मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय २२

3
एकादशस्कन्धः · 22

वैश्वदेवादिविधिनिरूपणम्

श्रीनारायण उवाच

अथातः श्रूयतां ब्रह्मन् वैश्वदेवविधानकम् ।

पुरश्चर्याप्रसङ्गेन ममापि स्मृतिमागतम्

॥१॥

देवयज्ञो ब्रह्मयज्ञो भूतयज्ञस्तथैव च ।

पितृयज्ञो मनुष्यस्य यज्ञश्चैव तु पञ्चमः

॥२॥

पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।

कण्डणी चोदकुम्भश्च तेषां पापस्य शान्तये

॥३॥

न चुल्ल्यां नायसे पात्रे न भूमौ न च खर्परे ।

वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा

॥४॥

न पाणिना न शूर्पेण न च मेध्याजिनादिभिः ।

मुखेनोपधमेदग्निं मुखादेव व्यजायत

॥५॥

पटकेन भवेद्व्याधिः शूर्पेण धननाशनम् ।

पाणिना मृत्युमाप्नोति कर्मसिद्धिर्मुखेन तु

॥६॥

फलैर्दधिघृतैः कुर्यान्मूलशाकोदकादिभिः ।

अलाभे येन केनापि काष्ठमूलतृणादिभिः

॥७॥

जुहुयात्सर्पिषाभ्यक्तं तैलक्षारविवर्जितम् ।

दध्यक्तं वा पायसाक्तं तदभावेऽम्भसापि वा

॥८॥

शुष्कैः पर्युषितैः कुष्ठी उच्छिष्टेन द्विषां वशी ।

रुक्षैर्द्ररिद्रतां याति क्षारं हुत्वा व्रजत्यधः

॥९॥

अङ्गारान्भस्ममिश्रांस्तु निर्हृत्योत्तरतोऽनलात् ।

जुहुयाद्वैश्वदेवं तु न क्षारादिविमिश्रितम्

॥१०॥

अकृत्वा वैश्वदेवं तु यो भुङ्क्ते मूढधीर्द्विजः ।

स मूढो नरकं याति कालसूत्रमवाक्शिराः

॥११॥

शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् ।

सङ्कल्पयेद्यदाहारं तेनाग्नौ जुहुयादपि

॥१२॥

अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थमागते ।

उद्धृत्य वैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत्

॥१३॥

वैश्वदेवकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् ।

न तु भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति

॥१४॥

यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।

तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत्

॥१५॥

वैश्वदेवानन्तरं च गोग्रासं प्रतिपादयेत् ।

तद्विधानं प्रवक्ष्यामि शृणु देवर्षिपूजित

॥१६॥

सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता ।

गोग्रासं च मया दत्तं सुरभे प्रतिगृह्यताम्

॥१७॥

गोभ्यश्च नम इत्येव पूजां कृत्वा गवेऽर्पयेत् ।

गोग्रासेन तु गोमाता सुरभिः सम्प्रसीदति

॥१८॥

ततो गोदोहनं कालं तिष्ठेच्चैव गृहाङ्गणे ।

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते

॥१९॥

स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ।

माता पिता गुरुर्भ्राता प्रजा दासः समाश्रितः

॥२०॥

अभ्यागतोऽतिथिश्चाग्निरेते पोष्या उदाहृताः ।

एवं ज्ञात्वा तु यो मोहान्न करोति गृहाश्रमम्

॥२१॥

तस्य नायं तु न परो लोको भवति धर्मतः ।

यत्फलं सोमयागेन प्राप्नोति धनवान्द्विजः

॥२२॥

सम्यक् पञ्चमहायज्ञैर्दरिद्रस्तेन चाप्नुयात् ।

अथ प्राणाग्निहोत्रं तु वक्ष्यामि मुनिपुङ्गव

॥२३॥

यज्ज्ञात्वा मुच्यते जन्तुर्जन्ममृत्युजरादिभिः ।

परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः

॥२४॥

विधिना भुज्यते येन मुच्येत स ऋणत्रयात् ।

कुलान्युद्धरते विप्रो नरकानेकविंशतिम्

॥२५॥

सर्वयज्ञफलप्राप्तिः सर्वलोकेषु गच्छति ।

हृत्पुण्डरीकमरणिर्मनो मन्धानसंज्ञकम्

॥२६॥

वायुरज्ज्वा मथेदग्निं चक्षुरध्वर्युरेव च ।

तर्जनीमध्यमाङ्गुष्ठैः प्राणस्यैवाहुतिं क्षिपेत्

॥२७॥

मध्यमानामिकाङ्गुष्ठैरपानस्याहुतिं क्षिपेत् ।

कनिष्ठानामिकाङ्गुष्ठैर्व्यानस्य तदनन्तरम्

॥२८॥

कनिष्ठातर्जन्यङ्गुष्ठैरुदानस्याहुतिं क्षिपेत् ।

सर्वाङ्गुलैर्गृहीत्वान्नं समानस्याहुतिं क्षिपेत्

॥२९॥

स्वाहान्तान्प्रणवाद्यांश्च नाममन्त्रांश्च वै पठेत् ।

मुखे चाहवनीयस्तु हृदये गार्हपत्यकः

॥३०॥

नाभौ च दक्षिणाग्निः स्यादधः सभ्यावसथ्यकौ ।

वाग्घोता प्राण उद्गाता चक्षुरध्वर्युरेव च

॥३१॥

मनो ब्रह्मा भवेच्छ्रोत्रमाग्नीध्रस्थान एव च ।

अहङ्कारः पशुश्चात्र प्रणवः पय ईरितम्

॥३२॥

बुद्धिश्च पत्नी सम्प्रोक्ता यदधीनो गृहाश्रमी ।

उरो वेदिस्तु रोमाणि दर्भाः स्युः स्रुक्स्रुवौ करौ

॥३३॥

प्राणमन्त्रस्य च ऋषी रुक्मवर्णः क्षुधाग्निकः ।

देवतादित्य एवात्र गायत्रीच्छन्द उच्यते

॥३४॥

प्राणाय च तथा स्वाहा मन्त्रान्ते कीर्तयेदपि ।

इदमादित्यदेवाय न ममेति वदेदपि

॥३५॥

अपानमन्त्रस्य तथा गोक्षीरधवलाकृतिः ।

श्रद्धाग्निऋषिरेवात्र सोमो वै देवता स्मृता

॥३६॥

उष्णिक्छन्दस्तथापानाय स्वाहेत्यपि कीर्तयेत् ।

सोमायेदं च न ममेत्यत्रोहः परिकीर्तितः

॥३७॥

व्यानमन्त्रस्य चाख्यातोऽम्बुजवर्णहुताशनः ।

ऋषिरुक्तो देवताग्निरनुष्टुप् छन्द ईरितम्

॥३८॥

व्यानाय च तथा स्वाहाग्नयेदं न ममेत्यपि ।

उदानमन्त्रस्य तथा शक्रगोपसवर्णकः

॥३९॥

ऋषिरग्निः समाख्यातो वायुर्वै देवता स्मृता ।

बृहतीच्छन्द आख्यातमुदानाय च पूर्ववत्

॥४०॥

वायवे चेदं न मम एवं चैवोच्चरेद् द्विजः ।

समानवायुमन्त्रस्य विद्युद्वर्णो विरूपकः

॥४१॥

ऋषिरग्निः समाख्यातः पर्जन्यो देवता मता ।

पङ्क्तिश्छन्दः समाख्यातं समानाय च पूर्ववत्

॥४२॥

पर्जन्यायेदमित्युक्त्वा षष्ठीं चैवाहुतिं क्षिपेत् ।

वैश्वानरो महानग्निर्ऋषिर्वै परिकीर्तितः

॥४३॥

गायत्रीच्छन्द आख्यातं देवस्त्वात्मा भवेदपि ।

स्वाहान्तो मन्त्र आख्यातः परमात्मन उच्चरेत्

॥४४॥

इदं न मम चेत्येवं जातं प्राणाग्निहोत्रकम् ।

एतज्ज्ञात्वा विधिं कृत्वा ब्रह्मभूयाय कल्पते ।

प्राणाग्निहोत्रविद्येयं संक्षेपात्कथिता हि ते

॥४५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे वैश्वदेवादिविधिनिरूपणं नाम द्वाविंशोऽध्यायः ॥ २२ ॥