व्यासेन गृहस्थधर्मवर्णनम्
सूत उवाच
दृष्ट्वा तामसितापाङ्गीं व्यासश्चिन्तापरोऽभवत् ।
किं करोमि न मे योग्या देवकन्येयमप्सराः
॥१॥एवं चिन्तयमानं तु दृष्ट्वा व्यासं तदाप्सराः ।
भयभीता हि सञ्जाता शापं मा विसृजेदयम्
॥२॥सा कृत्वाथ शुकीरूपं निर्गता भयविह्वला ।
कृष्णस्तु विस्मयं प्राप्तो विहङ्गीं तां विलोकयन्
॥३॥कामस्तु देहे व्यासस्य दर्शनादेव सङ्गतः ।
मनोऽतिविस्मितं जातं सर्वगात्रेषु विस्मितः
॥४॥स तु धैर्येण महता निगह्णन्मानसं मुनिः ।
न शशाक नियन्तुं च स व्यासः प्रसृतं मनः
॥५॥बहुशो गृह्यमाणं च घृताच्या मोहितं मनः ।
भावित्वान्नैव विधृतं व्यासस्यामिततेजसः
॥६॥मन्धनं कुर्वतस्तस्य मुनेरग्निचिकीर्षया ।
अरण्यामेव सहसा तस्य शुक्रमथापतत्
॥७॥सोऽविचिन्त्य तथा पातं ममन्थारणिमेव च ।
तस्माच्छुकः समुद्भूतो व्यासाकृतिमनोहरः
॥८॥विस्मयं जनयन्बालः सञ्जातस्तदरण्यजः ।
यथाध्वरे समिद्धोऽग्निर्भाति हव्येन दीप्तिमान्
॥९॥व्यासस्तु सुतमालोक्य विस्मयं परमं गतः ।
किमेतदिति सञ्चिन्त्य वरदानाच्छिवस्य वै
॥१०॥तेजोरूपी शुको जातोऽप्यरणीगर्भसम्भवः ।
द्वितीयोऽग्निरिवात्यर्थं दीप्यमानः स्वतेजसा
॥११॥विलोकयामास तदा व्यासस्तु मुदितं सुतम् ।
दिव्येन तेजसा युक्तं गार्हपत्यमिवापरम्
॥१२॥गङ्गान्तः स्नापयामास समागत्य गिरेस्तदा ।
पुष्पवृष्टिस्तु खाज्जाता शिशोरुपरि तापसाः
॥१३॥जातकर्मादिकं चक्रे व्यासस्तस्य महात्मनः ।
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः
॥१४॥जगुर्गन्धर्वपतयो मुदितास्ते दिदृक्षवः ।
विश्वावसुर्नारदश्च तुम्बुरुः शुकसम्भवे
॥१५॥तुष्टुवुर्मुदिताः सर्वे देवा विद्याधरास्तथा ।
दृष्ट्वा व्याससुतं दिव्यमरणीगर्भसम्भवम्
॥१६॥अन्तरिक्षात्पपातोर्व्यां दण्डः कृष्णाजिनं शुभम् ।
कमण्डलुस्तथा दिव्यः शुकस्यार्थे द्विजोत्तमाः
॥१७॥सद्यः स ववृधे बालो जातमात्रोऽतिदीप्तिमान् ।
तस्योपनयनं चक्रे व्यासो विद्याविधानवित्
॥१८॥उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ।
उपतस्थुर्महात्मानं यथास्य पितरं तथा
॥१९॥यतो दृष्टं शुकीरूपं घृताच्याः सम्भवे तदा ।
शुकेति नाम पुत्रस्य चकार मुनिसत्तमः
॥२०॥बृहस्पतिमुपाध्यायं कृत्वा व्याससुतस्तदा ।
व्रतानि ब्रह्मचर्यस्य चकार विधिपूर्वकम्
॥२१॥सोऽधीत्य निखिलान्वेदान् सरहस्यान्ससंग्रहान् ।
धर्मशास्त्राणि सर्वाणि कृत्वा गुरुकुले शुकः
॥२२॥गुरवे दक्षिणां दत्त्वा समावृत्तो मुनिस्तदा ।
आजगाम पितुः पार्श्वं कृष्णद्वैपायनस्य च
॥२३॥दृष्ट्वा व्यासः शुकं प्राप्तं प्रेम्णोत्थाय ससम्भ्रमः ।
आलिलिङ्ग मुहुर्घ्राणं मूर्ध्नि तस्य चकार ह
॥२४॥पप्रच्छ कुशलं व्यासस्तथा चाध्ययनं शुचि ।
आश्वास्य स्थापयामास शुकं तत्राश्रमे शुभे
॥२५॥दारकर्म ततो व्यासः शुकस्य पर्यचिन्तयत् ।
कन्यां मुनिसुतां कान्तामपृच्छदतिवेगवान्
॥२६॥शुकं प्राह सुतं व्यासो वेदोऽधीतस्त्वयानघ ।
धर्मशास्त्राणि सर्वाणि कुरु भार्यां महामते
॥२७॥गार्हस्थ्यं च समासाद्य यज देवान्पितॄनथ ।
ऋणान्मोचय मां पुत्र प्राप्य दारान्मनोरमान्
॥२८॥अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्मात्पुत्र महाभाग कुरुष्वाद्य गृहाश्रमम्
॥२९॥कृत्वा गृहाश्रमं पुत्र सुखिनं कुरु मां शुक ।
आशा मे महती पुत्र पूरयस्व महामते
॥३०॥तपस्तप्त्वा महाघोरं प्राप्तोऽसि त्वमयोनिजः ।
देवरूपी महाप्राज्ञ पाहि मां पितरं शुक
॥३१॥सूत उवाच
इति वादिनमभ्याशे प्राप्तः प्राह शुकस्तदा ।
विरक्तः सोऽतिरक्तं तं साक्षात्पितरमात्मनः
॥३२॥शुक उवाच
किं त्वं वदसि धर्मज्ञ वेदव्यास महामते ।
तत्त्वेन शाधि शिष्यं मां त्वदाज्ञां करवाण्यलम्
॥३३॥व्यास उवाच
त्वदर्थे यत्तपस्तप्तं मया पुत्र शतं समाः ।
प्राप्तस्त्वं चातिदुःखेन शिवस्याराधनेन च
॥३४॥ददामि तव वित्तं तु प्रार्थयित्वाथ भूपतिम् ।
सुखं भुंक्ष्व महाप्राज्ञ प्राप्य यौवनमुत्तमम्
॥३५॥शुक उवाच
किं सुखं मानुषे लोके ब्रूहि तात निरामयम् ।
दुःखविद्धं सुखं प्राज्ञा न वदन्ति सुखं किल
॥३६॥स्त्रियं कृत्वा महाभाग भवामि तद्वशानुगः ।
सुखं किं परतन्त्रस्य स्त्रीजितस्य विशेषतः
॥३७॥कदाचिदपि मुच्येत लोहकाष्ठादियन्त्रितः ।
पुत्रदारैर्निबद्धस्तु न विमुच्येत कर्हिचित्
॥३८॥विण्मूत्रसम्भवो देहो नारीणां तन्मयस्तथा ।
कः प्रीतिं तत्र विप्रेन्द्र विबुधः कर्तुमिच्छति
॥३९॥अयोनिजोऽहं विप्रर्षे योनौ मे कीदृशी मतिः ।
न वाञ्छाम्यहमग्रेऽपि योनावेव समुद्भवम्
॥४०॥विट्सुखं किमु वाञ्छामि त्यक्त्वाऽऽत्मसुखमद्भुतम् ।
आत्मारामश्च भूयोऽपि न भवत्यतिलोलुपः
॥४१॥प्रथमं पठिता वेदा मया विस्तारिताश्च ते ।
हिंसामयास्ते पतिताः कर्ममार्गप्रवर्तकाः
॥४२॥बृहस्पतिर्गुरुः प्राप्तः सोऽपि मग्नो गृहार्णवे ।
अविद्याग्रस्तहृदयः कथं तारयितुं क्षमः
॥४३॥रोगग्रस्तो यथा वैद्यः पररोगचिकित्सकः ।
तथा गुरुर्मुमुक्षोर्मे गृहस्थोऽयं विडम्बना
॥४४॥कृत्वा प्रणामं गुरवे त्वत्समीपमुपागतः ।
त्राहि मां तत्त्वबोधेन भीतं संसारसर्पतः
॥४५॥संसारेऽस्मिन्महाघोरे भ्रमणं नभचक्रवत् ।
न च विश्रमणं क्यापि सूर्यस्येव दिवानिशि
॥४६॥किं सुखं तात संसारे निजतत्त्वविचारणात् ।
मूढानां सुखबुद्धिस्तु विट्सु कीटसुखं यथा
॥४७॥अधीत्य वेदशास्त्राणि संसारे रागिणश्च ये ।
तेभ्यः परो न मूर्खोऽस्ति सधर्मा श्वाश्वसूकरैः
॥४८॥मानुष्यं दुर्लभं प्राप्य वेदशास्त्राण्यधीत्य च ।
बध्यते यदि संसारे को विमुच्येत मानवः
॥४९॥नातः परतरं लोके क्वचिदाश्चर्यमद्भुतम् ।
पुत्रदारगृहासक्तः पण्डितः परिगीयते
॥५०॥न बाध्यते यः संसारे नरो मायागुणैस्त्रिभिः ।
स विद्वान्स च मेधावी शास्त्रपारं गतो हि सः
॥५१॥किं वृथाध्ययनेनात्र दृढबन्धकरेण च ।
पठितव्यं तदेवाशु मोचयेद्भवबन्धनात्
॥५२॥गह्णाति पुरुषं यस्माद्गृहं तेन प्रकीर्तितम् ।
क्व सुखं बन्धनागारे तेन भीतोऽस्म्यहं पितः
॥५३॥येऽबुधा मन्दमतयो विधिना मुषिताश्च ये ।
ते प्राप्य मानुषं जन्म पुनर्बन्धं विशन्त्युत
॥५४॥व्यास उवाच
न गृहं बन्धनागारं बन्धने न च कारणम् ।
मनसा यो विनिर्मुक्तो गृहस्थोऽपि विमुच्यते
॥५५॥न्यायागतधनः कुर्वन्वेदोक्तं विधिवत्क्रमात् ।
गृहस्थोऽपि विमुच्येत श्राद्धकृत्सत्यवाक् शुचिः
॥५६॥ब्रह्मचारी यतिश्चैव वानप्रस्थो व्रतस्थितः ।
गृहस्थं समुपासन्ते मध्याह्नातिक्रमे सदा
॥५७॥श्रद्धया चान्नदानेन वाचा सूनृतया तथा ।
उपकुर्वन्ति धर्मस्था गृहाश्रमनिवासिनः
॥५८॥गृहाश्रमात्परो धर्मो न दृष्टो न च वै श्रुतः ।
वसिष्ठादिभिराचार्यैर्ज्ञानिभिः समुपाश्रितः
॥५९॥किमसाध्यं महाभाग वेदोक्तानि च कुर्वतः ।
स्वर्गं मोक्षं च सज्जन्म यद्यद्वाञ्छति तद्भवेत्
॥६०॥आश्रमादाश्रमं गच्छेदिति धर्मविदो विदुः ।
तस्मादग्निं समाधाय कुरु कर्माण्यतन्द्रितः
॥६१॥देवान्पितॄन्मनुष्यांश्च सन्तर्प्य विधिवत्सुत ।
पुत्रमुत्पाद्य धर्मज्ञ संयोज्य च गृहाश्रमे
॥६२॥त्यक्त्वागृहं वनं गत्वा कर्तासि व्रतमुत्तमम् ।
वानप्रस्थाश्रमं कृत्वा संन्यासं च ततः परम्
॥६३॥इन्द्रियाणि महाभाग मादकानि सुनिश्चितम् ।
अदारस्य दुरन्तानि पञ्चैव मनसा सह
॥६४॥तस्माद्दारान्प्रकुर्वीत तज्जयाय महामते ।
वार्धके तप आतिष्ठेदिति शास्त्रोदितं वचः
॥६५॥विश्वामित्रो महाभाग तपः कृत्वातिदुश्चरम् ।
त्रीणि वर्षसहस्राणि निराहारो जितेन्द्रियः
॥६६॥मोहितश्च महातेजा वने मेनकया स्थितः ।
शकुन्तला समुत्पन्ना पुत्री तद्वीर्यजा शुभा
॥६७॥दृष्ट्वा दाशसुतां कालीं पिता मम पराशरः ।
कामबाणार्दितः कन्यां तां जग्राहोडुपे स्थितः
॥६८॥ब्रह्मापि स्वसुतां दृष्ट्वा पञ्चबाणप्रपीडितः ।
धावमानश्च रुद्रेण मूर्च्छितश्च निवारितः
॥६९॥तस्मात्त्वमपि कल्याण कुरु मे वचनं हितम् ।
कुलजां कन्यकां वृत्वा वेदमार्गं समाश्रय
॥७०॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे व्यासेन गृहस्थधर्मवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥