मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय ९

3
एकादशस्कन्धः · 9

सशिरोव्रतं त्रिपुण्डधारणवर्णनम्

श्रीनारायण उवाच

इदं शिरोव्रतं चीर्णं विधिवद्यैर्द्विजातिभिः ।

तेषामेव परां विद्यां वदेदज्ञानबाधिकाम्

॥१॥

विधिवच्छ्रद्धया सार्धं न चीर्णं यैः शिरोव्रतम् ।

श्रौतस्मार्तसमाचारस्तेषामनुपकारकः

॥२॥

शिरोव्रतसमाचारादेव ब्रह्मादिदेवताः ।

देवता अभवन्विद्वन् खलु नान्येन हेतुना

॥३॥

शिरोव्रतस्य माहात्म्यं पूर्वैः पूर्वतरं कृतम् ।

ब्रह्मा विष्णुश्च रुद्रश्च देवताः सकला अपि

॥४॥

सर्वपातकयुक्तोऽपि मुच्यते सर्वपातकैः ।

शिरोव्रतमिदं येन चरितं विधिवद्बुधैः

॥५॥

शिरोव्रतमिदं नाम शिरस्याथर्वणश्रुतेः ।

यदुक्तं तद्धि नैवान्यत्तत्तु पुण्येन लभ्यते

॥६॥

शाखाभेदेषु नामानि व्रतस्यास्य विभेदतः ।

पठ्यन्ते मुनिशार्दूल शाखास्वेकव्रतं हि तत्

॥७॥

सर्वशाखासु वस्त्वेकं शिवाख्यं सत्यचिद्घनम् ।

तथा तद्विषयं ज्ञानं तथैव च शिरोतव्रतम्

॥८॥

शिरोव्रतविहीनस्तु सर्वधर्मविवर्जितः ।

अपि सर्वासु विद्यासु सोऽधिकारी न संशयः

॥९॥

शिरोव्रतमिदं कार्यं पापकान्तारदाहकम् ।

साधनं सर्वविद्यानां यतस्तत्सम्यगाचरेत्

॥१०॥

श्रुतिराथर्वणी सूक्ष्मा सूक्ष्मार्थस्य प्रकाशिनी ।

यदुवाच व्रतं प्रीत्या तन्नित्यं सम्यगाचरेत्

॥११॥

अग्निरित्यादिभिर्मन्त्रैः षड्भिः शुद्धेन भस्मना ।

सर्वाङ्गोद्धूलनं कुर्याच्छिरोव्रतसमाह्वयम्

॥१२॥

एतच्छिरोव्रतं कुर्यात्सन्ध्याकालेषु सादरम् ।

यावद्विद्योदयस्तावत्तस्य विद्या खलूत्तमा

॥१३॥

द्वादशाब्दमथाब्दं वा तदर्धं च तदर्धकम् ।

प्रकुर्याद्द्वादशाहं वा सङ्कल्पेन शिरोव्रतम्

॥१४॥

शिरोव्रतेन यः स्नातस्तं तु नोपदिशेत्तु यः ।

तस्य विद्या विनष्टा स्यान्निर्घृणः स गुरुः खलु

॥१५॥

ब्रह्मविद्यागुरुः साक्षान्मुनिः कारुणिकः खलु ।

यथा सर्वेश्वरः श्रीमान्मृदुः कारुणिकः खलु

॥१६॥

जन्मान्तरसहस्रेषु नरा ये धर्मचारिणः ।

तेषामेव खलु श्रद्धा जायते न कदाचन

॥१७॥

प्रत्युताज्ञानबाहुल्याद्द्वेष एव विजायते ।

अतः प्रद्वेषयुक्तस्य न भवेदात्मवेदनम्

॥१८॥

ब्रह्मविद्योपदेशस्य साक्षादेवाधिकारिणः ।

त एव नेतरे विद्वन् ये तु स्नाताः शिरोव्रतैः

॥१९॥

व्रतं पाशुपतं चीर्णं यैर्द्विजैरादरेण तु ।

तेषामेवोपदेष्टव्यमिति वेदानुशासनम्

॥२०॥

यः पशुस्तत्पशुत्वं च व्रतेनानेन सन्त्यजेत् ।

तान्हत्वा न स पापीयान्भवेद्वेदान्तनिश्चयः

॥२१॥

त्रिपुण्ड्रधारणं प्रोक्तं जाबालैरादरेण तु ।

त्रियम्बकेन मन्त्रेण सतारेण शिवेन च

॥२२॥

त्रिपुण्ड्रं धारयेन्नित्यं गहस्थाश्रममाश्रितः ।

ओङ्कारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम्

॥२३॥

धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः ।

त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च

॥२४॥

गृहस्थश्च वानप्रस्थो धारयेच्च त्रिपुण्ड्रकम् ।

मेधावीत्यादिना वापि ब्रह्मचारी दिने दिने

॥२५॥

भस्मना सजलेनापि धारयेच्च त्रिपुण्ड्रकम् ।

ब्राह्मणो विधिनोत्पन्नस्त्रिपुण्ड्रभस्मनैव तु

॥२६॥

ललाटे धारयेन्नित्यं तिर्यग्भस्मावगुण्ठनम् ।

(महादेवस्य सम्बन्धात्तद्धर्मेऽप्यस्ति सङ्गतिः ।

) सम्यक् त्रिपुण्ड्रधर्मं च ब्राह्मणो नित्यमाचरेत्

॥२७॥

आदिब्राह्मणभूतेन त्रिपुण्ड्रं भस्मना धृतम् ।

यतोऽत एव विप्रस्तु त्रिपुण्ड्रं धारयेत्सदा

॥२८॥

भस्मना वेदसिद्धेन त्रिपुण्ड्रं देहगुण्ठनम् ।

रुद्रलिङ्गार्चनं वापि मोहतोऽपि च न त्यजेत्

॥२९॥

त्रियम्बकेन मन्त्रेण सतारेण तथैव च ।

पञ्चाक्षरेण मन्त्रेण प्रणवेन तथैव च

॥३०॥

ललाटे हृदये चैव दोर्द्वन्द्वे च महामुने ।

त्रिपुण्ड्रं धारयेन्नित्यं संन्यासाश्रममाश्रितः

॥३१॥

त्रियायुषेण मन्त्रेण मेधावीत्यादिनाथवा ।

गौणेन भस्मना धार्यं त्रिपुण्ड्रं ब्रह्मचारिणा

॥३२॥

नमोऽन्तेन शिवेनैव शूद्रः शुश्रूषणे रतः ।

उद्धूलनं त्रिपुण्ड्रं च नित्यं भक्त्या समाचरेत्

॥३३॥

अन्येषामपि सर्वेषां विना मन्त्रेण सुव्रत ।

उद्धूलनं त्रिपुण्ड्रं च कर्तव्यं भक्तितो मुने

॥३४॥

भूत्यैवोद्धूलनं तिर्यक् त्रिपुण्ड्रस्य च धारणम् ।

वरेण्यं सर्वधर्मेभ्यस्तस्मान्नित्यं समाचरेत्

॥३५॥

भस्माग्निहोत्रजं वाथ विरजाग्निसमुद्भवम् ।

आदरेण समादाय शुद्धे पात्रे निधाय तत्

॥३६॥

प्रक्षाल्य पादौ हस्तौ च द्विराचम्य समाहितः ।

गृहीत्वा भस्म तत्पञ्चब्रह्ममन्त्रैः शनैः शनैः

॥३७॥

प्राणायामत्रयं कृत्वा अग्निरित्यादिमन्त्रितम् ।

तैरेव सप्तभिर्मन्त्रैस्त्रिवारमभिमन्त्रयेत्

॥३८॥

ओमापोज्योतिरित्युक्त्वा ध्यात्वा मन्त्रानुदीरयेत् ।

सितेन भस्मना पूर्वं समुद्धूल्य शरीरकम्

॥३९॥

विपापो विरजो मर्त्यो जायते नात्र संशयः ।

ततो ध्यात्वा महाविष्णुं जगन्नाथं जलाधिपम्

॥४०॥

संयोज्य भस्मना तोयमग्निरित्यादिभिः पुनः ।

विमृज्य साम्बं ध्यात्वा च समुद्धूल्योर्ध्वमस्तकम्

॥४१॥

तेन भावनया ब्राह्मभूतेन सितभस्मना ।

ललाटवक्षःस्कन्धेषु स्वाश्रमोचितमन्त्रतः

॥४२॥

मध्यमानामिकाङ्गुष्ठैरनुलोमविलोमतः ।

त्रिपुण्ड्रं धारयेन्नित्यं त्रिकालेष्वपि भक्तितः

॥४३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे सशिरोव्रतं त्रिपुण्डधारणवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥