मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय ८

3
एकादशस्कन्धः · 8

भूतशुद्धिवर्णनम्

श्रीनारायण उवाच

भूतशुद्धिप्रकारं च कथयामि महामुने ।

मूलाधारात्समुत्थाय कुण्डलीं परदेवताम्

॥१॥

सुषुम्णामार्गमाश्रित्य ब्रह्मरन्ध्रगतां स्मरेत् ।

जीवं ब्रह्मणि संयोज्य हंसमन्त्रेण साधकः

॥२॥

पादादिजानुपर्यन्तं चतुष्कोणं सवज्रकम् ।

लं बीजाख्यं स्वर्णवर्णं स्मरेदवनिमण्डलम्

॥३॥

जान्वाद्यानाभिचन्द्रार्धनिभं पद्मद्वयाङ्कितम् ।

वं बीजयुक्तं श्वेताभमम्भसो मण्डलं स्मरेत्

॥४॥

नाभेर्हृदयपर्यन्तं त्रिकोणं स्वस्तिकान्वितम् ।

रं बीजेन युतं रक्तं स्मरेत्पावकमण्डलम्

॥५॥

हृदो भूमध्यपर्यन्तं वृत्तं षड्बिन्दुलाञ्छितम् ।

यं बीजयुक्तं धूम्राभं नभस्वन्मण्डलं स्मरेत्

॥६॥

आब्रह्मरन्ध्रं भ्रूमध्याद्वृत्तं स्वच्छं मनोहरम् ।

हं बीजयुक्तमाकाशमण्डलं च विचिन्तयेत्

॥७॥

एवं भूतानि सञ्चिन्त्य प्रत्येकं संविलापयेत् ।

भुवं जले जलं वह्नौ वह्निं वायौ नभस्यमुम्

॥८॥

विलाप्य खमहङ्कारे महत्तत्त्वेऽप्यहङ्कृतिम् ।

महान्तं प्रकृतौ मायामात्मनि प्रविलापयेत्

॥९॥

शुद्धसंविन्मयो भूत्वा चिन्तयेत्पापपूरुषम् ।

वामकुक्षिस्थितं कृष्णमङ्गुष्ठपरिमाणकम्

॥१०॥

ब्रह्महत्याशिरोयुक्तं कनकस्तेयबाहुकम् ।

मदिरापानहृदयं गुरुतल्पकटीयुतम्

॥११॥

तत्संसर्गिपदद्वन्द्वमुपपातकमस्तकम् ।

खड्गचर्मधरं कृष्णमधोवक्त्रं सुदुःसहम्

॥१२॥

वायुबीजं स्मरन्वायुं सम्पूर्यैनं विशोषयेत् ।

स्वशरीरयुतं मन्त्रो वह्निबीजेन निर्दहेत्

॥१३॥

कुम्भके परिजप्तेन ततः पापनरोद्भवम् ।

बहिर्भस्म समुत्सार्य वायुबीजेन रेचयेत्

॥१४॥

सुधाबीजेन देहोत्थं भस्म संप्लावयेत्सुधीः ।

भूबीजेन घनीकृत्य भस्म तत्कनकाण्डवत्

॥१५॥

विशुद्धमुकुराकारं जपन्बीजं विहायसः ।

मूर्धादिपादपर्यन्तान्यङ्गानि रचयेत्सुधीः

॥१६॥

आकाशादीनि भूतानि पुनरुत्पादयेच्चितः ।

सोऽहं मन्त्रेण चात्मानमानयेद्धृदयाम्बुजे

॥१७॥

कुण्डलीजीवमादाय परसङ्गात्सुधामयम् ।

संस्थाप्य हृदयाम्भोजे मूलाधारगतां स्मरेत्

॥१८॥

रक्ताम्भोधिस्थपोतोल्लसदरुण- सरोजाधिरूढा कराब्जैः शूलं कोदण्डमिक्षूद्भवमणिगुण- मप्यङ्कुशं पञ्चबाणान् ।

बिभ्राणासृक्कपालं त्रिनयन- लसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः

॥१९॥

एवं ध्यात्वा प्राणशक्तिं परमात्मस्वरूपिणीम् ।

विभूतिधारणं कार्यं सर्वाधिकृतिसिद्धये

॥२०॥

विभूतेर्विस्तरं वक्ष्ये धारणे च महाफलम् ।

श्रुतिस्मृतिप्रमाणोक्तं भस्मधारणमुत्तमम्

॥२१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे भूतशुद्धिवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥