मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय १६

3
एकादशस्कन्धः · 16

सन्ध्योपासननिरूपणम्

श्रीनारायण उवाच

अथातः श्रूयतां पुण्यं सन्ध्योपासनमुत्तमम् ।

भस्मधारणमाहात्म्यं कथितं चैव विस्तरात्

॥१॥

प्रातःसन्ध्याविधानं च कथयिष्यामि तेऽनघ ।

प्रातःसन्ध्यां सनक्षत्रां मध्याह्ने मध्यभास्कराम्

॥२॥

ससूर्यां पश्चिमां सन्ध्यां तिस्रः सन्ध्या उपासते ।

तद्भेदानपि वक्ष्यामि शृणु देवर्षिसत्तम

॥३॥

उत्तमा तारकोपेता मध्यमा लुप्ततारका ।

अधमा सूर्यसहिता प्रातःसन्ध्या त्रिधा मता

॥४॥

उत्तमा सूर्यसहिता मध्यमास्तमिते रवौ ।

अधमा तारकोपेता सायंसन्ध्या त्रिधा मता

॥५॥

विप्रो वृक्षो मूलकान्यत्र सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् ।

तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव वृक्षो न शाखा

॥६॥

सन्ध्या येन न विज्ञाता सन्ध्या येनानुपासिता ।

जीवमानो भवेच्छूद्रो मृतः श्वा चैव जायते

॥७॥

तस्मान्नित्यं प्रकर्तव्यं सन्ध्योपासनमुत्तमम् ।

तदभावेऽन्यकर्मादावधिकारी भवेन्न हि

॥८॥

उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् ।

तावत्सन्ध्यामुपासीत प्रायश्चित्तं ततः परम्

॥९॥

कालातिक्रमणे जाते चतुर्थार्घ्यं प्रदापयेत् ।

अथवाष्टशतं देवीं जप्त्वादौ तां समाचरेत्

॥१०॥

यस्मिन्काले तु यत्कर्म तत्कालाधीश्वरीं च ताम् ।

सन्ध्यामुपास्य पश्चात्तु तत्कालीनं समाचरेत्

॥११॥

गृहे साधारणा प्रोक्ता गोष्ठे वै मध्यमा भवेत् ।

नदीतीरे चोत्तमा स्याद्देवीगेहे तदुत्तमा

॥१२॥

यतो देव्या उपासेयं ततो देव्यास्तु सन्निधौ ।

सन्ध्यात्रयं प्रकर्तव्यं तदानन्त्याय कल्पते

॥१३॥

एतस्या अपरं दैवं ब्राह्मणानां च विद्यते ।

न विष्णूपासना नित्या न शिवोपासना तथा

॥१४॥

यथा भवेन्महादेव्या गायत्र्याः श्रुतिचोदिता ।

सर्ववेदसारभूता गायत्र्यास्तु समर्चना

॥१५॥

ब्रह्मादयोऽपि सन्ध्यायां तां ध्यायन्ति जपन्ति च ।

वेदा जपन्ति तां नित्यं वेदोपास्या ततः स्मृता

॥१६॥

तस्मात्सर्वे द्विजाः शाक्ता न शैवा न च वैष्णवाः ।

आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम्

॥१७॥

आचान्तः प्राणमायम्य केशवादिकनामभिः ।

केशवश्च तथा नारायणो माधव एव च

॥१८॥

गोविन्दो विष्णुरेवाथ मधुसूदन एव च ।

त्रिविक्रमो वामनश्च श्रीधरोऽपि ततः परम्

॥१९॥

हृषीकेशः पद्मनाभो दामोदर अतः परम् ।

सङ्कर्षणो वासुदेवः प्रद्युम्नोऽप्यनिरुद्धकः

॥२०॥

पुरुषोत्तमाधोक्षजौ च नारसिंहोऽप्युतस्तथा ।

जनार्दन उपेन्द्रश्च हरिः कृष्णोऽन्तिमस्तथा

॥२१॥

ॐकारपूर्वकं नाम चतुर्विंशतिसङ्ख्यया ।

स्वाहान्तैः प्राशयेद्वारि नमोऽन्तैः स्पर्शयेत्तथा

॥२२॥

केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ ।

मुखं प्रक्षालयेद्द्वाभ्यां द्वाभ्यामुन्मार्जनं तथा

॥२३॥

एकेन पाणिं सम्प्रोक्ष्य पादावपि शिरोऽपि च ।

सङ्कर्षणादिदेवानां द्वादशाङ्गानि संस्पृशेत्

॥२४॥

दक्षिणेनोदकं पीत्वा वामेन संस्पृशेद्बुध: ।

तावन्न शुध्यते तोयं यावद्वामेन न स्पृशेत्

॥२५॥

गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् ।

ततो न्यूनाधिकं पीत्वा सुरापायी भवेद्द्विजः

॥२६॥

संहताङ्गुलिना तोयं पाणिना दक्षिणेन तु ।

मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः

॥२७॥

प्राणायामं ततः कृत्वा प्रणवस्मृतिपूर्वकम् ।

गायत्रीं शिरसा सार्धं तुरीयपदसंयुताम्

॥२८॥

दक्षिणे रेचयेद्वायुं वामेन पूरितोदरम् ।

कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधा:

॥२९॥

पीडयेद्दक्षिणां नाडीमङ्गुष्ठेन तथोत्तराम् ।

कनिष्ठानामिकाभ्यां तु मध्यमां तर्जनीं त्यजेत्

॥३०॥

रेचक: पूरकश्चैव प्राणायामोऽथ कुम्भक: ।

प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसै:

॥३१॥

रेचकः सृजते वायुं पूरकः पूरयेत्तु तम् ।

साम्येन संस्थितिर्यत्तत्कुम्भकः परिकीर्तितः

॥३२॥

नीलोत्पलदलश्यामं नाभिमध्ये प्रतिष्ठितम् ।

चतुर्भुजं महात्मानं पूरके चिन्तयेद्धरिम्

॥३३॥

कुम्भके तु हृदि स्थाने ध्यायेत्तु कमलासनम् ।

प्रजापतिं जगन्नाथं चतुर्वक्त्रं पितामहम्

॥३४॥

रेचके शङ्करं ध्यायेल्ललाटस्थं महेश्वरम् ।

शुद्धस्फटिकसंकाशं निर्मलं पापनाशनम्

॥३५॥

पूरके विष्णुसायुज्यं कुम्भके ब्रह्मणो गतिम् ।

रेचकेन तृतीयं तु प्राप्नुयादीश्वरं परम्

॥३६॥

पौराणाचमनाद्यं च प्रोक्तं देवर्षिसत्तम ।

श्रौतमाचमनाद्यं च शृणु पापापहं मुने

॥३७॥

प्रणवं पूर्वमुच्चार्य गायत्रीं तु तदित्यृचम् ।

पादादौ व्याहृतीस्तिस्रः श्रौताचमनमुच्यते

॥३८॥

गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् ।

प्रतिप्रणवसंयुक्तां त्रितयं प्राणसंयमः

॥३९॥

(सलक्षणं तु प्राणानामायामं कीर्त्यतेऽधुना ।

नानापापैकशमनं महापुण्यफलप्रदम् ।

) पञ्चाङ्गुलीभिर्नासाग्रं पीडयेत्प्रणवेन तु ।

सर्वपापहरा मुद्रा वानप्रस्थगृहस्थयोः

॥४०॥

कनिष्ठानामिकाङ्गुष्ठैर्यतेश्च ब्रह्मचारिणः ।

आपो हि ष्ठेति तिसृभिः प्रोक्षणं स्यात्कुशोदकैः

॥४१॥

ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः ।

नवप्रणवयुक्तेन आपो हि ष्ठेत्यनेन तु

॥४२॥

नश्येदघं मार्जनेन संवत्सरसमुद्भवम् ।

तत आचमनं कृत्वा सूर्यश्चेति पिबेदपः

॥४३॥

अन्तःकरणसम्भिन्नं पापं तस्य विनश्यति ।

प्रणवेन व्याहृतिभिर्गायत्र्या प्रणवाद्यया

॥४४॥

आपो हि ष्ठेति सूक्तेन मार्जनं चैव कारयेत् ।

उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते

॥४५॥

नीत्वा तं नासिकाग्रं तु वामकुक्षौ स्मरेदघम् ।

पुरुषं कृष्णवर्णं च ऋतं चेति पठेत्ततः

॥४६॥

द्रुपदां वा ऋचं पश्चाद्दक्षनासापुटेन च ।

श्वासमार्गेण तं पापमानयेत्करवारिणि

॥४७॥

नावलोक्यैव तद्वारि वामभागेऽश्मनि क्षिपेत् ।

निष्पापं तु शरीरं मे सञ्जातमिति भावयेत्

॥४८॥

उत्थाय तु ततः पादौ द्वौ समौ सन्नियोजयेत् ।

जलाञ्जलिं गृहीत्वा तु तर्जन्यङ्गुष्ठवर्जितम्

॥४९॥

वीक्ष्य भानुं क्षिपेद्वारि गायत्र्या चाभिमन्त्रितम् ।

त्रिवारं मुनिशार्दूल विधिरेषोऽर्घ्यमोचने

॥५०॥

ततः प्रदक्षिणां कुर्यादसावादित्यमन्त्रतः ।

मध्याह्ने सकृदेव स्यात्सन्ध्ययोस्तु त्रिवारतः

॥५१॥

ईषन्नग्रः प्रभाते तु मध्याह्ने दण्डवत्स्थितः ।

आसने चोपविष्टस्तु द्विजः सायं क्षिपेदपः

॥५२॥

उदकं प्रक्षिपेद्यस्मात्तत्कारणमतः शृणु ।

त्रिंशत्कोट्यो महावीरा मन्देहा नाम राक्षसाः

॥५३॥

कृतघ्ना दारुणा घोराः सूर्यमिच्छन्ति खादितुम् ।

ततो देवगणाः सर्वे ऋषयश्च तपोधनाः

॥५४॥

उपासते महासन्ध्यां प्रक्षिपन्त्युदकाञ्जलिम् ।

दह्यन्ते तेन दैत्यास्ते वज्रीभूतेन वारिणा

॥५५॥

एतस्मात्कारणाद्विप्राः सन्ध्यां नित्यमुपासते ।

महापुण्यस्य जननं सन्ध्योपासनमीरितम्

॥५६॥

अर्घ्याङ्गभूतमन्त्रोऽयं प्रोच्यते शृणु नारद ।

यदुच्चारणमात्रेण साङ्गं सन्ध्याफलं भवेत्

॥५७॥

सोऽहमर्कोऽस्म्यहं ज्योतिरात्मा ज्योतिरहं शिवः ।

आत्मज्योतिरहं शुक्लः सर्वज्योती रसोऽस्म्यहम्

॥५८॥

आगच्छ वरदे देवि गायत्रि ब्रह्मरूपिणि ।

जपानुष्ठानसिद्ध्यर्थं प्रविश्य हृदयं मम

॥५९॥

उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च ।

अर्घ्येषु देवि गन्तव्यं प्रविश्य हृदयं मम

॥६०॥

ततः शुद्धस्थले नैजमासनं स्थापयेद्बुधः ।

तत्रारुह्य जपेत्पश्चाद्गायत्रीं वेदमातरम्

॥६१॥

अत्रैव खेचरी मुद्रा प्राणायामोत्तरं मुने ।

प्रातःसन्ध्याविधाने च कीर्तिता मुनिपुङ्गव

॥६२॥

तन्नामार्थं प्रवक्ष्यामि सादरं शृणु नारद ।

चित्तं चरति खे यस्माज्जिह्वा चरति खे गता

॥६३॥

भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ।

न चासनं सिद्धसमं न कुम्भसदृशोऽनिलः

॥६४॥

न खेचरीसमा मुद्रा सत्यं सत्यं च नारद ।

घण्टावत्पणवोच्चाराद्वायुं निर्जित्य यत्नतः

॥६५॥

स्थिरासने स्थिरो भूत्वा निरहङ्कारनिर्ममः ।

लक्षणं नारद मुने शृणु सिद्धासनस्य च

॥६६॥

योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसे- न्मेढ्रे पादमथैकमेव हृदयं कृत्वा समं विग्रहम् ।

स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं तिष्ठत्येतदतीव योगिसुखदं सिद्धासनं प्रोच्यते

॥६७॥

आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम् ।

गायत्री छन्दसां मातरिदं ब्रह्म जुषस्व मे

॥६८॥

यदह्ना कुरुते पापं तदह्ना प्रतिमुच्यते ।

यद्रात्र्या कुरुते पापं तद्रात्र्या प्रतिमुच्यते

॥६९॥

सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति ।

अजरे अमरे देवि सर्वदेवि नमोऽस्तु ते

॥७०॥

तेजोऽसीत्यादिमन्त्रेण देवीमावाहयेत्ततः ।

यत्कृतं त्वदनुष्ठानं तत्सर्वं पूर्णमस्तु मे

॥७१॥

ततः शापविमोक्षाय विधानं सम्यगाचरेत् ।

ब्रह्मशापस्ततो विश्वामित्रस्य च तथैव च

॥७२॥

वसिष्ठशाप इत्येतत्त्रिविधं शापलक्षणम् ।

ब्रह्मणः स्मरणेनैव ब्रह्मशापो निवर्तते

॥७३॥

विश्वामित्रस्मरणतो विश्वामित्रस्य शापतः ।

वसिष्ठस्मरणादेव तस्य शापो विनश्यति

॥७४॥

हृत्पद्ममध्ये पुरुषं प्रमाणं सत्यात्मकं सर्वजगत्स्वरूपम् ।

ध्यायामि नित्यं परमात्मसंज्ञं चिद्रूपमेकं वचसामगम्यम्

॥७५॥

अथ न्यासविधिं वक्ष्ये सन्ध्याया अङ्गसम्भवम् ।

ॐकारं पूर्ववद्योज्यं ततो मन्त्रानुदीरयेत्

॥७६॥

भूरित्युक्त्वा च पादाभ्यां नम इत्येव चोच्चरेत् ।

भुवः पूर्वं तु जानुभ्यां स्व: कटिभ्यां नमो वदेत्

॥७७॥

महर्नाभ्यै जनश्चैव हदयाय ततस्तपः ।

कण्ठाय च ततः सत्यं ललाटे परिकीर्तयेत्

॥७८॥

अङ्गुष्ठाभ्यां तत्सवितुस्तर्जनीभ्यां वरेण्यकम् ।

भर्गो देवस्य मध्याभ्यां धीमहीत्येव कीर्तयेत्

॥७९॥

अनामाभ्यां कनिष्ठाभ्यां धियो यो न: पदं वदेत् ।

प्रचोदयात्करपृष्ठतलयोर्विन्यसेत्सुधी:

॥८०॥

ब्रह्मात्मने तत्सवितुर्हृदयाय नमस्तथा ।

विष्ण्वात्मने वरेण्यं च शिरसे नम इत्यपि

॥८१॥

भर्गो देवस्थ रुद्रात्मने शिखायै प्रकीर्तितम् ।

शक्त्यात्मने धीमहीति कवचाय ततः परम्

॥८२॥

कालात्मने धियो यो नो नेत्रत्रय उदीरितम् ।

प्रचोदयाच्च सर्वात्मनेऽस्त्राय परिकीर्तितम्

॥८३॥

अक्षरन्यासमेवाग्रे कथयामि महामुने ।

गायत्रीवर्णसम्भूतन्यास: पापहरः पर:

॥८४॥

प्रणवं पूर्वमुच्चार्य वर्णन्यासः प्रकीर्तितः ।

तत्कारमादावुच्चार्य पादाङ्गुष्ठद्वये न्यसेत्

॥८५॥

सकारं गुल्फयोस्तद्वद्विकारं जङ्घयोर्न्यसेत् ।

जान्वोस्तुकारं विन्यस्य ऊर्वोश्चैव वकारकम्

॥८६॥

रेकारं च गुदे न्यस्य णिकारं लिङ्ग एव च ।

कट्यां यकारमेवात्र भकारं नाभिमण्डले

॥८७॥

गोकारं हृदये न्यस्य देकारं स्तनयोर्द्वयोः ।

वकारं हृदि विन्यस्य स्यकारं कण्ठकूपके

॥८८॥

धीकारं मुखदेशे तु मकारं तालुदेशके ।

हिकारं नासिकाग्रे तु धिकारं नेत्रमण्डले

॥८९॥

भ्रूमध्ये चैव योकारं योकारं च ललाटके ।

नकारं वै पूर्वमुखे प्रकारं दक्षिणे मुखे

॥९०॥

चोकारं पश्चिममुखे दकारं चोत्तरे मुखे ।

याकारं मूर्ध्नि विन्यस्य तकारं व्यापकं न्यसेत्

॥९१॥

एतन्न्यासविधिं केचिन्नेच्छन्ति जपतत्पराः ।

ततो ध्यायेन्महादेवीं जगन्मातरमम्बिकाम्

॥९२॥

भास्वज्जपाप्रसूनाभां कुमारीं परमेश्वरीम् ।

रक्ताम्बुजासनारूढां रक्तगन्धानुलेपनाम्

॥९३॥

रक्तमाल्याम्बरधरां चतुरास्यां चतुर्भुजाम् ।

द्विनेत्रां स्रुक्स्रुवो मालां कुण्डिकां चैव बिभ्रतीम्

॥९४॥

सर्वाभरणसन्दीप्तामृग्वेदाध्यायिनीं पराम् ।

हंसपत्रामाहवनीयमध्यस्थां ब्रह्मदेवताम्

॥९५॥

चतुष्पदामष्टकुक्षिं सप्तशीर्षां महेश्वरीम् ।

अग्निवक्त्रां रुद्रशिखां विष्णुचित्तां तु भावयेत्

॥९६॥

ब्रह्मा तु कवचं यस्या गोत्रं सांख्यायनं स्मृतम् ।

आदित्यमण्डलान्तःस्थां ध्यायेद्देवीं महेश्वरीम्

॥९७॥

एवं ध्यात्वा विधानेन गायत्रीं वेदमातरम् ।

ततो मुद्राः प्रकुर्वीत देव्याः प्रीतिकराः शुभाः

॥९८॥

सुमुखं सपुटं चैव विततं विस्तृतं तथा ।

द्विमुखं त्रिमुखं चैव चतुष्कं पञ्चकं तथा

॥९९॥

षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा ।

शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम्

॥१००॥

विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् ।

सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा

॥१०१॥

चतुर्विंशतिमुद्राश्च गायत्र्याः सम्प्रदर्शयेत् ।

शताक्षरां च गायत्रीं सकृदावर्तयेत्सुधीः

॥१०२॥

चतुर्विंशत्यक्षराणि गायत्र्या कीर्तितानि हि ।

जातवेदसनाम्नीं च ऋचमुच्चारयेत्ततः

॥१०३॥

त्र्यम्बकस्यर्चमावृत्य गायत्री शतवर्णका ।

भवतीयं महापुण्या सकृज्जप्या बुधैरियम्

॥१०४॥

ॐकारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च ।

चतुर्विंशत्यक्षरां च गायत्रीं प्रोच्चरेत्ततः

॥१०५॥

एवं नित्यं जपं कुर्याद्ब्राह्मणो विप्रपुङ्गवः ।

स समग्रं फलं प्राप्य सन्ध्यायाः सुखमेधते

॥१०६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे सन्ध्योपासननिरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥