बृहद्रथकथानकम्
नारद उवाच
पूजाविशेषं श्रीदेव्याः श्रोतुमिच्छामि मानद ।
येनाश्रितेन मनुजः कृतकृत्यत्वमावहेत्
॥१॥श्रीनारायण उवाच
देवर्षे शृणु वक्ष्यामि श्रीमत्सु पूजनक्रमम् ।
भुक्तिमुक्तिप्रदं साक्षात्समस्तापन्निवारणम्
॥२॥आचम्य मौनी सङ्कल्प्य भूतशुद्ध्यादिकं चरेत् ।
मातृकान्यासपूर्वं तु षडङ्गन्यासमाचरेत्
॥३॥शङ्खस्य स्थापनं कृत्वा सामान्यार्घ्यं विधाय च ।
पूजाद्रव्याणि चास्त्रेण प्रोक्षयेन्मतिमान्नरः
॥४॥गुरोरनुज्ञामादाय ततः पूजां समारभेत् ।
पीठपूजां पुरा कृत्वा देवीं ध्यायेत्ततः परम्
॥५॥आसनाद्युपचारैश्च भक्तिप्रेमयुतः सदा ।
स्नापयेत्परदेवीं तां पञ्चामृतरसादिभिः
॥६॥पौण्ड्रेक्षुरसपूर्णैस्तु कलशैः शतसंख्यकैः ।
स्तापयेद्यो महेशानीं न स भूयोऽभिजायते
॥७॥यश्च चूतरसैरेवं स्नापयेज्जगदम्बिकाम् ।
वेदपारायणं कृत्वा रसेनेक्षूद्भवेन वा
॥८॥तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती ।
यस्तु द्राक्षारसेनैव वेदपारायणं चरन्
॥९॥अभिषिञ्चेन्महेशानीं सकुटुम्बो नरोत्तमः ।
रसरेणुप्रमाणं च देवीलोके महीयते
॥१०॥कर्पूरागुरुकाश्मीरकस्तूरीपङ्कपङ्किलैः ।
सलिलैः स्नापयेद्देवीं वेदपारायणं चरन्
॥११॥भस्मीभवन्ति पापानि शतजन्मार्जितानि च ।
यो दुग्धकलशैर्देवीं स्तापयेद्वेदपाठतः
॥१२॥आकल्पं स वसेन्नित्यं तस्मिन् वै क्षीरसागरे ।
यस्तु दध्नाभिषिञ्चेत्तां दधिकुल्यापतिर्भवेत्
॥१३॥मधुना च धृतेनैव तथा शर्करयापि च ।
स्नापयेन्मधुकुल्यादिनदीनां स पतिर्भवेत्
॥१४॥सहस्रकलशैर्देवीं स्नापयन्भक्तितत्परः ।
इह लोके सुखी भूत्वाप्यन्यलोके सुखी भवेत्
॥१५॥क्षौमं वस्त्रद्वयं दत्त्वा वायुलोकं स गच्छति ।
रत्ननिर्मितभूषाणां दाता निधिपतिर्भवेत्
॥१६॥काश्मीरचन्दनं दत्त्वा कस्तूरीबिन्दुभूषितम् ।
तथा सीमन्तसिन्दूरं चरणेऽलक्तपत्रकम्
॥१७॥इन्द्रासने समारूढो भवेद्देवपतिः परः ।
पुष्पाणि विविधान्याहुः पूजाकर्मणि साधवः
॥१८॥तानि दत्त्वा यथालाभं कैलासं लभते स्वयम् ।
बिल्वपत्राण्यमोघानि यो दद्यात्परशक्तये
॥१९॥तस्य दुःखं कदाचिच्च क्वचिच्च न भविष्यति ।
बिल्वपत्रत्रये रक्तचन्दनेन तु संल्लिखेत्
॥२०॥मायाबीजत्रयं यत्नात्सुस्फुटं चातिसुन्दरम् ।
मायाबीजादिकं नाम चतुर्थ्यन्तं समुच्चरेत्
॥२१॥नमोऽन्तं परया भक्त्या देवीचरणपङ्कजे ।
समर्पयेन्महादेव्यै कोमलं तच्च पत्रकम्
॥२२॥य एवं कुरुते भक्त्या मनुत्वं लभते हि सः ।
यस्तु कोटिदलैरेवं कोमलैरतिनिर्मलैः
॥२३॥पूजयेद्भुवनेशानीं ब्रह्माण्डाधिपतिर्भवेत् ।
कुन्दपुष्पैर्नवीनैस्तु लुलितैरष्टगन्धतः
॥२४॥कोटिसङ्ख्यैः पूजयेत्तु प्राजापत्यं लभेद्ध्रुवम् ।
मल्लिकामालतीपुष्पैरष्टगन्धेन लोलितैः
॥२५॥कोटिसङ्ख्यैः पूजया तु जायते स चतुर्मुखः ।
दशकोटिभिरप्येवं तैरेव कुसुमैर्मुने
॥२६॥विष्णुत्वं लभते मर्त्यो यत्सुरेष्वपि दुर्लभम् ।
विष्णुनैतद्व्रतं पूर्वं कृतं स्वपदलब्धये
॥२७॥शतकोटिभिरप्येवं सूत्रात्मत्वं व्रजेद्ध्रुवम् ।
व्रतमेतत्पुरा सम्यक्कृतं भक्त्या प्रयत्नतः
॥२८॥तेन व्रतप्रभावेण हिरण्योदरतां व्रजेत् ।
जपाकुसुमपुष्पस्य बन्धूककुसुमस्य च
॥२९॥दाडिमीकुसुमस्यापि विधिरेष उदीरितः ।
एवमन्यानि पुष्पाणि श्रीदेव्यै विधिनार्पयेत्
॥३०॥तस्य पुण्यफलस्यान्तं न जानातीश्वरोऽपि सः ।
तत्तदृतूद्भवैः पुष्पैर्नामसाहस्रसंख्यया
॥३१॥समर्पयेन्महादेव्यै प्रतिवर्षमतन्द्रितः ।
य एवं कुरुते भक्त्या महापातकसंयुतः
॥३२॥उपपातकयुक्तोऽपि मुच्यते सर्वपातकैः ।
देहान्ते श्रीपदाम्भोजं दुर्लभं देवसत्तमैः
॥३३॥प्राप्नोति साधकवरो मुने नास्त्यत्र संशयः ।
कृष्णागुरुं सकर्पूरं चन्दनेन समन्वितम्
॥३४॥सिल्हकं चाज्यसंयुक्तं गुग्गुलेन समन्वितम् ।
धूपं दद्यान्महादेव्यै येन स्याद्धूपितं गृहम्
॥३५॥तेन प्रसन्ना देवेशी ददाति भुवनत्रयम् ।
दीपं कर्पूरखण्डैश्च दद्याद्देव्यै निरन्तरम्
॥३६॥सूर्यलोकमवाप्नोति नात्र कार्या विचारणा ।
शतदीपांस्तथा दद्यात्सहस्रान्वा समाहितः
॥३७॥नैवेद्यं पुरतो देव्याः स्थापयेत्पर्वताकृतिम् ।
लेह्यैश्चोष्यैस्तथा पेयैः षड्रसैस्तु समाहितैः
॥३८॥नानाफलानि दिव्यानि स्वादूनि रसवन्ति च ।
स्वर्णपात्रस्थितान्नानि दद्याद्देव्यै निरन्तरम्
॥३९॥तृप्तायां श्रीमहादेव्यां भवेत्तृप्तं जगत्त्रयम् ।
यतस्तदात्मकं सर्वं रज्जौ सर्पो यथा तथा
॥४०॥ततः पानीयकं दद्याच्छुभं गङ्गाजलं महत् ।
कर्पूरवालासंयुक्तं शीतलं कलशस्थितम्
॥४१॥ताम्बूलं च ततो देव्यै कर्पूरशकलान्वितम् ।
एलालवङ्गसंयुक्तं मुखसौगन्ध्यदायकम्
॥४२॥दद्याद्देव्यै महाभक्त्या येन देवी प्रसीदति ।
मृदङ्गवीणामुरजढक्कादुन्दुभिनिःस्वनैः
॥४३॥तोषयेज्जगतां धात्रीं गायनैरतिमोहनैः ।
वेदपारायणैः स्तोत्रैः पुराणादिभिरप्युत
॥४४॥छत्रं च चामरे द्वे च दद्याद्देव्यै समाहितः ।
राजोपचारान् श्रीदेव्यै नित्यमेव समर्पयेत्
॥४५॥प्रदक्षिणां नमस्कारं कुर्याद्देव्या अनेकधा ।
क्षमापयेज्जगद्धात्रीं जगदम्बां मुहुर्मुहुः
॥४६॥सकृत्स्मरणमात्रेण यत्र देवी प्रसीदति ।
एतादृशोपचारैश्च प्रसीदेदत्र कः स्मयः
॥४७॥स्वभावतो भवेन्माता पुत्रेऽतिकरुणावती ।
तेन भक्तौ कृतायां तु वक्तव्यं किं ततः परम्
॥४८॥अत्र ते कथयिष्यामि पुरावृत्तं सनातनम् ।
बृहद्रथस्य राजर्षेः प्रियं भक्तिप्रदायकम्
॥४९॥चक्रवाकोऽभवत्पक्षी क्वचिद्देशे हिमालये ।
भ्रमन्नानाविधान्देशान्ययौ काशीपुरं प्रति
॥५०॥अन्नपूर्णामहास्थाने प्रारब्धवशतो द्विजः ।
जगाम लीलया तत्र कणलोभादनाथवत्
॥५१॥कृत्वा प्रदक्षिणामेकां जगाम स विहायसा ।
देशान्तरं विहायैव पुरीं मुक्तिप्रदायिनीम्
॥५२॥कालान्तरे ममारासौ गतः स्वर्गपुरीं प्रति ।
बुभुजे विषयान्सर्वान् दिव्यरूपधरो युवा
॥५३॥कल्पद्वयं तथा भुक्त्वा पुनः प्राप भुवं प्रति ।
क्षत्रियाणां कुले जन्म प्राप सर्वोत्तमोत्तमम्
॥५४॥बृहद्रथेति नाम्नाभूत्प्रसिद्धः क्षितिमण्डले ।
महायज्वा धार्मिकश्च सत्यवादी जितेन्द्रियः
॥५५॥त्रिकालज्ञः सार्वभौमो यमी परपुरञ्जयः ।
पूर्वजन्मस्मृतिस्तस्य वर्तते दुर्लभा भुवि
॥५६॥इति श्रुत्वा किंवदन्तीं मुनयः समुपागताः ।
कृतातिथ्या नृपेन्द्रेण विष्टरेषूषुरेव ते
॥५७॥पप्रच्छुर्मुनयः सर्वे संशयोऽस्ति महान्नृप ।
केन पुण्यप्रभावेण पूर्वजन्मस्मृतिस्तव
॥५८॥त्रिकालज्ञानमेवापि केन पुण्यप्रभावतः ।
ज्ञानं तवेति तज्ज्ञातुमागताः स्म तवान्तिकम्
॥५९॥वद निर्व्याजया वृत्त्या तदस्माकं यथातथम् ।
श्रीनारायण उवाच ।
इति तेषां वचः श्रुत्वा राजा परमधार्मिकः
॥६०॥उवाच सकलं ब्रह्मन् त्रिकालज्ञानकारणम् ।
श्रूयतां मुनयः सर्वे मम ज्ञानस्य कारणम्
॥६१॥चक्रवाकः स्थितः पूर्वं नीचयोनिगतोऽपि वा ।
अज्ञानतोऽपि कृतवानन्नपूर्णाप्रदक्षिणाम्
॥६२॥तेन पुण्यप्रभावेण स्वर्गे कल्पद्वयस्थितिः ।
त्रिकालज्ञानताप्यस्मिन्नभूज्जन्मनि सुव्रताः
॥६३॥को वेद जगदम्बायाः पदस्मृतिफलं कियत् ।
स्मृत्वा तन्महिमानं तु पतन्त्यश्रूणि मेऽनिशम्
॥६४॥धिगस्तु जन्म तेषां वै कृतघ्नानां तु पापिनाम् ।
ये सर्वमातरं देवीं स्वोपास्यां न भजन्ति हि
॥६५॥न शिवोपासना नित्या न विष्णूपासना तथा ।
नित्योपास्तिः परा देव्या नित्या श्रुत्यैव चोदिता
॥६६॥किं मया बहु वक्तव्यं स्थाने संशयवर्जिते ।
सेवनीयं पदाम्भोजं भगवत्या निरन्तरम्
॥६७॥नातः परतरं किञ्चिदधिकं जगतीतले ।
सेवनीया परा देवी निर्गुणा सगुणाथवा
॥६८॥श्रीनारायण उवाच
इति तस्य वचः श्रुत्वा राजर्षेर्धार्मिकस्य च ।
प्रसन्नहृदयाः सर्वे गताः स्वस्वनिकेतनम्
॥६९॥एवंप्रभावा सा देवी तत्पूजायाः फलं कियत् ।
अस्तीति केन प्रष्टव्यं वक्तव्यं वा न केनचित्
॥७०॥येषां तु जन्मसाफल्यं तेषां श्रद्धा तु जायते ।
येषां तु जन्मसाङ्कर्यं तेषां श्रद्धा न जायते
॥७१॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे देवीमाहाम्ये बृहद्रथकथानकं नामाष्टादशोऽध्यायः ॥ १८ ॥