च

॥२७॥

इत्यादितरुजातीनां वनान्युपवनानि च ।

नानावापीशतैर्युक्तान्येवं सन्ति धराधिप

॥२८॥

कोकिलारावसंयुक्ता गुञ्जद्भ्रमरभूषिताः ।

निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः

॥२९॥

नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः ।

नानारसस्राविणीभिर्नदीभिरतिशोभिताः

॥३०॥

पारावतशुकव्रातसारिकापक्षमारुतैः ।

हंसपक्षसमुद्भूतावातव्रातैश्चलद्द्रुमम्

॥३१॥

सुगन्धग्राहिपवनपूरितं तद्वनोत्तमम् ।

सहितं हरिणीयूथैर्धावमानैरितस्ततः

॥३२॥

नृत्यद्बर्हिकदम्बस्य केकारावैः सुखप्रदैः ।

नादितं तद्वनं दिव्यं मधुस्रावि समन्ततः

॥३३॥

कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः ।

चतुरस्रसमाकार उन्नत्या सप्तयोजनः

॥३४॥

द्वयोस्तु सालयोर्मध्ये सम्प्रोक्ता कल्पवाटिका ।

येषां तरूणां पुष्पाणि काञ्चनाभानि भूमिप

॥३५॥

पत्राणि काञ्चनाभानि रत्नबीजफलानि च ।

दशयोजनगन्धो हि प्रसर्पति समन्ततः

॥३६॥

तद्वनं रक्षितं राजन् वसन्तेनर्तुनानिशम् ।

पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः

॥३७॥

पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः ।

मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते

॥३८॥

क्रीडतः स्मेरवदने सुमस्तबककन्दुकैः ।

अतीव रम्यं विपिनं मधुस्रावि समन्ततः

॥३९॥

दशयोजनपर्यन्तं कुसुमामोदवायुना ।

पूरितं दिव्यगन्धर्वैः साङ्गनैर्गानलोलुपैः

॥४०॥

शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् ।

वसन्तलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम्

॥४१॥

ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः ।

समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसंख्यया

॥४२॥

सन्तानवाटिकामध्ये सालयोस्तु द्वयोर्नृप ।

दशयोजनगन्धस्तु प्रसूनानां समन्ततः

॥४३॥

हिरण्याभानि कुसुमान्युत्फुल्लानि निरन्तरम् ।

अमृतद्रवसंयुक्तफलानि मधुराणि च

॥४४॥

ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम ।

शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते

॥४५॥

सन्तापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः ।

नानासिद्धैः परिवृतो नानादेवैः समन्वितः

॥४६॥

विलासिनीनां वृन्दैस्तु चन्दनद्रवपङ्किलैः ।

पुष्पमालाभूषितैस्तु तालवृन्तकराम्बुजैः

॥४७॥

प्राकारः शोभितो राजञ्छीतलाम्बुनिषेविभिः ।

सीससालादुत्तरत्राप्यारकूटमयः शुभः

॥४८॥

प्राकारो वर्तते राजन् मुनियोजनदैर्घ्यवान् ।

हरिचन्दनवृक्षाणां वाटी मध्ये तयोः स्मृता

॥४९॥

सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः ।

विद्युत्पिङ्गलनेत्रश्च जीमूतकवचः स्मृतः

॥५०॥

वज्रनिर्घोषमुखरश्चेन्द्रधन्वा समन्ततः ।

सहस्रशो वारिधारा मुञ्चन्नास्ते गणावृतः

॥५१॥

नभःश्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी ।

अम्बा दुला निरत्निश्चाभ्रमन्ती मेघयन्तिका

॥५२॥

वर्षयन्ती चिपुणिका वारिधारा च सम्मताः ।

वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः

॥५३॥

नवपल्लववृक्षाश्च नवीनलतिकान्विताः ।

हरितानि तृणान्येव वेष्टिता यैर्धराखिला

॥५४॥

नदीनदप्रवाहाश्च प्रवहन्ति च वेगतः ।

सरांसि कलुषाम्बूनि रागिचित्तसमानि च

॥५५॥

वसन्ति देवाः सिद्धाश्च ये देवीकर्मकारिणः ।

वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः

॥५६॥

ते गणा निवसन्त्यत्र सविलासाश्च साङ्गनाः ।

आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान्

॥५७॥

पञ्चलोहात्मकः सालो मध्ये मन्दारवाटिका ।

नानापुष्पलताकीर्णा नानापल्लवशोभिता

॥५८॥

अधिष्ठातात्र सम्प्रोक्तः शरद्ऋतुरनामयः ।

इषुलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते

॥५९॥

नानासिद्धा वसन्त्यत्र साङ्गनाः सपरिच्छदाः ।

पञ्चलोहमयादग्रे सप्तयोजनदैर्घ्यवान्

॥६०॥

दीप्यमानो महाशृङ्गैर्वर्तते रौप्यसालकः ।

पारिजाताटवीमध्ये प्रसूनस्तबकान्विता

॥६१॥

दशयोजनगन्धीनि कुसुमानि समन्ततः ।

मोदयन्ति गणान्सर्वान्ये देवीकर्मकारिणः

॥६२॥

तत्राधिनाथः सम्प्रोक्तो हेमन्तर्तुर्महोज्ज्वलः ।

सगणः सायुधः सर्वान् रागिणो रञ्जयन्नृप

॥६३॥

सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते ।

वसन्ति तत्र सिद्धाश्च ये देवीव्रतकारिणः

॥६४॥

रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् ।

सौवर्णसालः सम्प्रोक्तस्तप्तहाटककल्पितः

॥६५॥

मध्ये कदम्बवाटी तु पुष्पपल्लवशोभिता ।

कदम्बमदिराधाराः प्रवर्तन्ते सहस्रशः

॥६६॥

याभिर्निपीतपीताभिर्निजानन्दोऽनुभूयते ।

तत्राधिनाथः सम्प्रोक्तः शैशिरर्तुर्महोदयः

॥६७॥

तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते ।

मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः

॥६८॥

नानाविलाससंयुक्तो नानागणसमावृतः ।

निवसन्ति महासिद्धा ये देवीदानकारिणः

॥६९॥

नानाभोगसमुत्पन्नमहानन्दसमन्विताः ।

साङ्गनाः परिवारैस्तु सङ्घशः परिवारिताः

॥७०॥

स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् ।

पुष्परागमयः सालः कुङ्कुमारुणविग्रहः

॥७१॥

पुष्परागमयी भूमिर्वनान्युपवनानि च ।

रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः

॥७२॥

प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः ।

वनभूः पक्षिणश्चैव रत्नवर्णजलानि च

॥७३॥

मण्डपा मण्डपस्तम्भाः सरांसि कमलानि च ।

प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत्

॥७४॥

परिभाषेयमुद्दिष्टा रत्नसालादिषु प्रभो ।

तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप

॥७५॥

दिक्पाला निवसन्त्यत्र प्रतिब्रह्माण्डवर्तिनाम् ।

दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः

॥७६॥

पूर्वाशायां समुत्तुङ्गशृङ्गा पूरमरावती ।

नानोपवनसंयुक्तो महेन्द्रस्तत्र राजते

॥७७॥

स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका ।

समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता

॥७८॥

ऐरावतसमारूढो वज्रहस्तः प्रतापवान् ।

देवसेनापरिवृतो राजतेऽत्र शतक्रतुः

॥७९॥

देवाङ्गनागणयुता शची तत्र विराजते ।

वह्निकोणे वह्निपुरी वह्निपूःसदृशी नृप

॥८०॥

स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते ।

निजवाहनभूषाढ्यो निजदेवगणैर्वृतः

॥८१॥

याम्याशायां यमपुरी तत्र दण्डधरो महान् ।

स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः

॥८२॥

निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् ।

नैर्ऋत्यां दिशि राक्षस्यां राक्षसैः परिवारितः

॥८३॥

खड्गधारी स्फुरन्नास्ते निर्ऋतिर्निजशक्तियुक् ।

वारुण्यां वरुणो राजा पाशधारी प्रतापवान्

॥८४॥

महाझषसमारूढो वारुणीमधुविह्वलः ।

निजशक्तिसमायुक्तो निजयादोगणान्वितः

॥८५॥

समास्ते वारुणे लोके वरुणानीरताकुलः ।

वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति

॥८६॥

वायुसाधनसंसिद्धयोगिभिः परिवारितः ।

ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः

॥८७॥

मरुद्गणैः परिवृतो निजशक्तिसमन्वितः ।

उत्तरस्यां दिशि महान् यक्षलोकोऽस्ति भूमिप

॥८८॥

यक्षाधिराजस्तत्रास्ते वृद्धिऋद्ध्यादिशक्तिभिः ।

नवभिर्निधिभिर्युक्तस्तुन्दिलो धननायकः

॥८९॥

मणिभद्रः पूर्णभद्रो मणिमान्मणिकन्धरः ।

मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः

॥९०॥

इत्यादियक्षसेनानीसहितो निजशक्तियुक् ।

ईशानकोणे सम्प्रोक्तो रुद्रलोको महत्तरः

॥९१॥

अनर्घ्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् ।

मन्युमान्दीप्तनयनो बद्धपृष्ठमहेषुधिः

॥९२॥

स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिराधृतः ।

स्वसमानैरसंख्यातरुद्रैः शूलवरायुधैः

॥९३॥

विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः ।

दशहस्तैः शतकरैः सहस्रभुजसंयुतैः

॥९४॥

दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः ।

अन्तरिक्षचरा ये च ये च भूमिचरा स्मृताः

॥९५॥

रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः ।

रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः

॥९६॥

नानाशक्तिसमाविष्टडामर्यादिगणावृतः ।

वीरभद्रादिसहितो रुद्रो राजन् विराजते

॥९७॥

मुण्डमालाधरो नागवलयो नागकन्धरः ।

व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः

॥९८॥

चिताभस्माङ्ग लिप्ताङ्गः प्रमथादिगणावृतः ।

निनदड्डमरुध्वानैर्बधिरीकृतदिङ्मुखः

॥९९॥

अट्टहासास्फोटशब्दैः सन्त्रासितनभस्तलः ।

भूतसङ्घसमाविष्टो भूतावासो महेश्वरः ।

ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च

॥१००॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥ १० ॥

वर्गःदेवीभागवतपुराणम्