मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वादशस्कन्धः, अध्याय १४

3
द्वादशस्कन्धः · 14

श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम्

श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् सूत उवाच

अर्धश्लोकात्मकं यत्तु देवीवक्त्राब्जनिर्गतम् ।

श्रीमद्भागवतं नाम वेदसिद्धान्तबोधकम्

॥१॥

उपदिष्टं विष्णुवे यद्वटपत्रनिवासिने ।

शतकोटिप्रविस्तीर्णं तत्कृतं ब्रह्मणा पुरा

॥२॥

तत्सारमेकतः कृत्वा व्यासेन शुकहेतवे ।

अष्टादशसहस्रं तु द्वादशस्कन्धसंयुतम्

॥३॥

देवीभागवतं नाम पुराणं ग्रथितं पुरा ।

अद्यापि देवलोके तद्बहुविस्तीर्णमस्ति हि

॥४॥

नानेन सदृशं पुण्यं पवित्रं पापनाशनम् ।

पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः

॥५॥

पौराणिकं पूजयित्वा वस्त्राद्याभरणादिभिः ।

व्यासबुद्ध्या तन्मुखात्तु श्रुत्वैतत्समुपोषितः

॥६॥

लिखित्वा निजहस्तेन लेखकेनाथवा मुने ।

प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम्

॥७॥

दद्यात्पौराणिकायाथ दक्षिणां च पयस्विनीम् ।

सालङ्कृतां सवत्सां च कपिलां हेममालिनीम्

॥८॥

भोजयेद्ब्राह्मणानन्तेऽप्यध्यायपरिसम्मितान् ।

सुवासिनीस्तावतीश्च कुमारीर्बटुकैः सह

॥९॥

देवीबुद्ध्या पूजयेत्तान्वसनाभरणादिभिः ।

पायसान्नवरेणापि गन्धस्रक्कुसुमादिभिः

॥१०॥

पुराणदानेनैतेन भूदानस्य फलं लभेत् ।

इहलोके सुखी भूत्वाप्यन्ते देवीपुरं व्रजेत्

॥११॥

नित्यं यः शृणुयाद्भक्त्या देवीभागवतं परम् ।

न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि

॥१२॥

अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ।

विद्यार्थी प्राप्नुयाद्विद्यां कीर्तिमण्डितभूतलः

॥१३॥

वन्ध्या वा काकवन्ध्या वा मृतवन्ध्या च याङ्गना ।

श्रवणादस्य तद्दोषान्निवर्तेत न संशयः

॥१४॥

यद्गेहे पुस्तकं चैतत्पूजितं यदि तिष्ठति ।

तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती

॥१५॥

नेक्षन्ते तत्र वेतालडाकिनीराक्षसादयः ।

ज्वरितं तु नरं स्पृष्ट्वा पठेदेतत्समाहितः

॥१६॥

मण्डलान्नाशमाप्नोति ज्वरो दाहसमन्वितः ।

शतावृत्त्यास्य पठनात्क्षयरोगो विनश्यति

॥१७॥

प्रतिसन्ध्यं पठेद्यस्तु सन्ध्यां कृत्वा समाहितः ।

एकैकमस्य चाध्यायं स नरो ज्ञानवान्भवेत्

॥१८॥

शकुनांश्चैव वीक्षेत कार्याकार्येषु चैव हि ।

तत्प्रकारः पुरस्तात्तु कथितोऽस्ति मया मुने

॥१९॥

नवरात्रे पठेन्नित्यं शारदीयेऽतिभक्तितः ।

तस्याम्बिका तु सन्तुष्टा ददातीच्छाधिकं फलम्

॥२०॥

वैष्णवैश्चैव शैवैश्च रमोमा प्रीयते सदा ।

सौरैश्च गाणपत्यैश्च स्वेष्टशक्तेश्च तुष्टये

॥२१॥

पठितव्यं प्रयत्नेन नवरात्रचतुष्टये ।

वैदिकैर्निजगायत्रीप्रीतये नित्यशो मुने

॥२२॥

पठितव्यं प्रयत्नेन विरोधो नात्र कस्यचित् ।

उपासना तु सर्वेषां शक्तियुक्तास्ति सर्वदा

॥२३॥

तच्छक्तेरेव तोषार्थं पठितव्यं सदा द्विजैः ।

स्त्रीशूद्रो न पठेदेतत्कदापि च विमोहितः

॥२४॥

शृणुयाद्द्विजवक्त्रात्तु नित्यमेवेति च स्थितिः ।

किं पुनर्बहुनोक्तेन सारं वक्ष्यामि तत्त्वतः

॥२५॥

वेदसारमिदं पुण्यं पुराणं द्विजसत्तमाः ।

वेदपाठसमं पाठे श्रवणे च तथैव हि

॥२६॥

सच्चिदानन्दरूपां तां गायत्रीप्रतिपादिताम् ।

नमामि ह्रींमयीं देवीं धियो यो नः प्रचोदयात्

॥२७॥

इति सूतवचः श्रुत्वा नैमिषीयास्तपोधनाः ।

पूजयामासुरत्युच्चैः सूतं पौराणिकोत्तमम्

॥२८॥

प्रसन्नहृदयाः सर्वे देवीपादाम्बुजार्चकाः ।

निर्वृतिं परमां प्राप्ताः पुराणस्य प्रभावतः

॥२९॥

नमश्चक्रुः पुनः सूतं क्षमाप्य च मुहुर्मुहुः ।

संसारवारिधेस्तात प्लवोऽस्माकं त्वमेव हि

॥३०॥

इति स मुनिवराणामग्रतः श्रावयित्वा सकलनिगमगुह्यं दौर्गमेतत्पुराणम् ।

नतमथ मुनिसङ्घं वर्धयित्वाऽऽशिषाम्बा- चरणकमलभृङ्गो निर्जगामाथ सूतः

॥३१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥

अध्याय चवदावा समाप्त ॥ द्वादशः स्कन्धः समाप्तः ॥ श्रीमद्देवीभागवतमहापुराण संपूर्णम् ॥ वर्गःदेवीभागवतपुराणम्