मध्याह्नसंध्यावर्णनम्
श्रीनारायण उवाच
अथातः श्रूयतां ब्रह्मन् सन्ध्यां माध्याह्निकीं शुभाम् ।
यदनुष्ठानतोऽपूर्वं जायतेऽत्युत्तमं फलम्
॥१॥सावित्रीं युवतीं श्वेतवर्णां चैव त्रिलोचनाम् ।
वरदां चाक्षमालाढ्यां त्रिशूलाभयहस्तकाम्
॥२॥वृषारूढां यजुर्वेदसंहितां रुद्रदेवताम् ।
तमोगुणयुतां चैव भुवर्लोकव्यवस्थिताम्
॥३॥आदित्यमार्गसंचारकर्त्रीं मायां नमाम्यहम् ।
आदिदेवीमथ ध्यात्वाऽऽचमनादि च पूर्ववत्
॥४॥अथ चार्घ्यप्रकरणं पुष्पाणि चिनुयात्ततः ।
तदलाभे बिल्वपत्रं तोयेन मिश्रयेत्ततः
॥५॥ऊर्ध्वं च सूर्याभिमुखं क्षिप्त्वार्घ्यं प्रतिपादयेत् ।
प्रातःसन्ध्यादिवत्सर्वमुपसंहारपूर्वकम्
॥६॥मध्याह्ने केचिदिच्छन्ति सावित्रीं तु तदित्यृचम् ।
असम्प्रदायं तत्कर्म कार्यहानिस्तु जायते
॥७॥कारणं सन्ध्ययोश्चात्र मन्देहा नाम राक्षसाः ।
भक्षितुं सूर्यमिच्छन्ति कारणं श्रुतिचोदितम्
॥८॥अतस्तु कारणाद्विप्रः सन्ध्यां कुर्यात्प्रयत्नतः ।
सन्ध्ययोरुभयोर्नित्यं गायत्र्या प्रणवेन च
॥९॥अम्भस्तु प्रक्षिपेत्तेन नान्यथा श्रुतिघातकः ।
आकृष्णेनेति मन्त्रेण पुष्पैर्वाम्बुविमिश्रितम्
॥१०॥अलाभे बिल्वदूर्वादिपत्रेणोक्तेन पूर्वकम् ।
अर्ध्यं दद्यात्प्रयत्नेन साङ्गं सन्ध्याफलं लभेत्
॥११॥अत्रैव तर्पणं वक्ष्ये शृणु देवर्षिसत्तम ।
भुवः पुनः पूरुषं तु तर्पयामि नमो नमः
॥१२॥यजुर्वेदं तर्पयामि मण्डलं तर्पयामि च ।
हिरण्यगर्भं च तथान्तरात्मानं तथैव च
॥१३॥सावित्रीं च ततो देवमातरं साङ्कृतिं तथा ।
सन्ध्यां तथैव युवतीं रुद्राणीं नीमृजां तथा
॥१४॥सर्वार्थानां सिद्धिकरीं सर्वमन्त्रार्थसिद्धिदाम् ।
भूर्भुवः स्वः पूरुषं तु इति मध्याह्नतर्पणम्
॥१५॥उदुत्यमिति सूक्तेन सूर्योपस्थानमेव च ।
चित्रं देवानामिति च सूर्योपस्थानमाचरेत्
॥१६॥ततो जपं प्रकुर्वीत मन्त्रसाधनतत्परः ।
जपस्यापि प्रकारं तु वक्ष्यामि शृणु नारद
॥१७॥कृत्वोत्तानौ करौ प्रातः सायं चाधः करौ तथा ।
मध्याह्ने हृदयस्थौ तु कृत्वा जपमुदीरयेत्
॥१८॥पर्वद्वयमनामिक्याः कनिष्ठादिक्रमेण तु ।
तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता
॥१९॥गोघ्नः पितृघ्नो मातृघ्नो भ्रूणहा गुरुतल्पगः ।
ब्रह्मस्वक्षेत्रहारी च यश्च विप्रः सुरां पिबेत्
॥२०॥स गायत्र्या सहस्रेण पूतो भवति मानवः ।
मानसं वाचिकं पापं विषयेन्द्रियसङ्गजम्
॥२१॥तत्किल्बिषं नाशयति त्रीणि जन्मानि मानवः ।
गायत्रीं यो न जानाति वृथा तस्य परिश्रमः
॥२२॥पठेच्च चतुरो वेदान् गायत्रीं चैकतो जपेत् ।
वेदानां चावृतेस्तद्वद्गायत्रीजप उत्तमः
॥२३॥इति मध्याह्नसन्ध्यायाः प्रकारः कीर्तितो मया ।
अतः परं प्रवक्ष्यामि ब्रह्मयज्ञविधिक्रमम्
॥२४॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे मध्याह्नसंध्यावर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥