मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — दशमस्कन्धः, अध्याय ३

3
दशमस्कन्धः · 3

देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम्

सूतउवाच

एवं समुपदिश्यायं देवर्षिः परमः स्वराट् ।

जगाम ब्रह्मणो लोकं स्वैरचारी महामुनिः

॥१॥

गते मुनिवरे विन्ध्यश्चिन्तां लेभेऽनपायिनीम् ।

नैव शान्तिं स लेभे च सदान्तःकृतशोचनः

॥२॥

कथं किं त्वत्र मे कार्यं कथं मेरुं जयाम्यहम् ।

नैव शान्तिं लभे नापि स्वास्थ्यं मे मानसे भवेत्

॥३॥

(धिगुत्साहं च मानं च धिङ्मे कीर्तिं च धिक्कुलम्) धिग्बलं मे पौरुषं धिक् स्मृतं पूर्वैर्महात्मभिः ।

एवं चिन्तयमानस्य विन्ध्यस्य मनसि स्फुटम्

॥४॥

प्रादुर्भूता मतिः कार्ये कर्तव्ये दोषकारिणी ।

मेरुप्रदक्षिणां कुर्वन्नित्यमेव दिवाकरः

॥५॥

सग्रहर्क्षगणोपेतः सदा दृप्यत्ययं नगः ।

तस्य मार्गस्य संरोधं करिष्यामि निजैः करैः

॥६॥

तदा निरुद्धो द्युमणिः परिक्रामेत्कथं नगम् ।

एवं मार्गे निरुद्धे तु मया दिनकरस्य च

॥७॥

भग्नदर्पो दिव्यनगो भविष्यति विनिश्चयम् ।

एवं निश्चित्य विन्ध्याद्रिः खं स्पृशन् ववृधे भुजैः

॥८॥

महोन्नतैः शृङ्गवरैः सर्वं व्याप्य व्यवस्थितः ।

कदोदेष्यति भास्वांस्तं रोधयिष्याम्यहं कदा

॥९॥

एवं सञ्चिन्तयानस्य सा व्यतीयाय शर्वरी ।

प्रभातं विमलं जज्ञे दिशो वितिमिराः करैः

॥१०॥

कुर्वन्स निर्गतो भानुरुदयायोदये गिरौ ।

प्रकाशते स्म विमलं नभो भानुकरैः शुभैः

॥११॥

विकासं नलिनी भेजे मीलनं च कुमुद्वती ।

स्वानि कार्याणि सर्वे च लोकाः समुपतस्थिरे

॥१२॥

हव्यं कव्यं भूतबलिं देवानां च प्रवर्धयन् ।

प्राह्णापराह्णमध्याह्नविभागेन त्विषां पतिः

॥१३॥

एवं प्राचीं तथाग्नेयीं समाश्वास्य वियोगिनीम् ।

ज्वलन्तीं चिरकालीनविरहादिव कामिनीम्

॥१४॥

भास्करोऽथ कृशानोश्च दिशं नूनं विहाय च ।

याम्यां गन्तुं ततस्तूर्णं प्रतस्थे कमलाकरः

॥१५॥

न शशाकाग्रतो गन्तुं ततोऽनूरुर्व्यजिज्ञपत् ।

अनूरुरुवाच ।

भानो मानोन्नतो विन्ध्यो निरुध्य गगनं स्थितः

॥१६॥

स्पर्धते मेरुणा प्रेप्सुस्त्वद्दत्तां च प्रदक्षिणाम् ।

सूत उवाच ।

अनूरुवाक्यमाकर्ण्य सविता ह्यास चिन्तयन्

॥१७॥

अहो गगनमार्गोऽपि रुध्यते चातिविस्मयः ।

प्रायः शूरो न किं कुर्यादुत्पथे वर्त्मनि स्थितः

॥१८॥

निरुद्धो नो वाजिमार्गो दैवं हि बलवत्तरम् ।

राहुबाहुग्रहव्यग्रो यः क्षणं नावतिष्ठते

॥१९॥

स चिरं रुद्धमार्गोऽपि किं करोति विधिर्बली ।

एवं च मार्गे संरुद्धे लोकाः सर्वे च सेश्वराः

॥२०॥

नान्वविन्दन्त शरणं कर्तव्यं नान्वपद्यत ।

चित्रगुप्तादयः सर्वे कालं जानन्ति सूर्यतः

॥२१॥

संरुद्धो विन्ध्यगिरिणा अहो दैवविपर्ययः ।

यदा निरुद्धः सविता गिरिणा स्पर्धया तदा

॥२२॥

नष्टः स्वाहास्वधाकारो नष्टप्रायमभूज्जगत् ।

एवं च पाश्चिमा लोका दाक्षिणात्यास्तथैव च

॥२३॥

निद्रामीलितचक्षुष्का निशामेव प्रपेदिरे ।

प्राञ्चस्तथोत्तराहाश्च तीक्ष्णतापप्रतापिताः

॥२४॥

मृता नष्टाश्च भग्नाश्च विनाशमभजन् प्रजाः ।

हाहाभूतं जगत्सर्वं स्वधाकव्यविवर्जितम् ।

देवाः सेन्द्राः समुद्विग्नाः किं कुर्म इतिवादिनः

॥२५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥