मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १२

3
चतुर्थस्कन्धः · 12

जयन्त्या शुक्रसहवासवर्णनम्

व्यास उवाच

तं दृष्ट्वा तु वधं घोरं चुक्रोध भगवान्भृगुः ।

वेपमानोऽतिदुःखार्तः प्रोवाच मधुसूदनम्

॥१॥

भृगुरुवाच

अकृत्यं ते कृतं विष्णो जानन्पापं महामते ।

वधोऽयं विप्रजाताया मनसा कर्तुमक्षमः

॥२॥

आख्यातस्त्वं सत्त्वगुणः स्मृतो ब्रह्मा च राजसः ।

तथासौ तामसः शम्भुर्विपरीतं कथं स्मृतम्

॥३॥

तामसस्त्वं कथं जातः कृतं कर्मातिनिन्दितम् ।

अवध्या स्त्री त्वया विष्णो हता कस्मान्निरागसा

॥४॥

शपामि त्वां दुराचारं किमन्यत्प्रकरोमि ते ।

विधुरोऽहं कृतः पाप त्वयाहं शक्रकारणात्

॥५॥

न शपेऽहं तथा शक्रं शपे त्वां मधुसूदन ।

सदा छलपरोऽसि त्वं कीटयोनिर्दुराशयः

॥६॥

ये च त्वां सात्त्विकं प्राहुस्ते मूर्खा मुनयः किल ।

तामसस्त्वं दुराचारः प्रत्यक्षं मे जनार्दन

॥७॥

अवतारा मृत्युलोके सन्तु मच्छापसम्भवाः ।

प्रायो गर्भभवं दुःखं भुंक्ष्व पापाज्जनार्दन

॥८॥

व्यास उवाच

ततस्तेनाथ शापेन नष्टे धर्मे पुनः पुनः ।

लोकस्य च हितार्थाय जायते मानुषेष्विह

॥९॥

राजोवाच

भूगुभार्या हता तत्र चक्रेणामिततेजसा ।

गार्हस्थ्यञ्च पुनस्तस्य कथं जातं महात्मनः

॥१०॥

व्यास उवाच

इति शप्त्वा हरिं रोषात्तदादाय शिरस्त्वरन् ।

काये संयोज्य तरसा भृगुः प्रोवाच कार्यवित्

॥११॥

अद्य त्वां विष्णुना देवि हतां सञ्जीवयाम्यहम् ।

यदि कृत्स्नो मया धर्मो ज्ञायते चरितोऽपि वा

॥१२॥

तेन सत्येन जीवेत यदि सत्यं ब्रवीम्यहम् ।

पश्यन्तु देवताः सर्वा मम तेजोबलं महत्

॥१३॥

अद्भिस्त्वां प्रोक्ष्य शीताभिर्जीवयामि तपोबलात् ।

सत्यं शौचं तथा वेदा यदि मे तपसो बलम्

॥१४॥

व्यास उवाच

अद्भिः सम्प्रोक्षिता देवी सद्यः सञ्जीविता तदा ।

उत्थिता परमप्रीता भृगोर्भार्या शुचिस्मिता

॥१५॥

ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव ।

साधु साध्विति तं तां तु तुष्टुवुः सर्वतो दिशम्

॥१६॥

एवं सञ्चीविता तेन भृगुणा वरवर्णिनी ।

विस्मयं परमं जग्मुर्देवाः सेन्द्रा विलोक्य तत्

॥१७॥

इन्द्रः सुरानथोवाच मुनिना जीविता सती ।

काव्यस्तप्त्वा तपो घोरं किं करिष्यति मन्त्रवित्

॥१८॥

व्यास उवाच

गता निद्रा सुरेन्द्रस्य देहेऽक्षेममभून्नृप ।

स्मृत्वा काव्यस्य वृत्तान्तं मन्त्रार्थमतिदारुणम्

॥१९॥

विमृश्य मनसा शक्रो जयन्तीं स्वसुतां तदा ।

उवाच कन्यां चार्वङ्गीं स्मितपूर्वमिदं वचः

॥२०॥

गच्छ पुत्रि मया दत्ता काव्याय त्वं तपस्विने ।

समाराधय तन्वङ्गि मत्कृते तं वशं कुरु

॥२१॥

उपचारैर्मुनिं तैस्तैः समाराध्य मनःप्रियैः ।

भयं मे तरसा गत्वा हर तत्र वराश्रमे

॥२२॥

सा पितुर्वचनं श्रुत्वा तत्रागच्छन्मनोरमा ।

तमपश्यद्विशालाक्षी पिबन्तं धूममाश्रमे

॥२३॥

तस्य देहं समालोक्य स्मृत्वा वाक्यं पितुस्तदा ।

कदलीदलमादाय वीजयामास तं मुनिम्

॥२४॥

निर्मलं शीतलं वारि समानीय सुवासितम् ।

पानाय कल्पयामास भक्त्या परमया लघु

॥२५॥

छायां वस्त्रातपत्रेण भास्करे मध्यगे सति ।

रचयामास तन्वङ्गी स्वयं धर्मे स्थिता सती

॥२६॥

फलान्यानीय दिव्यानि पक्वानि मधुराणि च ।

मुमोचाग्रे मुनेस्तस्य भक्षार्थं विहितानि च

॥२७॥

कुशाः प्रादेशमात्रा हि हरिताः शुकसन्निभाः ।

दधाराग्रेऽथ पुष्पाणि नित्यकर्मसमृद्धये

॥२८॥

निद्रार्थं कल्पयामास संस्तरं पल्लवान्वितम् ।

तस्मिन्मुनौ चादरस्था चकार व्यजनं शनैः

॥२९॥

हावभावादिकं किञ्चिद्विकारजननं च तत् ।

न चकार जयन्ती सा शापभीता मुनेस्तदा

॥३०॥

स्तुतिं चकार तन्वङ्गी गीर्भिस्तस्य महात्मनः ।

सुभाषिण्यनुकूलाभिः प्रीतिकर्त्रीभिरप्युत

॥३१॥

प्रबुद्धे जलमादाय दधाराचमनाय च ।

मनोऽनुकूलं सततं कुर्वन्ती व्यचरत्तदा

॥३२॥

इन्द्रोऽपि सेवकांस्तत्र प्रेषयामास चातुरः ।

प्रवृत्तिं ज्ञातुकामो वै मुनेस्तस्य जितात्मनः

॥३३॥

एवं बहूनि वर्षाणि परिचर्यापराभवत् ।

निर्विकारा जितक्रोधा ब्रह्मचर्यपरा सती

॥३४॥

पूर्णे वर्षसहस्रे तु परितुष्टो महेश्वरः ।

वरेण छन्दयामास काव्यं प्रीतमना हरः

॥३५॥

ईश्वर उवाच

यच्च किञ्चिदपि ब्रह्मन्विद्यते भृगुनन्दन ।

प्रतिपश्यसि यत्सर्वं यच्च वाच्यं न कस्यचित्

॥३६॥

सर्वाभिभावकत्वेन भविष्यसि न संशयः ।

अवध्यः सर्वभूतानां प्रजेशश्च द्विजोत्तमः

॥३७॥

व्यास उवाच

एवं दत्त्वा वराञ्छम्भुस्तत्रैवान्तरधीयत ।

काव्यस्तामथ संवीक्ष्य जयन्तीं वाक्यमब्रवीत्

॥३८॥

कासि कस्यासि सुश्रोणि ब्रूहि किं ते चिकीर्षितम् ।

किमर्थमिह सम्प्राप्ता कार्यं वद वरोरु मे

॥३९॥

किं वाञ्छसि करोम्यद्य दुष्करं चेत्सुलोचने ।

प्रीतोऽस्मि त्वत्कृतेनाद्य वरं वरय सुव्रते

॥४०॥

ततः सा तु मुनिं प्राह जयन्ती मुदितानना ।

चिकीर्षितं मे भगवंस्तपसा ज्ञातुमर्हसि

॥४१॥

शुक्र उवाच

ज्ञातं मया तथापि त्वं ब्रूहि यन्मनसेप्सितम् ।

करोमि सर्वथा भद्रं प्रीतोऽस्मि परिचर्यया

॥४२॥

जयन्त्युवाच

शक्रस्याहं सुता ब्रह्मन् पित्रा तुभ्यं समर्पिता ।

जयन्ती नामतश्चाहं जयन्तावरजा मुने

॥४३॥

सकामास्मि त्वयि विभो वाञ्छितं कुरु मेऽधुना ।

रंस्ये त्वया महाभाग धर्मतः प्रीतिपूर्वकम्

॥४४॥

शुक्र उवाच

मया सह त्वं सुश्रोणि दशवर्षाणि भामिनि ।

सर्वैर्भूतैरदृश्या च रमस्वेह यदृच्छया

॥४५॥

व्यास उवाच

एवमुक्त्वा गृहं गत्वा जयन्त्याः पाणिमुद्वहन् ।

तया सहावसद्देव्या दशवर्षाणि भार्गवः

॥४६॥

अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः ।

दैत्यास्तमागतं श्रुत्वा कृतार्थं मन्त्रसंयुतम्

॥४७॥

अभिजग्मुर्गृहे तस्य मुदितास्ते दिदृक्षवः ।

नापश्यन् रममाणं ते जयन्त्या सह संयुतम्

॥४८॥

तदा विमनसः सर्वे जाता भग्नोद्यमाश्च ते ।

चिन्तापरातिदीनाश्च वीक्षमाणाः पुनः पुनः

॥४९॥

अदृष्ट्वा तं तु संवृत्तं प्रतिजग्मुर्यथागतम् ।

स्वगृहान्दैत्यवर्यास्ते चिन्ताविष्टा भयातुराः

॥५०॥

रममाणं तथा ज्ञात्वा शक्रः प्रोवाच तं गुरुम् ।

बृहस्पतिं महाभाग किं कर्तव्यमितः परम्

॥५१॥

गच्छाद्य दानवान्ब्रह्मन्मायया त्वं प्रलोभय ।

अस्माकं कुरु कार्यं त्वं बुद्ध्या सञ्चिन्त्य मानद

॥५२॥

तच्छ्रुत्वा वचनं काव्यं रममाणं सुसंवृतम् ।

ज्ञात्वा तद्रूपमास्थाय दैत्यान्मति ययौ गुरुः

॥५३॥

गत्वा तत्रातिभक्त्यासौ दानवान्समुपाह्वयत् ।

आगतास्तेऽसुराः सर्वे ददृशुः काव्यमग्रतः

॥५४॥

प्रणम्य संस्थिताः सर्वे काव्यं मत्वातिमोहिताः ।

न विदुस्ते गुरोर्मायां काव्यरूपविभाविनीम्

॥५५॥

तानुवाच गुरुः काव्यरूपः प्रच्छन्नमायया ।

स्वागतं मम याज्यानां प्राप्तोऽहं वो हिताय वै

॥५६॥

अहं वो बोधयिष्यामि विद्यां प्राप्ताममायया ।

तपसा तोषितः शम्भुर्युष्मत्कल्याणहेतवे

॥५७॥

तच्छ्रुत्वा प्रीतमनसो जातास्ते दानवोत्तमाः ।

कृतकार्यं गुरुं मत्वा जहृषुस्ते विमोहिताः

॥५८॥

प्रणेमुस्ते मुदा युक्ता निरातङ्का गतव्यथाः ।

देवेभ्यश्च भयं त्यक्त्वा तस्थुः सर्वे निरामयाः

॥५९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे जयन्त्या शुक्रसहवासवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥