चाक्षुषमनुवृत्तवर्णनम्
श्रीनारायण उवाच
अथातः श्रूयतां चित्रं देवीमाहाक्त्यमुत्तमम् ।
अङ्गपुत्रेण मनुना यथाऽऽप्तं राज्यमुत्तमम्
॥१॥अङ्गस्य राज्ञः पुत्रोऽभूच्चाक्षुषो मनुरुत्तमः ।
षष्ठः सुपुलहं नाम ब्रह्मर्षिं शरणं गतः
॥२॥ब्रह्मर्षे त्वामहं प्राप्तः शरणं प्रणतार्तिहन् ।
शाधि मां किङ्करंस्वामिन् येनाहं प्राप्नुयां श्रियम्
॥३॥मेदिन्याश्चाधिपत्यं मे स्याद्यथावदखण्डितम् ।
अव्याहतं भुजबलं शस्त्रास्त्रनिपुणं क्षमम्
॥४॥सन्ततिश्चिरकालीनाप्यखण्डं वय उत्तमम् ।
अन्तेऽपवर्गलाभश्च स्यात्तथोपदिशाद्य मे
॥५॥इत्येवं वचनं तस्य मनोः कर्णपथेऽभवत् ।
प्रत्युवाच मुनिः श्रीमान् देव्याः संराधनं परम्
॥६॥राजन्नाकर्णय वचो मम श्रोत्रसुखं महत् ।
शिवामाराधयाद्य त्वं तत्प्रसादादिदं भवेत्
॥७॥चाक्षुष उवाच
कीदृगाराधनं देव्यास्तस्याः परमपावनम् ।
केनाकारेण कर्तव्यं कारुण्याद्वक्तुमर्हसि
॥८॥मुनिरुवाच
राजन्नाकर्ण्यतां देव्याः पूजनं परमव्ययम् ।
वाग्भवं बीजमव्यक्तं सञ्जप्यमनिशं तथा
॥९॥त्रिकालं सञ्जपन्मर्त्यो भुक्तिमुक्ती लभेत्तु हि ।
न बीजं वाग्भवादन्यदस्ति राजन्यनन्दन
॥१०॥जपात्सिद्धिकरं वीर्यबलवृद्धिकरं परम् ।
एतस्य जापात्पाद्मोऽपि सृष्टिकर्ता महाबलः
॥११॥विष्णुर्यज्जपतः सृष्टिपालकः परिकीर्तितः ।
महेश्वरोऽपि संहर्ता यज्जपादभवन्नृप
॥१२॥लोकपालास्तथान्येऽपि निग्रहानुग्रहक्षमाः ।
यदाश्रयादभूवंस्ते बलवीर्यमदोद्धताः
॥१३॥एवं त्वमपि राजन्य महेशीं जगदम्बिकाम् ।
समाराध्य महर्द्धिं च लप्स्यसेऽचिरकालतः
॥१४॥एवं स मुनिवर्येण पुलहेन प्रबोधितः ।
अङ्गपुत्रस्तपस्तप्तुं जगाम विरजां नदीम्
॥१५॥स च तेपे तपस्तीव्रं वाग्भवस्य जपे रतः ।
बीजस्य पृथिवीपालः शीर्णपर्णाशनो विभुः
॥१६॥प्रथमेऽब्दे पल्लवाशो द्वितीये तोयभक्षणः ।
तृतीयेऽब्दे पवनभुक् तस्थौ स्थाणुरिवाचलः
॥१७॥एवं द्वादश वर्षाणि त्यक्ताहारस्य भूभुजः ।
वाग्भवं जपतो नित्यं मतिरासीच्छुभान्विता
॥१८॥तथा च देव्याः परमं मन्त्रं सज्जपतो रहः ।
प्रादुरासीज्जगन्माता साक्षाच्छ्रीपरमेश्वरी
॥१९॥तेजोमयी दुराधर्षा सर्वदेवमयीश्वरी ।
उवाचाङ्गतनूजं तं प्रसन्ना ललिताक्षरम्
॥२०॥देव्युवाच
पृथिवीपाल ते यत्स्याच्चिन्तितं परमं वरम् ।
तद् ब्रूहि सम्प्रदास्यामि तपसा ते सुतोषिता
॥२१॥चाक्षुष उवाच
जानासि देवदेवेशि यत्प्रार्थ्यं मनसेप्सितम् ।
अन्तर्यामिस्वरूपेण तत्सर्वं देवपूजिते
॥२२॥तथापि मम भाग्येन जातं यत्तव दर्शनम् ।
ब्रवीमि देवि मे देहि राज्यं मन्वन्तराश्रितम्
॥२३॥देव्युवाच
दत्तं मन्वन्तरस्यास्य राज्यं राजन्यसत्तम ।
पुत्रा महाबलास्ते च भविष्यन्ति गुणाधिकाः
॥२४॥राज्यं निष्कण्टकं भावि मोक्षोऽन्ते चापि निश्चितः ।
एवं दत्त्वा परं देवी मनवे वरमुत्तमम्
॥२५॥जगामादर्शनं सद्यस्तेन भक्त्या च संस्तुता ।
सोऽपि राजा मनुः षष्ठः प्रसादात्तु तदाश्रयात्
॥२६॥बभूव मनुमान्योऽसौ सार्वभौमसुखैर्वृतः ।
पुत्रास्तस्य बलोद्युक्ताः कार्यभारसहादृताः
॥२७॥देवीभक्ताश्च शूराश्च महाबलपराक्रमाः ।
अन्यत्र माननीयाश्च महाराज्यसुखास्पदाः
॥२८॥एवं च चाक्षुषमनुर्देव्याराधनतः प्रभुः ।
बभूव मनुवर्योऽसौ जगामान्ते शिवापदम्
॥२९॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीचरित्रे चाक्षुषमनुवृत्तवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥