मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वादशस्कन्धः, अध्याय ४

3
द्वादशस्कन्धः · 4

गायत्रीहृदयम्

नारद उवाच

भगवन् देवदेवेश भूतभव्यजगत्प्रभो ।

कवचं च श्रुतं दिव्यं गायत्रीमन्त्रविग्रहम्

॥१॥

अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् ।

यद्धारणाद्भवेत्युण्यं गायत्रीजपतोऽखिलम्

॥२॥

श्रीनारायण उवाच

देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् ।

तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम्

॥३॥

विराड्रूपां महादेवीं गायत्रीं वेदमातरम् ।

ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः

॥४॥

पिण्डब्रह्माण्डयोरैक्याद्भावयेत्स्वतनौ तथा ।

देवीरूपे निजे देहे तन्मयत्वाय साधकः

॥५॥

नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः ।

ततोऽभेदाय काये स्वे भावयेद्देवता इमाः

॥६॥

अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमथो भवेत् ।

गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः

॥७॥

गायत्रीच्छन्द उद्दिष्टं देवता परमेश्वरी ।

पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट्क्रमात् ।

आसने विजने देशे ध्यायेदेकाग्रमानसः

॥८॥

न्यासः द्यौर्मूर्ध्नि दैवतम् ।

दन्तपङ्क्तावश्विनौ ।

उभे सन्ध्ये चोष्ठौ ।

मुखमग्निः ।

जिह्वा सरस्वती ।

ग्रीवायां तु बृहस्पतिः ।

स्तनयोर्वसवोऽष्टौ ।

बाह्वोर्मरुतः ।

हृदये पर्जन्यः ।

आकाशमुदरम् ।

नाभावन्तरिक्षम् ।

कट्यो- रिन्द्राग्नी ।

जघने विज्ञानघनः प्रजापतिः ।

कैलास- मलये ऊरू ।

विश्वेदेवा जान्वोः ।

जङ्घायां कौशिकः ।

गुह्यमयने ।

ऊरू पितरः ।

पादौ पृथिवी ।

वनस्पत- योऽङ्गुलीषु ।

ऋषयो रोमाणि ।

नखानि मुहूर्तानि ।

अस्थिषु ग्रहाः ।

असृङ्मांसमृतवः ।

संवत्सरा वै निमिषम् ।

अहोरात्रावादित्यश्चन्द्रमाः ।

प्रवरां दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये ।

ॐ तत्सवितुर्वरेण्याय नमः ।

ॐ तत्पूर्वाजयाय नमः ।

तत्प्रातरादित्याय नमः ।

तत्प्रातरादित्यप्रतिष्ठायै नमः ।

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

सायंप्रातरधीयानो अपापो भवति ।

सर्वतीर्थेषु स्नातो भवति ।

सर्वैर्देवैर्ज्ञातो भवति ।

अवाच्यवचनात्पूतो भवति ।

अभक्ष्यभक्षणात्पूतो भवति ।

अभोज्यभोजनापूतो भवति ।

अचोष्यचोष- णात्पूतो भवति ।

असाध्यसाधनात्पूतो भवति ।

दुष्प्रतिग्रहशतसहस्रात्पूतो भवति ।

सर्वप्रतिग्रहात्पूतो भवति ।

पङ्क्तिदूषणात्पूतो भवति ।

अनृतवचनात्पूतो भवति ।

अथाब्रह्मचारी ब्रह्मचारी भवति ।

अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति ।

षष्टिशत- सहस्रगायत्र्या जप्यानि फलानि भवन्ति ।

अष्टौ ब्राह्मणान्सम्यग्ग्राहयेत् ।

तस्य सिद्धिर्भवति ।

य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः प्रमुच्यत इति ।

ब्रह्मलोके महीयते ।

इत्याह भगवान् श्रीनारायणः

॥९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीहृदयं नाम चतुर्थोऽध्यायः ॥ ४ ॥

वर्गःदेवीभागवतपुराणम्