हरिकृतमधुकैटभवधवर्णनम्
सूत उवाच
यदा विनिर्गता निद्रा देहात्तस्य जगद्गुरोः ।
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः
॥१॥निःसृत्य गगने तस्थौ तामसी शक्तिरुत्तमा ।
उदतिष्ठज्जगन्नाथो जृम्भमाणः पुनः पुनः
॥२॥तदापश्यत् स्थितं तत्र भयत्रस्तं प्रजापतिम् ।
उवाच च महातेजा मेघगम्भीरया गिरा
॥३॥विष्णुरुवाच
किमागतोऽसि भगवंस्तपस्त्यक्त्वात्र पद्मज ।
कस्माच्चिन्तातुरोऽसि त्वं भयाकुलितमानसः
॥४॥ब्रह्मोवाच
त्वत्कर्णमलजौ देव दैत्यौ च मधुकैटभौ ।
हन्तुं मां समुपायातौ घोररूपौ महाबलौ
॥५॥भयात्तयोः समायातस्त्वत्समीपं जगत्पते ।
त्राहि मां वासुदेवाद्य भयत्रस्तं विचेतनम्
॥६॥विष्णुरुवाच
तिष्ठाद्य निर्भयो जातस्तौ हनिष्याम्यहं किल ।
युद्धायाजग्मतुर्मूढौ मत्समीपं गतायुषौ
॥७॥सूत उवाच
एवं वदति देवेशे दानवौ तौ महाबलौ ।
विचिन्वानावजं चोभौ संप्राप्तौ मदगर्वितौ
॥८॥निराधारौ जले तत्र संस्थितौ विगतज्वरौ ।
तावूचतुर्मदोन्मत्तौ ब्रह्माणं मुनिसत्तमाः
॥९॥पलायित्वा समायातः सन्निधावस्य किं ततः ।
युद्धं कुरु हनिष्यावः पश्यतोऽस्यैव सन्निधौ
॥१०॥पश्चादेनं हनिष्यावः सर्पभोगोपरिस्थितम् ।
त्वमद्य कुरु संग्रामं दासोऽस्मीति च वा वद
॥११॥सूत उवाच
तच्छ्रुत्वा वचनं विष्णुस्तावुवाच जनार्दनः ।
कुरुतं समरं कामं मया दानवपुङ्गवौ
॥१२॥हरिष्यामि मदं चाहं युवयोर्मत्तयोः किल ।
आगच्छतं महाभागौ श्रद्धा चेद्वां महाबलौ
॥१३॥सूत उवाच
श्रुत्वा तद्वचनं चोभौ क्रोधव्याकुललोचनौ ।
निराधारौ जलस्थौ च युद्धोद्युक्तौ बभूवतुः
॥१४॥मधुश्च कुपितस्तत्र हरिणा सह संयुगम् ।
कर्तुं प्रचलितस्तूर्णं कैटभस्तु तथा स्थितः
॥१५॥बाहुयुद्धं तयोरासीन्मल्लयोरिव मत्तयोः ।
श्रान्ते मधौ कैटभस्तु संग्राममकरोत्तदा
॥१६॥पुनर्मधुः कैटभश्च युयुधाते पुनः पुनः ।
बाहुयुद्धेन रागान्धौ विष्णुना प्रभविष्णुना
॥१७॥प्रेक्षकस्तु तदा ब्रह्मा देवी चैवान्तरिक्षगा ।
न मम्लतुस्तदा तौ तु विष्णुस्तु ग्लानिमाप्तवान्
॥१८॥पञ्चवर्षसहस्राणि यदा जातानि युद्ध्यता ।
हरिणा चिन्तितं तत्र कारणं मरणे तयोः
॥१९॥पञ्चवर्षसहस्राणि मया युद्धं कृतं किल ।
न श्रान्तौ दानवौ घोरौ श्रान्तोऽहं चैतदद्भुतम्
॥२०॥क्व गतं मे बलं शौर्यं कस्माच्चेमावनामयौ ।
किमत्र कारणं चिन्त्यं विचार्य मनसा त्विह
॥२१॥इति चिन्तापरं दृष्ट्वा हरिं हर्षपरावुभौ ।
ऊचतुस्तौ मदोन्मत्तौ मेघमम्भीरनिःस्वनौ
॥२२॥तव नोचेद्बलं विष्णो यदि श्रान्तोऽसि युद्धतः ।
ब्रूहि दासोऽस्मि वां नूनं कृत्वा शिरसि चाञ्जलिम्
॥२३॥न चेद्युद्धं कुरुष्वाद्य समर्थोऽसि महामते ।
हत्वा त्वां निहनिष्यावः पुरुषं च चतुर्मुखम्
॥२४॥सूत उवाच
श्रुत्वा तद्भाषितं विष्णुस्तयोस्तस्मिन्महोदधौ ।
उवाच वचनं श्लक्ष्णं सामपूर्वं महामनाः
॥२५॥हरिरुवाच
श्रान्ते भीते त्यक्तशस्त्रे पतिते बालके तथा ।
प्रहरन्ति न वीरास्ते धर्म एष सनातनः
॥२६॥पञ्चवर्षसहस्राणि कृतं युद्धं मया त्विह ।
एकोऽहं भ्रातरौ वां च बलिनौ सदृशौ तथा
॥२७॥कृतं विश्रमणं मध्ये युवाभ्यां च पुनः पुनः ।
तथा विश्रमणं कृत्वा युध्येऽहं नात्र संशयः
॥२८॥तिष्ठतं हि युवां तावद्बलवन्तौ मदोत्कटौ ।
विश्रम्याहं करिष्यामि युद्धं वा न्यायमार्गतः
॥२९॥सूत उवाच
इति श्रुत्वा वचस्तस्य विश्रब्धौ दानवोत्तमौ ।
संस्थितौ दूरतस्तत्र संग्रामे कृतनिश्चयौ
॥३०॥अतिदूरे च तौ दृष्ट्वा वासुदेवश्चतुर्भुजः ।
दध्यौ च मनसा तत्र कारणं मरणे तयोः
॥३१॥चिन्तनाज्ज्ञानमुत्पन्नं देवीदत्तवरावुभौ ।
कामं वाञ्छितमरणौ न मम्लतुरतस्त्विमौ
॥३२॥वृथा मया कृतं युद्धं श्रमोऽयं मे वृथा गतः ।
करोमि च कथं युद्धमेवं ज्ञात्वा विनिश्चयम्
॥३३॥अकृते च तथा युद्धे कथमेतौ गमिष्यतः ।
विनाशं दुःखदौ नित्यं दानवौ वरदर्पितौ
॥३४॥भगवत्या वरो दत्तस्तया सोऽपि च दुर्घटः ।
मरणं चेच्छया कामं दुःखितोऽपि न वाञ्छति
॥३५॥रोगग्रस्तोऽपि दीनोऽपि न मुमूर्षति कश्चन ।
कथं चेमौ मदोन्मत्तौ मर्तुकामौ भविष्यतः
॥३६॥नन्वद्य शरणं यामि विद्यां शक्तिं सुकामदाम् ।
विना तया न सिध्यन्ति कामाः सम्यक्प्रसन्नया
॥३७॥एवं सञ्चिन्त्यमानस्तु गगने संस्थितां शिवाम् ।
अपश्यद्भगवान्विष्णुर्योगनिद्रां मनोहराम्
॥३८॥कृताज्जलिरमेयात्मा तां च तुष्टाव योगवित् ।
विनाशार्थं तयोस्तत्र वरदां भुवनेश्वरीम्
॥३९॥विष्णुरुवाच
नमो देवि महामाये सृष्टिसंहारकारिणि ।
अनादिनिधने चण्डि भुक्तिमुक्तिप्रदे शिवे
॥४०॥न ते रूपं विजानामि सगुणं निर्गुणं तथा ।
चरित्राणि कुतो देवि संख्यातीतानि यानि ते
॥४१॥अनुभूतो मया तेऽद्य प्रभावश्चातिदुर्घटः ।
यदहं निद्रया लीनः सञ्जातोऽस्मि विचेतनः
॥४२॥ब्रह्मणा चातियत्नेन बोधितोऽपि पुनः पुनः ।
न प्रबुद्धः सर्वथाहं सङ्कोचितषडिन्द्रियः
॥४३॥अचेतनत्वं सम्प्राप्तः प्रभावात्तव चाम्बिके ।
त्वया मुक्तः प्रबुद्धोऽहं युद्धं च बहुधा कृतम्
॥४४॥श्रान्तोऽहं न च तौ श्रान्तौ त्वया दत्तवरौ वरौ ।
ब्रह्माणं हन्तुमायातौ दानवौ मदगर्वितौ
॥४५॥आहूतौ च मया कामं द्वन्द्वयुद्धाय मानदे ।
कृतं युद्धं महाघोरं मया ताभ्यां महार्णवे
॥४६॥मरणे वरदानं ते ततो ज्ञातं महाद्भुतम् ।
ज्ञात्वाहं शरणं प्राप्तस्त्वामद्य शरणप्रदाम्
॥४७॥साहाय्यं कुरु मे मातः खिन्नोऽहं युद्धकर्मणा ।
दृप्तौ तौ वरदानेन तव देवार्तिनाशने
॥४८॥हन्तुं मामुद्यतौ पापौ किं करोमि क्व यामि च ।
इत्युक्ता सा तदा देवी स्मितपूर्वमुवाच ह
॥४९॥प्रणमन्तं जगन्नाथं वासुदेवं सनातनम् ।
देवदेव हरे विष्णो कुरु युद्धं पुनः स्वयम्
॥५०॥वञ्चयित्वा त्विमौ शूरौ हन्तव्यौ च विमोहितौ ।
मोहयिष्याम्यहं नूनं दानवौ वक्रया दृशा
॥५१॥जहि नारायणाशु त्वं मम मायाविमोहितौ ।
सूत उवाच ।
तच्छ्रुत्वा वचनं विष्णुस्तस्याः प्रीतिरसान्वितम्
॥५२॥संग्रामस्थलमासाद्य तस्थौ तत्र महार्णवे ।
तदायातौ च तौ वीरौ युद्धकामौ महाबलौ
॥५३॥वीक्ष्य विष्णुं स्थितं तत्र हर्षयुक्तौ बभूवतुः ।
तिष्ठ तिष्ठ महाकाम कुरु युद्धं चतुर्भुज
॥५४॥दैवाधीनौ विदित्वाद्य नूनं जयपराजयौ ।
सबलो जयमाप्नोति दैवाज्जयति दुर्बलः
॥५५॥सर्वथैव न कर्तव्यौ हर्षशोकौ महात्मना ।
पुरा वै बहवो दैत्या जिता दानववैरिणा
॥५६॥अधुना चावयोः सार्धं युध्यमानः पराजितः ।
सूत उवाच ।
इत्युक्त्वा तौ महाबाहू युद्धाय समुपस्थितौ
॥५७॥वीक्ष्य विष्णुर्जघानाशु मुष्टिनाद्भुतकर्मणा ।
तावप्यतिबलोन्मत्तौ जध्नतुर्मुष्टिना हरिम्
॥५८॥एवं परस्परं जातं युद्धं परमदारुणम् ।
युध्यमानौ महावीर्यौ दृष्ट्वा नारायणस्तदा
॥५९॥अपश्यत्सम्मुखं देव्याः कृत्वा दीनां दृशं हरिः ।
सूत उवाच ।
तं वीक्ष्य तादृशं विष्णुं करुणारससंयुतम्
॥६०॥जहासातीव ताम्राक्षी वीक्षमाणा तदासुरौ ।
तौ जघान कटाक्षैश्च कामबाणैरिवापरैः
॥६१॥मन्दस्मितयुतैः कामं प्रेमभावयुतैरनु ।
दृष्ट्वा मुमुहतुः पापौ देव्या वक्रविलोकनम्
॥६२॥विशेषमिति मन्वानौ कामबाणातिपीडितौ ।
वीक्षमाणौ स्थितौ तत्र तां देवीं विशदप्रभाम्
॥६३॥हरिणापि च तद्दृष्टं देव्यास्तत्र चिकीर्षितम् ।
मोहितौ तौ परिज्ञाय भगवान्कार्यवित्तमः
॥६४॥उवाच तौ हसन् श्लक्ष्णं मेघगम्भीरया गिरा ।
वरं वरयतां वीरौ युवयोर्योऽभिवाच्छितः
॥६५॥ददामि परमप्रीतो युद्धेन युवयोः किल ।
दानवा बहवो दृष्टा युध्यमाना मया पुरा
॥६६॥युवयोः सदृशः कोऽपि न दृष्टो न च वै श्रुतः ।
तस्मात्तुष्टोऽस्मि कामं वै निस्तुलेन बलेन च
॥६७॥भ्रात्रोश्च वाञ्छितं कामं प्रयच्छामि महाबलौ ।
सूत उवाच ।
तच्छ्रुत्वा वचनं विष्णोः साभिमानौ स्मरातुरौ
॥६८॥वीक्षमाणौ महामायां जगदानन्दकारिणीम् ।
तमूचतुश्च कामार्तौ विष्णुं कमललोचनौ
॥६९॥हरे न याचकावावां त्वं किं दातुमिहेच्छसि ।
ददाव तुल्यं देवेश दातारौ नौ न याचकौ
॥७०॥प्रार्थय त्वं हृषीकेश मनोऽभिलषितं वरम् ।
तुष्टौ स्वस्तव युद्धेन वासुदेवाद्भुतेन च
॥७१॥तयोस्तद्वचनं श्रुत्वा प्रत्युवाच जनार्दनः ।
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि
॥७२॥सूत उवाच
तच्छ्रुत्वा वचनं विष्णोर्दानवौ चातिविस्मितौ ।
वञ्चिताविति मन्वानौ तस्थतुः शोकसंयुतौ
॥७३॥विचार्य मनसा तौ तु दानवौ विष्णुमूचतुः ।
प्रेक्ष्य सर्वं जलमयं भूमिं स्थलविवर्जिताम्
॥७४॥हरे योऽयं वरो दत्तस्त्वया पूर्वं जनार्दन ।
सत्यवागसि देवेश देहि तं वाञ्छितं वरम्
॥७५॥निर्जले विपुले देशे हनस्व मधुसूदन ।
वध्यावावां तु भवतः सत्यवाग्भव माधव
॥७६॥स्मृत्वा चक्रं तदा विष्णुस्तावुवाच हसन्हरिः ।
हन्म्यद्य वां महाभागौ निर्जले विपुले स्थले
॥७७॥इत्युक्त्या देवदेवेश ऊरू कृत्वातिविस्तरौ ।
दर्शयामास तौ तत्र निर्जलं च जलोपरि
॥७८॥नास्त्यत्र दानवौ वारि शिरसी मुञ्चतामिह ।
सत्यवागहमद्यैव भविष्यामि च वां तथा
॥७९॥तदाकर्ण्य वचस्तथ्यं विचिन्त्य मनसा च तौ ।
वर्धयामासतुर्देहं योजनानां सहस्रकम्
॥८०॥भगवान्द्विगुणं चक्रे जघनं विस्मितौ तदा ।
शीर्षे सन्दधतां तत्र जघने परमाद्भुते
॥८१॥रथांगेन तदा छिन्ने विष्णुना प्रभविष्णुना ।
जघनोपरि वेगेन प्रकृष्टे शिरसी तयोः
॥८२॥गतप्राणौ तदा जातौ दानवौ मधुकैटभौ ।
सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः
॥८३॥मेदिनीति ततो जातं नाम पृथ्व्याः समन्ततः ।
अभक्ष्या मृत्तिका तेन कारणेन मुनीश्वराः
॥८४॥इति वः कथितं सर्वं यत्पृष्टोऽस्मि सुनिश्चितम् ।
महाविद्या महामाया सेवनीया सदा बुधैः
॥८५॥आराध्या परमा शक्तिः सर्वैरपि सुरासुरैः ।
नातः परतरं किञ्चिदधिकं भुवनत्रये
॥८६॥सत्यं सत्यं पुनः सत्यं वेदशास्त्रार्थनिर्णयः ।
पूजनीया परा शक्तिर्निर्गुणा सगुणाथवा
॥८७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे हरिकृतमधुकैटभवधवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥