मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय २०

3
प्रथमस्कन्धः · 20

धृतराष्ट्रादीनामुत्पत्तिवर्णनम्

ऋषय ऊचुः

शुकस्तु परमां सिद्धिमाप्तवान्देवसत्तमः ।

किं चकार ततो व्यासस्तन्नो ब्रूहि सविस्तरम्

॥१॥

सूत उवाच

शिष्या व्यासस्य येऽप्यासन्वेदाभ्यासपरायणाः ।

आज्ञामादाय ते सर्वे गताः पूर्वं महीतले

॥२॥

असितो देवलश्चैव वैशम्पायन एव च ।

जैमिनिश्च सुमन्तुश्च गताः सर्वे तपोधनाः

॥३॥

तानेतान्वीक्ष्य पुत्रं च लोकान्तरितमप्युत ।

व्यासः शोकसमाक्रान्तो गमनायाकरोन्मतिम्

॥४॥

सस्मार मनसा व्यासस्तां निषादसुतां शुभाम् ।

मातरं जाह्नवीतीरे मुक्तां शोकसमन्विताम्

॥५॥

स्मृत्वा सत्यवतीं व्यासस्त्यक्त्वा तं पर्वतोत्तमम् ।

आजगाम महातेजा जन्मस्थानं स्वकं मुनिः

॥६॥

द्वीपं प्राप्याथ पप्रच्छ क्व गता सा वरानना ।

निषादास्तं समाचख्युर्दत्ता राज्ञे तु कन्यका

॥७॥

दाशराजोऽपि सम्पूज्य व्यासं प्रीतिपुरःसरम् ।

स्वागतेनाभिसत्कृत्य प्रोवाच विहिताञ्जलिः

॥८॥

दाशराज उवाच

अद्य मे सफलं जन्म पावितं नः कुलं मुने ।

देवानामपि दुर्दर्शं यज्जातं तव दर्शनम्

॥९॥

यदर्थमागतोऽसि त्वं तद्ब्रूहि द्विजसत्तम ।

अपि दारा धनं पुत्रास्त्वदायत्तमिदं विभो

॥१०॥

सरस्वत्यास्तटे रम्ये चकाराश्रममण्डलम् ।

व्यासस्तपःसमायुक्तस्तत्रैवास समाहितः

॥११॥

सत्यवत्याः सुतौ जातौ शन्तनोरमितद्युतेः ।

मत्वा तौ भ्रातरौ व्यासः सुखमाप वने स्थितः

॥१२॥

चित्राङ्गदः प्रथमजो रूपवाञ्छत्रुतापनः ।

बभूव नृपतेः पुत्रः सर्वलक्षणसंयुतः

॥१३॥

विचित्रवीर्यनामासौ द्वितीयः समजायत ।

सोऽपि सर्वगुणोपेतः शन्तनोः सुखवर्धनः

॥१४॥

गाङ्गेयः प्रथमस्तस्य महावीरो बलाधिकः ।

तथैव तौ सुतौ जातौ सत्यवत्यां महाबलौ

॥१५॥

शन्तनुस्तान्सुतान्वीक्ष्य सर्वलक्षणसंयुतान् ।

अमंस्ताजय्यमात्मानं देवादीनां महामनाः

॥१६॥

अथ कालेन कियता शन्तनुः कालपर्ययात् ।

तत्याज देहं धर्मात्मा देही जीर्णमिवाम्बरम्

॥१७॥

कालधर्मगते राज्ञि भीष्मश्चक्रे विधानतः ।

प्रेतकार्याणि सर्वाणि दानानि विविधानि च

॥१८॥

चित्राङ्गदं ततो राज्ये स्थापयामास वीर्यवान् ।

स्वयं न कृतवान् राज्यं तस्माद्देवव्रतोऽभवत्

॥१९॥

चित्राङ्गदस्तु वीर्येण प्रमत्तः परदुःखदः ।

बभूव बलवान्वीरः सत्यवत्यात्मजः शुचिः

॥२०॥

अथैकदा महाबाहुः सैन्येन महतावृतः ।

प्रचचार वनोद्देशात्पश्यन्वध्यान्मृगान् रुरून्

॥२१॥

चित्राङ्गदस्तु गन्धर्वो दृष्ट्वा तं मार्गगं नृपम् ।

उत्ततारान्तिकं भूमेर्विमानवरमास्थितः

॥२२॥

तत्राभूच्च महद्युद्धं तयोः सदृशवीर्ययोः ।

कुरुक्षेत्रे महास्थाने त्रीणि वर्षाणि तापसाः

॥२३॥

इन्द्रलोकमवापाशु गन्धर्वेण हतो रणे ।

भीष्मः श्रुत्वा चकाराशु तस्यौर्ध्वदैहिकं तदा

॥२४॥

गाङ्गेयः कृतशोकस्तु मन्त्रिभिः परिवारितः ।

विचित्रवीर्यनामानं राज्येशं च चकार ह

॥२५॥

मन्त्रिभिर्बोधिता पश्चाद्गुरुभिश्च महात्मभिः ।

स्वपुत्रं राज्यगं दृष्ट्वा पुत्रशोकहतापि च

॥२६॥

सत्यवत्यतिसन्तुष्टा बभूव वरवर्णिनी ।

व्यासोऽपि भ्रातरं श्रुत्वा राजानं मुदितोऽभवत्

॥२७॥

यौवनं परमं प्राप्तः सत्यवत्याः सुतः शुभः ।

चकार चिन्तां भीष्मोऽपि विवाहार्थं कनीयसः

॥२८॥

काशिराजसुतास्तिस्रः सर्वलक्षणसंयुताः ।

तेन राज्ञा विवाहार्थं स्थापिताश्च स्वयंवरे

॥२९॥

राजानो राजपुत्राश्च समाहूताः सहस्रशः ।

इच्छास्वयंवरार्थं वै पूज्यमानाः समागताः

॥३०॥

तत्र भीष्मो महातेजास्ता जहार बलेन वै ।

निर्मथ्य राजकं सर्वं रथेनैकेन वीर्यवान्

॥३१॥

स जित्वा पार्थिवान्सर्वांस्ताश्चादाय महारथः ।

बाहुवीर्येण तेजस्वी ह्याससाद गजाह्वयम्

॥३२॥

मातृवद्भगिनीवच्च पुत्रीवच्चिन्तयन्किल ।

तिस्रः समानयामास कन्यका वामलोचनाः

॥३३॥

सत्यवत्यै निवेद्याशु द्विजानाहूय सत्वरः ।

दैवज्ञान्वेदविदुषः पर्यपृच्छच्छुभं दिनम्

॥३४॥

कृत्वा विवाहसम्भारं यदा वै भ्रातरं निजम् ।

विचित्रवीर्यं धर्मिष्ठं विवाहयति ता यदा

॥३५॥

तदा ज्येष्ठाप्युवाचेदं कन्यका जाह्नवीसुतम् ।

लज्जमानासितापाङ्गी तिसॄणां चारुलोचना

॥३६॥

गङ्गापुत्र कुरुश्रेष्ठ धर्मज्ञ कुलदीपक ।

मया स्वयंवरे शाल्वो वृतोऽस्ति मनसा नृपः

॥३७॥

वृताहं तेन राज्ञा वै चित्ते प्रेमसमाकुले ।

यथायोग्यं कुरुष्वाद्य कुलस्यास्य परन्तप

॥३८॥

तेनाहं वृतपूर्वाऽस्मि त्वं च धर्मभृतां वरः ।

बलवानसि गाङ्गेय यथेच्छसि तथा कुरु

॥३९॥

सूत उवाच

एवमुक्तस्तया तत्र कन्यया कुरुनन्दनः ।

अपृच्छत् ब्राह्मणान्वृद्धान्मातरं सचिवांस्तथा

॥४०॥

सर्वेषां मतमाज्ञाय गाङ्गेयो धर्मवित्तमः ।

गच्छेति कन्यकां प्राह यथारुचि वरानने

॥४१॥

विसर्जिताथ सा तेन गता शाल्वनिकेतनम् ।

उवाच तं वरारोहा राजानं मनसेप्सितम्

॥४२॥

विनिर्मुक्तास्मि भीष्मेण त्वन्मनस्केति धर्मतः ।

आगतास्मि महाराज गृहाणाद्य करं मम

॥४३॥

धर्मपत्नी तवात्यन्तं भवामि नृपसत्तम ।

चिन्तितोऽसि मया पूर्वं त्वयाहं नात्र संशयः

॥४४॥

शाल्व उवाच

गृहीता त्वं वरारोहे भीष्मेण पश्यतो मम ।

रथे संस्थापिता तेन न ग्रहीष्ये करं तव

॥४५॥

परोच्छिष्टां च कः कन्यां गृह्णाति मतिमान्नरः ।

अतोऽहं न ग्रहीष्यामि त्यक्तां भीष्मेण मातृवत्

॥४६॥

रुदती विलपन्ती सा त्यक्ता तेन महात्मना ।

पुनर्भीष्मं समागत्य रुदती चेदमब्रवीत्

॥४७॥

शाल्वो मुक्तां त्वया वीर न गृह्णाति गृहाण माम् ।

धर्मज्ञोऽसि महाभाग मरिष्याम्यन्यथा ह्यहम्

॥४८॥

भीष्म उवाच

अन्यचित्तां कथं त्वां वै गृह्णामि वरवर्णिनि ।

पितरं स्वं वरारोहे व्रज शीघ्नं निराकुला

॥४९॥

तथोक्ता सा तु भीष्मेण जगाम वनमेव हि ।

तपश्चकार विजने तीर्थे परमपावने

॥५०॥

द्वे भार्ये चातिरूपाढ्ये तस्य राज्ञो बभूवतुः ।

अम्बालिका चाम्बिका च काशिराजसुते शुभे

॥५१॥

राजा विचित्रवीर्योऽसौ ताभ्यां सह महाबलः ।

रेमे नानाविहारैश्च गृहे चोपवने तथा

॥५२॥

वर्षाणि नव राजेन्द्रः कुर्वन् क्रीडा मनोरमाम् ।

प्रापासौ मरणं भूयो गृहीतो राजयक्ष्मणा

॥५३॥

मृते पुत्रेऽतिदुःखार्ता जाता सत्यवती तदा ।

कारयामास पुत्रस्य प्रेतकार्याणि मन्त्रिभिः

॥५४॥

भीष्ममाह तदैकान्ते वचनं चातिदुःखिता ।

राज्यं कुरु महाभाग पितुस्ते शन्तनोः सुत

॥५५॥

भ्रातुर्भार्यां गृहाण त्वं वंशञ्च परिरक्षय ।

यथा न नाशमायाति ययातेर्वंश इत्युत

॥५६॥

भीष्म उवाच

प्रतिज्ञा मे श्रुता मातः पित्रर्थे या मया कृता ।

नाहं राज्यं करिष्यामि न चाहं दारसंग्रहम्

॥५७॥

सूत उवाच

तदा चिन्तातुरा जाता कथं वंशो भवेदिति ।

नालसाद्धि सुखं मह्यं समुत्पन्ने ह्यराजके

॥५८॥

गाङ्गेयस्तामुवाचेदं मा चिन्तां कुरु भामिनि ।

पुत्रं विचित्रवीर्यस्य क्षेत्रजं चोपपादय

॥५९॥

कुलीनं द्विजमाहूय वध्वा सह नियोजय ।

नात्र दोषोऽस्ति वेदेऽपि कुलरक्षाविधौ किल

॥६०॥

पौत्रं चैवं समुत्पाद्य राज्यं देहि शुचिस्मिते ।

अहं च पालयिष्यामि तस्य शासनमेव हि

॥६१॥

तच्छ्रुत्वा वचनं तस्य कानीनं स्वसुतं मुनिम् ।

जगाम मनसा व्यासं द्वैपायनमकल्मषम्

॥६२॥

स्मृतमात्रस्ततो व्यास आजगाम स तापसः ।

कृत्वा प्रणामं मात्रेऽथ संस्थितो दीप्तिमान्मुनिः

॥६३॥

भीष्मेण पूजितः कामं सत्यवत्या च मानितः ।

तस्थौ तत्र महातेजा विधूमोऽग्निरिवापरः

॥६४॥

तमुवाच मुनिं माता पुत्रमुत्पादयाधुना ।

क्षेत्रे विचित्रवीर्यस्य सुन्दरं तव वीर्यजम्

॥६५॥

व्यासः श्रुत्वा वचो मातुराप्तवाक्यममन्यत ।

ओमित्युक्त्वा स्थितस्तत्र ऋतुकालमचिन्तयत्

॥६६॥

अम्बिका च यदा स्नाता नारी ऋतुमती तदा ।

सङ्गं प्राप्य मुनेः पुत्रमसूतान्धं महाबलम्

॥६७॥

जन्मान्धं च सुतं वीक्ष्य दुःखिता सत्यवत्यपि ।

द्वितीयां च वधूमाह पुत्रमुत्पादयाशु वै

॥६८॥

ऋतुकालेऽथ सम्प्राप्ते व्यासेन सह सङ्गता ।

तथा चाम्बालिका रात्रौ गर्भं नारी दधार सा

॥६९॥

सोऽपि पाण्डुः सुतो जातो राज्ययोग्यो न सम्मतः ।

पुत्रार्थे प्रेरयामास वर्षान्ते च पुनर्वधूम्

॥७०॥

आहूय च ततो व्यासं सम्प्रार्थ्य मुनिसत्तमम् ।

प्रेषयामास रात्रौ सा शयनागारमुत्तमम्

॥७१॥

न गता च वधूस्तत्र प्रेष्या सम्प्रेषिता तया ।

तस्यां च विदुरो जातो दास्यां धर्मांशतः शुभः

॥७२॥

एवं व्यासेन ते पुत्रा धृतराष्ट्रादयस्त्रयः ।

उत्पादिता महावीरा वंशरक्षणहेतवे

॥७३॥

एतद्वः सर्वमाख्यातं तस्य वंशसमुद्भवम् ।

व्यासेन रक्षितो वंशो भ्रातृधर्मविदानघाः

॥७४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ प्रथमस्कन्धे धृतराष्ट्रादीनामुत्पत्तिवर्णनं नाम विंशोऽध्यायः ॥ २० ॥