मणिद्वीपवर्णनम्
व्यास उवाच
तदेव देवीसदनं मध्यभागे विराजते ।
सहस्रस्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः
॥१॥शृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च ।
ज्ञानमण्डपसंज्ञस्तु तृतीयः परिकीर्तितः
॥२॥एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः ।
नानावितानसंयुक्ता नानाधूपैस्तु धूपिताः
॥३॥कोटिसूर्यसमाः कान्त्या भ्राजन्ते मण्डपाः शुभाः ।
तन्मण्डपानां परितः काश्मीरवनिका स्मृता
॥४॥मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः ।
असंख्याता मृगमदैः पूरितास्तत्स्रवा नृप
॥५॥महापद्माटवी तद्वद्रत्नसोपाननिर्मिता ।
सुधारसेन सम्पूर्णा गुञ्जन्मत्तमधुव्रता
॥६॥हंसकारण्डवाकीर्णा गन्धपूरितदिक्तटा ।
वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम्
॥७॥शृङ्गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः ।
सभासदो देववरा मध्ये श्रीजगदम्बिका
॥८॥मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा ।
ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे
॥९॥चतुर्थमण्डपे चैव जगद्रक्षाविचिन्तनम् ।
मन्त्रिणीसहिता नित्यं करोति जगदम्बिका
॥१०॥चिन्तामणिगृहे राजञ्छक्तितत्त्वात्मकैः परैः ।
सोपानैर्दशभिर्युक्तो मञ्चकोऽप्यधिराजते
॥११॥ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः
॥१२॥तस्योपरि महादेवो भुवनेशो विराजते ।
या देवी निजलीलार्थं द्विधाभूता बभूव ह
॥१३॥सृष्ट्यादौ तु स एवायं तदर्धाङ्गो महेश्वरः ।
कन्दर्पदर्पनाशोद्यत्कोटिकन्दर्पसुन्दरः
॥१४॥पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषणभूषितः ।
हरिणाभीतिपरशून् वरं च निजबाहुभिः
॥१५॥दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् ।
कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः
॥१६॥शुद्धस्फटिकसंकाशस्त्रिनेत्रः शीतलद्युतिः ।
वामाङ्गे सन्निषण्णास्य देवी श्रीभुवनेश्वरी
॥१७॥नवरत्नगणाकीर्णकाञ्चीदामविराजिता ।
तप्तकाञ्चनसन्नद्धवैदूर्याङ्गदभूषणा
॥१८॥कनच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा ।
ललाटकान्तिविभवविजितार्थसुधाकरा
॥१९॥बिम्बकान्तितिरस्कारिरदच्छदविराजिता ।
लसत्कुङ्कुमकस्तुरीतिलकोद्भासितानना
॥२०॥दिव्यचूडामणिस्फारचञ्चच्चन्द्रकसूर्यका ।
उद्यत्कविसमस्वच्छनासाभरणभासुरा
॥२१॥चिन्ताकलम्बितस्वच्छमुक्तागुच्छविराजिता ।
पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनी
॥२२॥विचित्रविविधाकल्पा कम्बुसंकाशकन्धरा ।
दाडिमीफलबीजाभदन्तपङ्क्तिविराजिता
॥२३॥अनर्घ्यरत्नघटितमुकुटाञ्चितमस्तका ।
मत्तालिमालाविलसदलकाढ्यमुखाम्बुजा
॥२४॥कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभानना ।
जाह्नवीसलिलावर्तशोभिनाभिविभूषिता
॥२५॥माणिक्यशकलाबद्धमुद्रिकाङ्गुलिभूषिता ।
पुण्डरीकदलाकारनयनत्रयसुन्दरी
॥२६॥कल्पिताच्छमहारागपद्मरागोज्ज्वलप्रभा ।
रत्नकिङ्किणिकायुक्तरत्नकङ्कणशोभिता
॥२७॥मणिमुक्तासरापारलसत्पदकसन्ततिः ।
रत्नाङ्गुलिप्रविततप्रभाजाललसत्करा
॥२८॥कञ्चुकीगुम्फितापारनानारत्नततिद्युतिः ।
मल्लिकामोदिधम्मिल्लमल्लिकालिसरावृता
॥२९॥सुवृत्तनिबिडोत्तुङ्गकुचभारालसा शिवा ।
वरपाशाङ्कुशाभीतिलसद्बाहुचतुष्टया
॥३०॥सर्वशृङ्गारवेषाढ्या सुकुमाराङ्गवल्लरी ।
सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी
॥३१॥निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी ।
कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा
॥३२॥नानासखीभिर्दासीभिस्तथा देवाङ्गनादिभिः ।
सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता
॥३३॥इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता ।
लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया
॥३४॥बुद्धिर्मेधा स्मृतिर्लक्ष्मीर्मूर्तिमत्योऽङ्गनाः स्मृताः ।
जया च विजया चैवाप्यजिता चापराजिता
॥३५॥नित्या विलासिनी दोग्ध्री त्वघोरा मङ्गला नव ।
पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम्
॥३६॥यस्यास्तु पार्श्वभागे स्तो निधी तौ शङ्खपद्मकौ ।
नवरत्नवहा नद्यस्तथा वै काञ्चनस्रवाः
॥३७॥सप्तधातुवहा नद्यो निधिभ्यां तु विनिर्गताः ।
सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम
॥३८॥सा देवी भुवनेशानी तद्वामाङ्के विराजते ।
सर्वेशत्वं महेशस्य यत्सङ्गादेव नान्यथा
॥३९॥चिन्तामणिगृहस्यास्य प्रमाणं शृणु भूमिप ।
सहस्रयोजनायामं महान्तस्तत्प्रचक्षते
॥४०॥तदुत्तरे महाशालाः पूर्वस्माद्द्विगुणाः स्मृताः ।
अन्तरिक्षगतं त्वेतन्निराधारं विराजते
॥४१॥सङ्कोचश्च विकासश्च जायतेऽस्य निरन्तरम् ।
पटवत्कार्यवशतः प्रलये सर्जने तथा
॥४२॥शालानां चैव सर्वेषां सर्वकान्तिपरावधि ।
चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी
॥४३॥ये ये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः ।
देवेषु नागलोकेषु मनुष्येष्वितरेषु च
॥४४॥श्रीदेव्यास्ते च सर्वेऽपि व्रजन्त्यत्रैव भूमिप ।
देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः
॥४५॥ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा ।
घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः
॥४६॥स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः ।
द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः
॥४७॥आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः ।
मनोरथफला वृक्षा वाप्यः कूपास्तथैव च
॥४८॥यथेष्टपानफलदा न न्यूनं किञ्चिदस्ति हि ।
न रोगपलितं वापि जरा वापि कदाचन
॥४९॥न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा ।
सर्वे युवानः सस्त्रीका सहस्रादित्यवर्चसः
॥५०॥भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् ।
केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः
॥५१॥सरूपतां गताः केचित्सार्ष्टितां च परे गताः ।
या यास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम्
॥५२॥समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् ।
सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते
॥५३॥महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् ।
कारणब्रह्मरूपां तां मायाशबलविग्रहाम्
॥५४॥इत्थं राजन् मया प्रोक्तं मणिद्वीपं महत्तरम् ।
न सूर्यचन्द्रौ नो विद्युत्कोटयोऽग्निस्तथैव च
॥५५॥एतस्य भासा कोट्यंशकोट्यंशेनापि ते समाः ।
क्यचिद्विद्रुमसकाशं क्वचिन्मरकतच्छवि
॥५६॥विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् ।
विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित्
॥५७॥क्वचित्सिन्दूरनीलेन्द्रमाणिक्यसदृशच्छवि ।
हीरसारमहागर्भधगद्धगितदिक्तटम्
॥५८॥कान्त्या दावानलसमं तप्तकाञ्चनसन्निभम् ।
क्वचिच्चन्द्रोपलोद्गारं सूर्योद्गारं च कुत्रचित्
॥५९॥रत्नशृङ्गिसमायुक्तं रत्नप्राकारगोपुरम् ।
रत्नपत्रै रत्नफलैर्वक्षैश्च परिमण्डितम्
॥६०॥नृत्यन्मयूरसङ्घैश्च कपोतरणितोज्ज्वलम् ।
कोकिलाकाकलीलापैः शुकलापैश्च शोभितम्
॥६१॥सुरम्यरमणीयाम्बुलक्षावधिसरोवृतम् ।
तन्मध्यभागविलसद्विकचद्रत्नपङ्कजैः
॥६२॥सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् ।
मन्दमारुतसम्भिन्नचलद्द्रुमसमाकुलम्
॥६३॥चिन्तामणिसमूहानां ज्योतिषा वितताम्बरम् ।
रत्नप्रभाभिरभितो धगद्धगितदिक्तटम्
॥६४॥वृक्षवातमहागन्धवातवातसुपूरितम् ।
धूपधूपायितं राजन् मणिदीपायुतोज्ज्वलम्
॥६५॥मणिजालकसच्छिद्रतरलोदरकान्तिभिः ।
दिङ्मोहजनकं चैतद्दर्पणोदरसंयुतम्
॥६६॥ऐश्वर्यस्य समग्रस्य शृङ्गारस्याखिलस्य च ।
सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य वै
॥६७॥पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च ।
सकलाया दयायाश्च समाप्तिरिह भूपते
॥६८॥राज्ञ आनन्दमारभ्य ब्रह्मलोकान्तभूमिषु ।
आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि
॥६९॥इति ते वर्णितं राजन् मणिद्वीपं महत्तरम् ।
महादेव्याः परं स्थानं सर्वलोकोत्तमोत्तमम्
॥७०॥एतस्य स्मरणात्सद्यः सर्वं पापं विनश्यति ।
प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति
॥७१॥अध्यायपञ्चकं त्वेतत्पठेन्नित्यं समाहितः ।
भूतप्रेतपिशाचादिबाधा तत्र भवेन्न हि
॥७२॥नवीनगृहनिर्माणे वास्तुयागे तथैव च ।
पठितव्यं प्रयत्नेन कल्याणं तेन जायते
॥७३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां द्वादशस्कन्धे मणिद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥
वर्गःदेवीभागवतपुराणम्