मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय ४

3
प्रथमस्कन्धः · 4

देवीसर्वोत्तमेतिकथनम्

ऋषय ऊचुः

सौम्य व्यासस्य भार्यायां कस्यां जातः सुतः शुकः ।

कथं वा कीदृशो येन पठितेयं सुसंहिता

॥१॥

अयोनिजस्त्वया प्रोक्तस्तथा चारणिजः शुकः ।

सन्देहोऽस्ति महांस्तत्र कथयाद्य महामते

॥२॥

गर्भयोगी श्रुतः पूर्वं शुको नाम महातपाः ।

कथं च पठितं तेन पुराणं बहुविस्तरम्

॥३॥

सूत उवाच

पुरा सरस्वतीतीरे व्यासः सत्यवतीसुतः ।

आश्रमे कलविंकौ तु दृष्ट्वा विस्मयमागतः

॥४॥

जातमात्रं शिशुं नीडे मुक्तमण्डान्मनोहरम् ।

ताम्रास्यं शुभसर्वाङ्गं पिच्छांकुरविवर्जितम्

॥५॥

तौ तु भक्ष्यार्थमत्यन्तं रतौ श्रमपरायणौ ।

शिशोश्चंचुपुटे भक्ष्यं क्षिपन्तौ च पुनः पुनः

॥६॥

अङ्गेनाङ्गानि बालस्य घर्षयन्तौ मुदान्वितौ ।

चुम्बन्तौ च मुखं प्रेम्णा कलविंकौ शिशोः शुभम्

॥७॥

वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा ।

व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत्

॥८॥

तिरश्चामपि यत्प्रेम पुत्रे समभिलक्ष्यते ।

किं चित्रं यन्मनुष्याणां सेवाफलमभीप्सताम्

॥९॥

किमेतौ चटकौ चास्य विवाहं सुखसाधनम् ।

विरच्य सुखिनौ स्यातां दृष्ट्वा वध्वा मुखं शुभम्

॥१०॥

अथवा वार्धके प्राप्ते परिचर्यां करिष्यति ।

पुत्रः परमधर्मिष्ठः पुण्यार्थं कलविंकयोः

॥११॥

अर्जयित्वाथवा द्रव्यं पितरौ तर्पयिष्यति ।

अथवा प्रेतकार्याणि करिष्यति यथाविधि

॥१२॥

अथवा किं गयाश्राद्धं गत्वा संवितरिष्यति ।

नीलोत्सर्गं च विधिवत्प्रकरिष्यति बालकः

॥१३॥

संसारेऽत्र समाख्यातं सुखानामुत्तमं सुखम् ।

पुत्रगात्रपरिष्वंगो लालनञ्च विशेषतः

॥१४॥

अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।

पुत्रादन्यतरन्नास्ति परलोकस्य साधनम्

॥१५॥

मन्वादिभिश्च मुनिभिर्धर्मशास्त्रेषु भाषितम् ।

पुत्रवान्स्वर्गमाप्नोति नापुत्रस्तु कथञ्चन

॥१६॥

दृश्यतेऽत्र समक्षं तन्नानुमानेन साध्यते ।

पुत्रवान्मुच्यते पापादाप्तवाक्यं च शाश्वतम्

॥१७॥

आतुरे मृत्युकालेऽपि भूमिशय्यागतो नरः ।

करोति मनसा चिन्तां दुःखितः पुत्रवर्जितः

॥१८॥

धनं मे विपुलं गेहे पात्राणि विविधानि च ।

मन्दिरं सुन्दरं चैतत्कोऽस्य स्वामी भविष्यति

॥१९॥

मृत्युकाले मनस्तस्य दुःखेन भ्रमते यतः ।

अतोऽस्य दुर्गतिर्नूनं भ्रान्तचित्तस्य सर्वथा

॥२०॥

एवं बहुविधां चिन्तां कृत्वा सत्यवतीसुतः ।

निःश्वस्य बहुधा चोष्णं विमनाः सम्बभूव ह

॥२१॥

विचार्य मनसात्यर्थं कृत्वा मनसि निश्चयम् ।

जगाम च तपस्तप्तुं मेरुपर्वतसनिधौ

॥२२॥

मनसा चिन्तयामास कं देवं समुपास्महे ।

वरप्रदाननिपुणं वाञ्छितार्थप्रदं तथा

॥२३॥

विष्णुं रुद्रं सुरेन्द्रं वा ब्रह्माणं वा दिवाकरम् ।

गणेशं कार्तिकेयं च पावकं वरुणं तथा

॥२४॥

एवं चिन्तयतस्तस्य नारदो मुनिसत्तमः ।

यदृच्छया समायातो वीणापाणिः समाहितः

॥२५॥

तं दृष्ट्वा परमप्रीतो व्यासः सत्यवतीसुतः ।

कृत्वार्घ्यमासनं दत्त्वा पप्रच्छ कुशलं मुनिम्

॥२६॥

श्रुत्वाथ कुशलप्रश्नं पप्रच्छ मुनिसत्तमः ।

चिन्तातुरोऽसि कस्मात्त्वं द्वैपायन वदस्व मे

॥२७॥

व्यास उवाच

अपुत्रस्य गतिर्नास्ति न सुखं मानसे यतः ।

तदर्थं दुःखितश्चाहं चिन्तयामि पुन पुनः

॥२८॥

तपसा तोषयाम्यद्य कं देवं वाच्छितार्थदम् ।

इति चिन्तातुरोऽस्म्यद्य त्वामहं शरणं गतः

॥२९॥

सर्वज्ञोऽसि महर्षे त्वं कथयाशु कृपानिधे ।

कं देवं शरणं यामि यो मे पुत्रं प्रदास्यति

॥३०॥

सूत उवाच

इति व्यासेन पृष्टस्तु नारदो वेदविन्मुनिः ।

उवाच परया प्रीत्या कृष्णं प्रति महामनाः

॥३१॥

नारद उवाच

पाराशर्य महाभाग यत्त्वं पृच्छसि मामिह ।

तमेवार्थं पुरा पृष्टः पित्रा मे मधुसूदनः

॥३२॥

ध्यानस्थं च हरिं दृष्ट्वा पिता मे विस्मयं गतः ।

पर्यपृच्छत देवेशं श्रीनाथं जगतः पतिम्

॥३३॥

कौस्तुभोद्भासितं दिव्यं शङ्खचक्रगदाधरम् ।

पीताम्बरं चतुर्बाहुं श्रीवत्साङ्कितवक्षसम्

॥३४॥

कारणं सर्वलोकानां देवदेवं जगद्गुरुम् ।

वासुदेवं जगन्नाथं तप्यमानं महत्तपः

॥३५॥

ब्रह्मोवाच

देवदेव जगन्नाथ भूतभव्यभवत्प्रभो ।

तपश्चरसि कस्मात्त्वं किं ध्यायसि जनार्दन

॥३६॥

विस्मयोऽयं ममात्यर्थं त्वं सर्वजगतां प्रभुः ।

ध्यानयुक्तोऽसि देवेश किं च चित्रमतः परम्

॥३७॥

त्वन्नाभिकमलाज्जातः कर्ताहमखिलस्य ह ।

त्वत्तः कोऽप्यधिकोऽस्त्यत्र तं देवं ब्रूहि मापते

॥३८॥

जानाम्यहं जगन्नाथ त्वमादिः सर्वकारणम् ।

कर्ता पालयिता हर्ता समर्थः सर्वकार्यकृत्

॥३९॥

इच्छया ते महाराज सृजाम्यहमिदं जगत् ।

हरः संहरते काले सोऽपि ते वचने सदा

॥४०॥

सूर्यो भ्रमति चाकाशे वायुर्वाति शुभाशुभः ।

अग्निस्तपति पर्जन्यो वर्षतीश त्वदाज्ञया

॥४१॥

त्वं तु ध्यायसि कं देवं संशयोऽयं महान्मम ।

त्वत्तः परं न पश्यामि देवं वै भुवनत्रये

॥४२॥

कृपां कृत्वा वदस्वाद्य भक्तोऽस्मि तव सुव्रत ।

महतां नैव गोप्यं हि प्रायः किञ्चिदिति स्मृतिः

॥४३॥

तच्छ्रुत्वा वचनं तस्य हरिराह प्रजापतिम् ।

शृणुष्वैकमना ब्रह्मंस्त्वां ब्रवीमि मनोगतम्

॥४४॥

यद्यपि त्वां शिवं मां च स्थितिसृष्ट्यन्तकारणम् ।

ते जानन्ति जनाः सर्वे सदेवासुरमानुषाः

॥४५॥

स्रष्टा त्वं पालकश्चाहं हरः संहारकारकः ।

कृताः शक्त्येति संतर्कः क्रियते वेदपारगैः

॥४६॥

जगत्संजनने शक्तिस्त्वयि तिष्ठति राजसी ।

सात्त्विकी मयि रुद्रे च तामसी परिकीर्तिता

॥४७॥

तया विरहितस्त्वं न तत्कर्मकरणे प्रभुः ।

नाहं पालयितुं शक्तः संहर्तुं नापि शङ्करः

॥४८॥

तदधीना वयं सर्वे वर्तामः सततं विभो ।

प्रत्यक्षे च परोक्षे च दृष्टान्तं शृणु सुव्रत

॥४९॥

शेषे स्वपिमि पर्यङ्के परतन्त्रो न संशयः ।

तदधीनः सदोत्तिष्ठे काले कालवशं गतः

॥५०॥

तपश्चरामि सततं तदधीनोऽस्म्यहं सदा ।

कदाचित्सह लक्ष्या च विहरामि यथासुखम्

॥५१॥

कदाचिद्दानवैः सार्धं संग्रामं प्रकरोम्यहम् ।

दारुणं देहदमनं सर्वलोकभयङ्करम्

॥५२॥

प्रत्यक्षं तव धर्मज्ञ तस्मिन्नेकार्णवे पुरा ।

पञ्चवर्षसहस्राणि बाहुयुद्धं मया कृतम्

॥५३॥

तौ कर्णमलजौ दुष्टौ दानवौ मदगर्वितौ ।

देव देव्याः प्रसादेन निहतौ मधुकैटभौ

॥५४॥

तदा त्वया न किं ज्ञातं कारणं तु परात्परम् ।

शक्तिरूपं महाभाग किं पृच्छसि पुनः पुनः

॥५५॥

यदिच्छः पुरुषो भूत्वा विचरामि महार्णवे ।

कच्छपः कोलसिंहश्च वामनश्च युगे युगे

॥५६॥

न कस्यापि प्रियो लोके तिर्यग्योनिषु सम्भवः ।

नाभवं स्वेच्छया वामवराहादिषु योनिषु

॥५७॥

विहाय लक्ष्या सह संविहारं को याति मत्स्यादिषु हीनयोनिषु ।

शय्यां च मुक्त्वा गरुडासनस्थः करोमि युद्धं विपुलं स्वतन्त्रः

॥५८॥

पुरा पुरस्तेऽज शिरो मदीयं गतं धनुर्ज्यास्खलनात्क्व चापि ।

त्वया तदा वाजिशिरो गृहीत्वा संयोजितं शिल्पिवरेण भूयः

॥५९॥

हयाननोऽहं परिकीर्तितश्च प्रत्यक्षमेतत्तव लोककर्तः ।

विडम्बनेयं किल लोकमध्ये कथं भवेदात्मपरो यदि स्याम्

॥६०॥

तस्मान्नाहं स्वतन्त्रोऽस्मि शक्त्यधीनोऽस्मि सर्वथा ।

तामेव शक्तिं सततं ध्यायामि च निरन्तरम्

॥६१॥

नातः परतरं किञ्चिज्जानामि कमलोद्भव ।

नारद उवाच ।

इत्युक्तं विष्णुना तेन पद्मयोनेस्तु सन्निधौ

॥६२॥

तेन चाप्यहमुक्तोऽस्मि तथैव मुनिपुङ्गव ।

तस्मात्त्वमपि कल्याण पुरुषार्थाप्तिहेतवे

॥६३॥

असंशयं हृदम्भोजे भज देवीपदाम्बुजम् ।

सर्वं दास्यति सा देवी यद्यदिष्टं भवेत्तव

॥६४॥

सूत उवाच

नारदेनैवमुक्तस्तु व्यासः सत्यवतीसुतः ।

देवीपादाब्जनिष्णातस्तपसे प्रययौ गिरौ

॥६५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां प्रथमस्कन्धे देवीसर्वोत्तमेतिकथनं नाम चतुर्थोऽध्यायः ॥ ४ ॥