जनकोपदेशवर्णनम्
सूत उवाच
सूत उवाच
श्रुत्वा तमागतं राजा मन्त्रिभिः सहितः शुचिः ।
पुरः पुरोहितं कृत्वा गुरुपुत्रं समभ्यगात्
॥१॥कृत्वार्हणां नृपः सम्यग्दत्तासनमनुत्तमम् ।
पप्रच्छ कुशलं गां च विनिवेद्य पयस्विनीम्
॥२॥स च तां नृपपूजां वै प्रत्यगृह्णाद्यथाविधि ।
पप्रच्छ कुशलं राज्ञे स्वं निवेद्य निरामयम्
॥३॥कृत्वा कुशलसंप्रश्नमुपविष्टं सुखासने ।
शुक व्याससुतं शान्तं पर्यपृच्छत पार्थिवः
॥४॥किं निमित्तं महाभाग निःस्पृहस्य च मां प्रति ।
जातं ह्यागमनं ब्रूहि कार्यं तन्मुनिसत्तम
॥५॥शुक उवाच
व्यासेनोक्तो महाराज कुरु दारपरिग्रहम् ।
सर्वेषामाश्रमाणां च गृहस्थाश्रम उत्तमः
॥६॥मया नाङ्गीकृतं वाक्यं मत्त्वा बन्धं गुरोरपि ।
न बन्धोऽस्तीति तेनोक्तो नाहं तत्कृतवान्पुनः
॥७॥इति सन्दिग्धमनसं मत्वा स मुनिसत्तमः ।
उवाच वचनं तथ्यं मिथिलां गच्छ मा शुचः
॥८॥याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः ।
विदेहो लोकविदितः पाति राज्यमकण्टकम्
॥९॥कुर्वन् राज्यं तथा राजा मायापाशैर्न बध्यते ।
त्वं बिभेषि कथं पुत्र वनवृत्तिः परन्तप
॥१०॥पश्य तं नृपशार्दूलं त्यज मोहं मनोगतम् ।
कुरु दारान्महाभाग पृच्छ वा भूपतिं च तम्
॥११॥सन्देहं ते मनोजातं कथयिष्यति पार्थिवः ।
तच्छ्रुत्वा वचनं तस्य मामेहि तरसा सुत
॥१२॥सम्प्राप्तोऽहं महाराज त्वत्पुरे च तदाज्ञया ।
मोक्षकामोऽस्मि राजेन्द्र ब्रूहि कृत्यं ममानघ
॥१३॥तपस्तीर्थव्रतेज्याश्च स्वाध्यायस्तीर्थसेवनम् ।
ज्ञानं वा वद राजेन्द्र मोक्षं प्रति च कारणम्
॥१४॥जनक उवाच
शृणु विप्रेण कर्तव्यं मोक्षमार्गाश्रितेन यत् ।
उपनीतो वसेदादौ वेदाभ्यासाय वै गुरौ
॥१५॥अधीत्य वेदवेदान्तान्दत्त्वा च गुरुदक्षिणाम् ।
समावृत्तस्तु गार्हस्थ्ये सदारो निवसेन्मुनिः
॥१६॥न्यायवृत्तिस्तु सन्तोषी निराशी गतकल्मषः ।
अग्निहोत्रादिकर्माणि कुर्वाणः सत्यवाक्शुचिः
॥१७॥पुत्रं पौत्रं समासाद्य वानप्रस्थाश्रमे वसेत् ।
तपसा षड्रिपूञ्जित्वा भार्यां पुत्रे निवेश्य च
॥१८॥सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् ।
वसेत्तुर्याश्रमे श्रान्तः शुद्धे वैराग्यसम्भवे
॥१९॥विरक्तस्याधिकारोऽस्ति संन्यासे नान्यथा क्वचित् ।
वेदवाक्यमिदं तथ्यं नान्यथेति मतिर्मम
॥२०॥शुकाष्टचत्वारिशद्वै संस्कारा वेदबोधिताः ।
चत्वारिंशद्गृहस्थस्य प्रोक्तास्तत्र महात्मभिः
॥२१॥अष्टौ च मुक्तिकामस्य प्रोक्ताः शमदमादयः ।
आश्रमादाश्रमं गच्छेदिति शिष्टानुशासनम्
॥२२॥शुक उवाच
उत्पन्ने हृदि वैराग्ये ज्ञानविज्ञानसम्भवे ।
अवश्यमेव वस्तव्यमाश्रमेषु वनेषु वा
॥२३॥जनक उवाच
इन्द्रियाणि बलिष्ठानि न नियुक्तानि मानद ।
अपक्वस्य प्रकुर्वन्ति विकारांस्ताननेकशः
॥२४॥भोजनेच्छां सुखेच्छां च शय्येच्छामात्मजस्य च ।
यती भूत्वा कथं कुर्याद्विकारे समुपस्थिते
॥२५॥दुर्जरं वासनाजालं न शान्तिमुपयाति वै ।
अतस्तच्छमनार्थाय क्रमेण च परित्यजेत्
॥२६॥ऊर्ध्वं सुप्तः पतत्येव न शयानः पतत्यधः ।
परिव्रज्य परिभ्रष्टो न मार्गं लभते पुनः
॥२७॥यथा पिपीलिका मूलाच्छाखायामधिरोहति ।
शनैः शनैः फलं याति सुखेन पदगामिनी
॥२८॥विहङ्गस्तरसा याति विघ्नशङ्कामुदस्य वै ।
श्रान्तो भवति विश्रम्य सुखं याति पिपीलिका
॥२९॥मनस्तु प्रबलं काममजेयमकृतात्मभिः ।
अतः क्रमेण जेतव्यमाश्रमानुक्रमेण च
॥३०॥गृहस्थाश्रमसंस्थोऽपि शान्तः सुमतिरात्मवान् ।
न च हृष्येन्न च तपेल्लाभालाभे समो भवेत्
॥३१॥विहतं कर्म कुर्वाणस्त्यजंश्चिन्तान्वितं च यत् ।
आत्मलाभेन सन्तुष्टो मुच्यते नात्र संशयः
॥३२॥पश्याहं राज्यसंस्थोऽपि जीवन्मुक्तो यथानघ ।
विचरामि यथाकामं न मे किञ्चित्प्रजायते
॥३३॥भुञ्जानो विविधान्भोगान्कुर्वन्कार्याण्यनेकशः ।
भविष्यामि यथाहं त्वं तथा मुक्तो भवानघ
॥३४॥कथ्यते खलु यद्दृश्यमदृश्यं बध्यते कुतः ।
दृश्यानि पञ्चभूतानि गुणास्तेषां तथा पुनः
॥३५॥आत्मा गम्योऽनुमानेन प्रत्यक्षो न कदाचन ।
स कथं बध्यते ब्रह्मन्निर्विकारो निरञ्जनः
॥३६॥मनस्तु सुखदुःखानां महतां कारणं द्विज ।
जाते तु निर्मले ह्यस्मिन्सर्वं भवति निर्मलम्
॥३७॥भ्रमन्सर्वेषु तीर्थेषु स्नात्वा स्नात्वा पुनः पुनः ।
निर्मलं न मनो यावत्तावत्सर्वं निरर्थकम्
॥३८॥न देहो न च जीवात्मा नेन्द्रियाणि परन्तप ।
मन एव मनुष्याणां कारणं बन्धमोक्षयोः
॥३९॥शुद्धो मुक्तः सदैवात्मा न वै बध्येत कर्हिचित् ।
बन्धमोक्षौ मनःसंस्थौ तस्मिञ्छान्ते प्रशाम्यति
॥४०॥शत्रुर्मित्रमुदासीनो भेदाः सर्वे मनोगताः ।
एकात्मत्वे कथं भेदः सम्भवेद्द्वैतदर्शनात्
॥४१॥जीवो ब्रह्म सदैवाहं नात्र कार्या विचारणा ।
भेदबुद्धिस्तु संसारे वर्तमाना प्रवर्तते
॥४२॥अविद्येयं महाभाग विद्या चैतन्निवर्तनम् ।
विद्याविद्ये च विज्ञेये सर्वदैव विचक्षणैः
॥४३॥विनातपं हि छायाया ज्ञायते च कथं सुखम् ।
अविद्यया विना तद्वत्कथं विद्यां च वेत्ति वै
॥४४॥गुणा गुणेषु वर्तन्ते भूतानि च तथैव च ।
इन्द्रियाणीन्द्रियार्थेषु को दोषस्तत्र चात्मनः
॥४५॥मर्यादा सर्वरक्षार्थं कृता वेदेषु सर्वशः ।
अन्यथा धर्मनाशः स्यात्सौगतानामिवानघ
॥४६॥धर्मनाशे विनष्टः स्याद्वर्णाचारोऽतिवर्तितः ।
अतो वेदप्रदिष्टेन मार्गेण गच्छतां शुभम्
॥४७॥शुक उवाच
सन्देहो वर्तते राजन्न निवर्तति मे क्वचित् ।
भवता कथितं यत्तच्छृण्वतो मे नराधिप
॥४८॥वेदधर्मेषु हिंसा स्यादधर्मबहुला हि सा ।
कथं मुक्तिप्रदो धर्मो वेदोक्तो बत भूपते
॥४९॥प्रत्यक्षेण त्वनाचारः सोमपानं नराधिप ।
पशूनां हिंसनं तद्वद्भक्षणं चामिषस्य च
॥५०॥सौत्रामणौ तथा प्रोक्तः प्रत्यक्षेण सुराग्रहः ।
द्यूतक्रीडा तथा प्रोक्ता व्रतानि विविधानि च
॥५१॥श्रूयते स्म पुरा ह्यासीच्छशबिन्दुर्नृपोत्तमः ।
यज्वा धर्मपरो नित्यं वदान्यः सत्यसागरः
॥५२॥गोप्ता च धर्मसेतूनां शास्ता चोत्पथगामिनाम् ।
यज्ञाश्च विहितास्तेन बहवो भूरिदक्षिणाः
॥५३॥चर्मणां पर्वतो जातो विन्ध्याचलसमः पुनः ।
मेघाम्बुप्लावनाज्जाता नदी चर्मण्वती शुभा
॥५४॥सोऽपि राजा दिवं यातः कीर्तिरस्याचला भुवि ।
एवं धर्मेषु वेदेषु न मे बुद्धिः प्रवर्तते
॥५५॥स्त्रीसङ्गेन सदा भोगे सुखमाप्नोति मानवः ।
अलाभे दुःखमत्यन्तं जीवन्मुक्तः कथं भवेत्
॥५६॥जनक उवाच
हिंसा यज्ञेषु प्रत्यक्षा साहिंसा परिकीर्तिता ।
उपाधियोगतो हिंसा नान्यथेति विनिर्णयः
॥५७॥यथा चेन्धनसंयोगादग्नौ धूमः प्रवर्तते ।
तद्वियोगात्तथा तस्मिन्निर्धूमत्वं विभाति वै
॥५८॥अहिंसां च तथा विद्धि वेदोक्तां मुनिसत्तम ।
रागिणां सापि हिंसैव निःस्पृहाणां न सा मता
॥५९॥अरागेण च यत्कर्म तथाहङ्कारवर्जितम् ।
अकृतं वेदविद्वांसः प्रवदन्ति मनीषिणः
॥६०॥गृहस्थानां तु हिंसैव या यज्ञे द्विजसत्तम ।
अरागेण च यत्कर्म तथाहंकारवर्जितम्
॥६१॥साहिंसैव महाभाग मुमुक्षूणां जितात्मनाम्
॥६२॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकाय जनकोपदेशवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥