मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — एकादशस्कन्धः, अध्याय १७

3
एकादशस्कन्धः · 17

सन्ध्यादिकृत्यवर्णनम्

श्रीनारायण उवाच

भिन्नपादा तु गायत्री ब्रह्महत्याप्रणाशिनी ।

अभिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति

॥१॥

अच्छिन्नपादागायत्रीजपं कुर्वन्ति ये द्विजाः ।

अथोमुखाश्च तिष्ठन्ति कल्पकोटिशतानि च

॥२॥

सम्पुटैका षडोङ्कारा गायत्री विविधा मता ।

धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत

॥३॥

पञ्चप्रणवसंयुक्तां जपेदित्यनुशासनम् ।

जपसंख्याष्टभागान्ते पादो जप्यस्तुरीयकः

॥४॥

स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात् ।

अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत्

॥५॥

सम्पुटैका षडोङ्कारा भवेत्सा ऊर्ध्वरेतसाम् ।

गृहस्थो ब्रह्मचारी वा मोक्षार्थी तुरीयां जपेत्

॥६॥

तुरीयपादो गायत्र्याः परोरजसे सावदोम् ।

ध्यानमस्य प्रवक्ष्यामि जपसाङ्गफलप्रदम्

॥७॥

हृदि विकसितपद्मं सार्कसोमाग्निबिम्बं प्रणवमयमचिन्त्यं यस्य पीतं प्रकल्प्यम् ।

अचलपरमसूक्ष्मं ज्योतिराकाशसारं भवतु मम मुदेऽसौ सच्चिदानन्दरूपः

॥८॥

त्रिशूलयोनी सुरभिमक्षमालां च लिङ्गकम् ।

अम्बुजं च महामुद्रामिति सप्त प्रदर्शयेत्

॥९॥

या सन्ध्या सैव गायत्री सच्चिदानन्दरूपिणी ।

भक्त्या तां ब्राह्मणो नित्यं पूजयेच्च नमेत्ततः

॥१०॥

ध्यातस्य पूजां कुर्वीत पञ्चभिश्चोपचारकैः ।

लं पृथिव्यात्मने गन्धमर्पयामि नमो नमः

॥११॥

हमाकाशात्मने पुष्पं चार्पयामि नमो नमः ।

यं च वाय्वात्मने धूपं चार्पयामि ततो वदेत्

॥१२॥

रं च वह्न्यात्मने दीपमर्पयामि ततो वदेत् ।

वममृतात्मने तस्मै नैवेद्यमपि चार्पयेत्

॥१३॥

यं रं लं वं हमिति च पुष्पाञ्जलिमथार्पयेत् ।

एवं पूजां विधायाथ चान्ते मुद्राः प्रदर्शयेत्

॥१४॥

ध्यायेत्तु मनसा देवीं मन्त्रमुच्चारयेच्छनैः ।

न कम्पयेच्छिरो ग्रीवा दन्तान्नैव प्रकाशयेत्

॥१५॥

विधिनाष्टोत्तरशतमष्टाविंशतिरेव वा ।

दशवारमशक्तो वा नातो न्यूनं कदाचन

॥१६॥

तत उद्वासयेद्देवीमुत्तमेत्यनुवाकतः ।

न गायत्रीं जपेद्विद्वाञ्जलमध्ये कथञ्चन

॥१७॥

यतः साग्निमुखी प्रोक्तेत्याहुः केचिन्महर्षयः ।

सुरभिर्ज्ञानशूर्पं च कूर्मो योनिश्च पङ्कजम्

॥१८॥

लिङ्गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत् ।

यदक्षरपदभ्रष्टं स्वरव्यञ्जनवर्जितम्

॥१९॥

तत्सर्वं क्षम्यतां देवि कश्यपप्रियवादिनि ।

गायत्रीतर्पणं चातः करणीयं महामुने

॥२०॥

गायत्री छन्द आख्यातं विश्वामित्रऋषिः स्मृतः ।

सविता देवता प्रोक्ता विनियोगश्च तर्पणे

॥२१॥

भूरित्युक्त्वा च ऋग्वेदपुरुषं तर्पयामि च ।

भुव इत्येतदुक्त्वा च यजुर्वेदमथो वदेत्

॥२२॥

स्वर्व्याहृतिं समुक्त्वा च सामवेदं समुच्चरेत् ।

मह इत्येतदुक्त्वान्तेऽथर्ववेदं च तर्पयेत्

॥२३॥

जनः पदान्त इतिहासपुराणमितीरयेत् ।

तपः सर्वागमं चैव पुरुषं तर्पयामि च

॥२४॥

सत्यं च सत्यलोकाख्यपुरुषं तर्पयामि च ।

ॐ भूर्भूर्लोकपुरुषं तर्पयामि ततो वदेत्

॥२५॥

भुवश्चेति भुवर्लोकपुरुषं तर्पयामि च ।

स्वः स्वर्गलोकपुरुषं तर्पयामि ततः परम्

॥२६॥

ॐभूरेकपदा नाम गायत्रीं तर्पयामि च ।

भुवो द्विपदां गायत्रीं तर्पयामीति कीर्तयेत्

॥२७॥

स्वश्च त्रिपदां गायत्रीं तर्पयामि ततो वदेत् ।

ॐभूर्भुवः स्वश्चेति तथा गायत्रीं च चतुष्पदाम्

॥२८॥

उषसीं चैव गायत्रीं सावित्रीं च सरस्वतीम् ।

वेदानां मातरं पृथ्वीमजां चैव तु कौशिकीम्

॥२९॥

साङ्कृतिं वै सार्वजितिं गायत्रीं तर्पणे वदेत् ।

तर्पणान्ते च शान्त्यर्थं जातवेदसमीरयेत्

॥३०॥

मानस्तोकेति मन्त्रं च शान्त्यर्थं प्रजपेत्सुधीः ।

ततोऽपि त्र्यम्बको मन्त्रः शान्त्यर्थः परिकीर्तितः

॥३१॥

तच्छंयोरिति मन्त्रं च जपेच्छान्त्यर्थमेव तु ।

अतो देवा इति द्वाभ्यां सर्वाङ्गस्पर्शनं चरेत्

॥३२॥

स्योनापृथिविमन्त्रेण भूम्यै कुर्यात्प्रणामकम् ।

यथाविधि च गोत्रादीनुच्चरेद्द्विजसत्तमः

॥३३॥

एवं विधानं सन्ध्यायाः प्रातःकाले प्रकीर्तितम् ।

सन्ध्याकर्म समाप्यान्तेऽप्यग्निहोत्रं स्वयं हुनेत्

॥३४॥

पञ्चायतनपूजां च ततः कुर्यात्समाहितः ।

शिवां शिवं गणपतिं सूर्यं विष्णुं तथार्चयेत्

॥३५॥

पौरुषेण तु सूक्तेन व्याहृत्या वा समाहितः ।

मूलमन्त्रेण वा कुर्याद्ह्रीश्च ते इति मन्त्रतः

॥३६॥

भवानीं तु यजेन्मध्ये तथैशान्यां तु माधवम् ।

आग्नेय्यां गिरिजानाथं गणेशं रक्षसां दिशि

॥३७॥

वायव्यामर्चयेत्सूर्यमिति देवस्थितिक्रमः ।

षोडशानुपचारांश्च षोडशर्ग्भिर्हरेन्नरः

॥३८॥

देवीमभ्यर्च्य पुरतो यजेदन्याननुक्रमात् ।

न देवीपूजनात्पुण्यमधिकं क्वचिदीक्ष्यते

॥३९॥

अत एव तु सन्ध्यासु सन्ध्योपास्तिः श्रुतीरिता ।

नाक्षतैरर्चयेर्द्विष्णुं न तुलस्या गणेश्वरम्

॥४०॥

दूर्वाभिर्नार्चयेद्दुर्गां केतकैर्न महेश्वरम् ।

मल्लिकाजातिकुसुमं कुटजं पनसं तथा

॥४१॥

किंशुकं बकुलं कुन्दं लोध्रं तु करवीरकम् ।

शिंशपाऽपराजितापुष्पं बब्धूकागस्त्यपुष्पके

॥४२॥

मदन्तं सिन्दुवारं च पालाशकुसुमं तथा ।

दूर्वाङ्कुरं बिल्वदलं कुशमञ्जरिकां तथा

॥४३॥

शल्लकीमाधवीपुष्पमर्कमन्दारपुष्पकम् ।

केतकीं कर्णिकारं च कदम्बकुसुमं तथा

॥४४॥

पुन्नागश्चम्पकस्तद्वद्यूथिकातगरौ तथा ।

एवमादीनि पुष्पाणि देवीप्रियकराणि च

॥४५॥

गुग्गुलस्य भवेद्धूपो दीपः स्यात्तिलतैलतः ।

कृत्वेत्थं देवतापूजां ततो मूलमनुं जपेत्

॥४६॥

एवं पूजां समाप्यैव वेदाभ्यासं चरेद्बुधः ।

ततः स्ववृत्त्या कुर्वीत पोष्यवर्गार्थसाधनम् ।

तृतीयदिनभागे तु नियमेन विचक्षणः

॥४७॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे सन्ध्यादिकृत्यवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥