मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — दशमस्कन्धः, अध्याय ७

3
दशमस्कन्धः · 7

विन्ध्यवृद्ध्यवरोधवर्णनम्

सूत उवाच

इति वाक्यं समाकर्ण्य विबुधानां द्विजोत्तमः ।

करिष्ये कार्यमेतद्वः प्रत्युवाच ततो मुनिः

॥१॥

अङ्गीकृते तदा कार्ये मुनिना कुम्भजन्मना ।

देवाः प्रमुदिताः सर्वे बभूबुर्द्विजसत्तमाः

॥२॥

ते देवाः स्वानि धिष्ण्यानि भेजिरे मुनिवाक्यतः ।

पत्नीं मुनिवरः श्रीमानुवाच नृपकन्यकाम्

॥३॥

अये नृपसुते प्राप्तो विघ्नोऽनर्थस्य कारकः ।

भानुमार्गनिरोधेन कृतो विन्ध्यमहीभृता

॥४॥

आज्ञातं कारणं तच्च स्मृतं वाक्यं पुरातनम् ।

काशीमुद्दिश्य यद्गीतं मुनिभिस्तत्त्वदर्शिभिः

॥५॥

अविमुक्तं न मोक्तव्यं सर्वथैव मुमुक्षुभिः ।

किन्तु विघ्ना भविष्यन्ति काश्यां निवसतां सताम्

॥६॥

सोऽन्तरायो मया प्राप्तः काश्यां निवसता प्रिये ।

इत्येवमुक्त्वा भार्यां तां मुनिः परमतापनः

॥७॥

मणिकर्ण्यां समाप्लुत्य दृष्ट्वा विश्वेश्वरं विभुम् ।

दण्डपाणिं समभ्यर्च्य कालराजं समागतः

॥८॥

कालराज महाबाहो भक्तानां भयहारक ।

कथं दूरयसे पुर्याः काशीपुर्यास्त्वमीश्वरः

॥९॥

त्वं काशीवासविघ्नानां नाशको भक्तरक्षकः ।

मां किं दूरयसे स्वामिन् भक्तार्तिविनिवारक

॥१०॥

परापवादो नोक्तो मे न पैशुन्यं न चानृतम् ।

केन कर्मविपाकेन काश्या दूरं करोषि माम्

॥११॥

एवं प्रार्थ्य च तं कालनाथं कुम्भोद्भवो मुनिः ।

जगाम साक्षिविघ्नेशं सर्वविघ्ननिवारणम्

॥१२॥

तं दृष्ट्वाभ्यर्च्य सम्प्रार्थ्य ततः पुर्या विनिर्गतः ।

लोपामुद्रापतिः श्रीमानगस्त्यो दक्षिणां दिशम्

॥१३॥

काशीविरहसन्तप्तो महाभाग्यनिधिर्मुनिः ।

संस्मृत्यानुक्षणं काशीं जगाम सह भार्यया

॥१४॥

तपोयानमिवारुह्य निमिषार्धेन वै मुनिः ।

अग्रे ददर्श तं विन्ध्यं रुद्धाम्बरमथोन्नतम्

॥१५॥

चकम्पे चाचलस्तूर्णं दृष्ट्वैवाग्रे स्थितं मुनिम् ।

गिरिः खर्वतरो भूत्वा विवक्षुरवनीमिव

॥१६॥

दण्डवत्पतितो भूमौ साष्टाङ्गं भक्तिभावितः ।

तं दृष्ट्वा नम्रशिखरं विन्ध्यं नाम महागिरिम्

॥१७॥

प्रसन्नवदनोऽगस्त्यो मुनिर्विन्ध्यमथाब्रवीत् ।

वत्सैवं तिष्ठ तावत्त्वं यावदागम्यते मया

॥१८॥

अशक्तोऽहं गण्डशैलारोहणे तव पुत्रक ।

एवमुक्त्वा मुनिर्याम्यदिशं प्रति गमोत्सुकः

॥१९॥

आरुह्य तस्य शिखराण्यवारुहदनुक्रमात् ।

गतो याम्यदिशं चापि श्रीशैलं प्रेक्ष्य वर्त्मनि

॥२०॥

मलयाचलमासाद्य तत्राश्रमपरोऽभवत् ।

सापि देवी तत्र विन्ध्यमागता मनुपूजिता

॥२१॥

लोकेषु प्रथिता विन्ध्यवासिनीति च शौनक ।

सूत उवाच ।

एतच्चरित्रं परमं शत्रुनाशनमुत्तमम्

॥२२॥

अगस्त्यविन्ध्यनगयोराख्यानं पापनाशनम् ।

राज्ञां विजयदं तच्च द्विजानां ज्ञानवर्धनम्

॥२३॥

वैश्यानां धान्यधनदं शूद्राणां सुखदं तथा ।

धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात्

॥२४॥

कामानवाप्नुयात्कामी भक्त्या चास्य सकृच्छ्रवात् ।

एवं स्वायम्भुवमनुर्देवीमाराध्य भक्तितः

॥२५॥

लेभे राज्यं धरायाश्च निजमन्वन्तराश्रयम् ।

इत्येतद्वर्णितं सौम्य मया मन्वन्तराश्रितम् ।

आद्यं चरित्रं श्रीदेव्याः किं पुनः कथयामि ते

॥२६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे विन्ध्यवृद्ध्यवरोधवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥