मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — दशमस्कन्धः, अध्याय २

3
दशमस्कन्धः · 2

विन्ध्योपाख्यानवर्णनम्

श्रीदेव्युवाच

भूमिपाल महाबाहो सर्वमेतद्भविष्यति ।

यत्त्वया प्रार्थितं तत्ते ददामि मनुजाधिप

॥१॥

अहं प्रसन्ना दैत्येन्द्रनाशनामोघविक्रमा ।

वाग्भवस्य जपेनैव तपसा ते सुनिश्चितम्

॥२॥

राज्यं निष्कण्टकं तेऽस्तु पुत्रा वंशकरा अपि ।

मयि भक्तिर्दृढा वत्स मोक्षान्ते सत्पदे भवेत्

॥३॥

एवं वरान्महादेवी तस्मै दत्त्वा महात्मने ।

पश्यतस्तु मनोरेव जगाम विन्ध्यपर्वतम्

॥४॥

योऽसौ विन्ध्याचलो रुद्धः कुम्भोद्भवमहर्षिणा ।

भानुमार्गावरोधार्थं प्रवृत्तो गगनं स्पृशन्

॥५॥

सा विन्ध्यवासिनी विष्णोरनुजा वरदेश्वरी ।

बभूव पूज्या लोकानां सर्वेषां मुनिसत्तम

॥६॥

ऋषय ऊचुः

कोऽसौ विन्ध्याचलः सूत किमर्थं गगनं स्पृशन् ।

भानुमार्गावरोधं च किमर्थं कृतवानसौ

॥७॥

कथं च मैत्रावरुणिः पर्वतं तं महोन्नतम् ।

प्रकृतिस्थं चकारेति सर्वं विस्तरतो वद

॥८॥

न हि तृप्यामहे साधो त्वदास्यगलितामृतम् ।

देव्याश्चरित्ररूपाख्यं पीत्वा तृष्णा प्रवर्धते

॥९॥

सूत उवाच

आसीद्विन्ध्याचलो नाम मान्यः सर्वधराभृताम् ।

महावनसमूहाढ्यो महापादपसंवृतः

॥१०॥

सुपुष्पितैरनेकैश्च लतागुल्मैस्तु संवृतः ।

मृगा वराहा महिषा व्याघ्राः शार्दूलका अपि

॥११॥

वानराः शशका ऋक्षाः शृगालाश्च समन्ततः ।

विचरन्ति सदा हृष्टा पुष्टा एव महोद्यमाः

॥१२॥

नदीनदजलाक्रान्तो देवगन्धर्वकिन्नरैः ।

अप्सरोभिः किम्पुरुषैः सर्वकामफलद्रुमैः

॥१३॥

एतादृशे विन्ध्यनगे कदाचित्पर्यटन् महीम् ।

देवर्षिः परमप्रीतो जगाम स्वेच्छया मुनिः

॥१४॥

तं दृष्ट्वा स नगो मङ्क्षु तूर्णमुत्थाय सम्भ्रमात् ।

पाद्यमर्घ्यं तथा दत्त्वा वरासनमथार्पयत्

॥१५॥

सुखोपविष्टं देवर्षिं प्रसन्नं नग ऊचिवान् ।

विन्ध्य उवाच ।

देवर्षे कथ्यतां जात आगमः कुत उत्तमः

॥१६॥

तवागमनतो जातमनर्घ्यं मम मन्दिरम् ।

तव चङ्क्रमणं देवाभयार्थं हि यथा रवेः

॥१७॥

अपूर्वं यन्मनोवृत्तं तद् ब्रूहि मम नारद ।

नारद उवाच ।

ममागमनमिन्द्रारे जातं स्वर्णगिरेरथ

॥१८॥

तत्र दृष्टा मया लोकाः शक्राग्नियमपाशिनाम् ।

सर्वेषां लोकपालानां भवनानि समन्ततः

॥१९॥

मया दृष्टानि विन्ध्याग नानाभोगप्रदानि च ।

इति चोक्त्वा ब्रह्मयोनिः पुनरुच्छ्वासमाविशत्

॥२०॥

उच्छ्वसन्तं मुनिं दृष्ट्वा पुनः पप्रच्छ शैलराट् ।

उच्छ्वासकारणं किं तद् ब्रूहि देवऋषे मम

॥२१॥

इत्याकर्ण्य नगस्योक्तं देवर्षिरमितद्युतिः ।

अब्रवीच्छ्रूयतां वत्स ममोच्छ्वासस्य कारणम्

॥२२॥

गौरीगुरुस्तु हिमवाञ्छिवस्य श्वशुरः किल ।

सम्बन्धित्वात्पशुपतेः पूज्य आसीत्क्षमाभृताम्

॥२३॥

एवमेव च कैलासः शिवस्यावसथः प्रभुः ।

पूज्यः पृथ्वीभृतां जातो लोके पापौघदारणः

॥२४॥

निषधः पर्वतो नीलो गन्धमादन एव च ।

पूज्याः स्वस्थानमासाद्य सर्व एव क्षमाभृतः

॥२५॥

यं पर्येति च विश्वात्मा सहस्रकिरणः स्वराट् ।

सग्रहर्क्षगणोपेतः सोऽयं कनकपर्वतः

॥२६॥

आत्मानं मनुते श्रेष्ठं वरिष्ठं च धराभृताम् ।

सर्वेषामहमेवाग्र्यो नास्ति लोकेषु मत्समः

॥२७॥

एवंमानाभिमानं तं स्मृत्वोच्छ्वासो मयोज्झितः ।

अस्तु नैतावता कृत्यं तपोबलवतां नग ।

प्रसङ्गतो मयोक्तं ते गमिष्यामि निजं गृहम्

॥२८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे विन्ध्योपाख्यानवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥