मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय १७

3
प्रथमस्कन्धः · 17

शुकस्य राजमन्दिरप्रवेशवर्णनम्

सूत उवाच

इत्युक्त्वा पितरं पुत्रः पादयोः पतितः शुकः ।

बद्धाञ्जलिरुवाचेदं गन्तुकामो महामनाः

॥१॥

आपृच्छे त्वां महाभाग ग्राह्यं ते वचनं मया ।

विदेहान्द्रष्टुमिच्छामि पालिताञ्जनकेन तु

॥२॥

विना दण्डं कथं राज्यं करोति जनकः किल ।

धर्मे न वर्तते लोको दण्डश्चेन्न भवेद्यदि

॥३॥

धर्मस्य कारणं दण्डो मन्वादिप्रहितः सदा ।

स कथं वर्तते तात संशयोऽयं महान्मम

॥४॥

मम माता त्वियं वन्ध्या तद्वद्भाति विचेष्टितम् ।

पृच्छामि त्वां महाभाग गच्छामि च परन्तप

॥५॥

सूत उवाच

तं दृष्ट्वा गन्तुकामं च शुकं सत्यवतीसुतः ।

आलिङ्ग्योवाच पुत्रं तं ज्ञानिनं निःस्पृहं दृढम्

॥६॥

व्यास उवाच

स्वस्त्यस्तु शक दीर्घायुर्भव पुत्र महामते ।

सत्यां वाचं प्रदत्त्वा मे गच्छ तात यथासुखम्

॥७॥

आगन्तव्यं पुनर्गत्वा ममाश्रममनुत्तमम् ।

न कुत्रापि च गन्तव्यं त्वया पुत्र कथञ्चन

॥८॥

सुखं जीवामि पुत्राहं दृष्ट्वा ते मुखपङ्कजम् ।

अपश्यन्दुःखमाप्नोमि प्राणस्त्वमसि मे सुत

॥९॥

दृष्ट्वा त्वं जनकं पुत्र सन्देहं विनिवर्त्य च ।

अत्रागत्य सुखं तिष्ठ वेदाध्ययनतत्परः

॥१०॥

सूत उवाच

इत्युक्तः सोऽभिवाद्यार्यं कृत्वा चैव प्रदक्षिणाम् ।

चलितस्तरसातीव धनुर्मुक्तः शरो यथा

॥११॥

सम्पश्यन्विविधान्देशाँल्लोकांश्च वित्तधर्मिणः ।

वनानि पादपांश्चैव क्षेत्राणि फलितानि च

॥१२॥

तापसांस्तप्यमानांश्च याजकान्दीक्षयान्वितान् ।

योगाभ्यासरतान्योगिवानप्रस्थान्वनौकसः

॥१३॥

शैवान्पाशुपतांश्चैव सौराञ्छाक्तांश्च वैष्णवान् ।

वीक्ष्य नानाविधान्धर्माञ्जगामातिस्मयन्मुनिः

॥१४॥

वर्षद्वयेन मेरुं च समुल्लङ्घ्य महामतिः ।

हिमाचलं च वर्षेण जगाम मिथिलां प्रति

॥१५॥

प्रविष्टो मिथिलां मध्ये पश्यन्सर्वर्द्धिमुत्तमाम् ।

प्रजाश्च सुखिताः सर्वाः सदाचाराः सुसंस्थिताः

॥१६॥

क्षत्रा निवारितस्तत्र कस्त्वमत्र समागतः ।

किं ते कार्यं वदस्वेति पृष्टस्तेन न चाब्रवीत्

॥१७॥

निःसृत्य नगरद्वारात्स्थितः स्थाणुरिवाचलः ।

विस्मितोऽतिहसंस्तस्थौ वचो नोवाच किञ्चन

॥१८॥

प्रतीहार उवाच

ब्रूहि मूकोऽसि किं ब्रह्मन्किमर्थं त्वमिहागतः ।

चलनं च विना कार्यं न भवेदिति मे मतिः

॥१९॥

राजाज्ञया प्रवेष्टव्यं नगरेऽस्मिन्सदा द्विज ।

अज्ञातकुलशीलस्य प्रवेशो नात्र सर्वथा

॥२०॥

तेजस्वी भासि नूनं त्वं ब्राह्मणो वेदवित्तमः ।

कुलं कार्यं च मे ब्रूहि यथेष्टं गच्छ मानद

॥२१॥

शुक उवाच

यदर्थमागतोऽस्म्यत्र तत्प्राप्तं वचनात्तव ।

विदेहनगरं द्रष्टुं प्रवेशो यत्र दुर्लभः

॥२२॥

मोहोऽयं मम दुर्बुद्धेः समुल्लङ्घ्य गिरिद्वयम् ।

राजानं द्रष्टुकामोऽहं पर्यटन्समुपागतः

॥२३॥

वञ्चितोऽहं स्वयं पित्रा दूषणं कस्य दीयते ।

भ्रामितोऽहं महाभाग कर्मणा वा महीतले

॥२४॥

धनाशा पुरुषस्येह परिभ्रमणकारणम् ।

सा मे नास्ति तथाप्यत्र सम्प्राप्तोऽस्मि भ्रमात्किल

॥२५॥

निराशस्य सुखं नित्यं यदि मोहे न मज्जति ।

निराशोऽहं महाभाग मग्नोऽस्मिन्मोहसागरे

॥२६॥

क्व मेरुर्मिथिला क्वेयं पद्भ्यां च समुपागतः ।

परिश्रमफलं किं मे वञ्चितो विधिना किल

॥२७॥

प्रारब्धं किल भोक्तव्यं शुभं वाप्यथवाशुभम् ।

उद्यमस्तद्वशे नित्यं कारयत्येव सर्वथा

॥२८॥

न तीर्थं न च वेदोऽत्र यदर्थमिह मे श्रमः ।

अप्रवेशः पुरे जातो विदेहो नाम भूपतिः

॥२९॥

इत्युक्त्या विररामाशु मौनीभूत इव स्थितः ।

ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद्द्विजोत्तमः

॥३०॥

सामपूर्वमुवाचासौ तं क्षत्ता संस्थितं मुनिम् ।

गच्छ भो यत्र ते कार्यं यथेष्टं द्विजसत्तम

॥३१॥

अपराधो मम ब्रह्मन्यन्निवारितवानहम् ।

तत्क्षन्तव्यं महाभाग विमुक्तानां क्षमा बलम्

॥३२॥

शुक उवाच

किं तेऽत्र दूषणं क्षत्तः परतन्त्रोऽसि सर्वदा ।

प्रभुकार्यं प्रकर्तव्यं सेवकेन यथोचितम्

॥३३॥

न भूपदूषणं चात्र यदहं रक्षितस्त्वया ।

चोरशत्रुपरिज्ञानं कर्तव्यं सर्वथा बुधैः

॥३४॥

ममैव सर्वथा दोषो यदहं समुपागतः ।

गमनं परगेहे यल्लघुतायाश्च कारणम्

॥३५॥

प्रतीहार उवाच

किं सुखं द्विज किं दुःखं किं कार्यं शुभमिच्छता ।

कः शत्रुर्हितकर्ता को ब्रूहि सर्वं ममाद्य वै

॥३६॥

शुक उवाच

द्वैविध्यं सर्वलोकेषु सर्वत्र द्विविधो जनः ।

रागी चैव विरागी च तयोश्चित्तं द्विधा पुनः

॥३७॥

विरागी त्रिविधः कामं ज्ञातोऽज्ञातश्च मध्यमः ।

रागी च द्विविधः प्रोक्तो मूर्खश्च चतुरस्तथा

॥३८॥

चातुर्यं द्विविधं प्रोक्तं शास्त्रजं मतिजं तथा ।

मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्वथा

॥३९॥

प्रतीहार उवाच

यदुक्तं भवता विद्वन्नार्थज्ञोऽहं द्विजोत्तम ।

तत्सर्वं विस्तरेणाद्य यथार्थं वद सत्तम

॥४०॥

शुक उवाच

रागो यस्यास्ति संसारे स रागीत्युच्यते ध्रुवम् ।

दुःखं बहुविधं तस्य सुखं च विविधं पुनः

॥४१॥

धनं प्राप्य सुतान्दारान्मानं च विजयं तथा ।

तदप्राप्य महद्दुःखं भवत्येव क्षणे क्षणे

॥४२॥

कार्यस्तस्य सुखोपायः कर्तव्यं सुखसाधनम् ।

तस्यारातिः स विज्ञेयः सुखविघ्नं करोति यः

॥४३॥

सुखोत्पादयिता मित्रं रागयुक्तस्य सर्वदा ।

चतुरो नैव मुह्येत मूर्खः सर्वत्र मुह्यति

॥४४॥

विरक्तस्यात्मरक्तस्य सुखमेकान्तसेवनम् ।

आत्मानुचिन्तनं चैव वेदान्तस्य च चिन्तनम्

॥४५॥

दुःखं तदेतत्सर्वं हि संसारकथनादिकम् ।

शत्रवो बहवस्तस्य विज्ञस्य शुभमिच्छतः

॥४६॥

कामः क्रोधः प्रमादश्च शत्रवो विविधाः स्मृताः ।

बन्धुः सन्तोष एवास्य नान्योऽस्ति भुवनत्रये

॥४७॥

सूत उवाच

तच्छ्रुत्वा वचनं तस्य मत्वा तं ज्ञानिनं द्विजम् ।

क्षत्ता प्रवेशयामास कक्षां चातिमनोरमाम्

॥४८॥

नगरं वीक्षमाणः संस्त्रैविध्यजनसङ्कुलम् ।

नानाविपणिद्रव्याढ्यं क्रयविक्रयकारकम्

॥४९॥

रागद्वेषयुतं कामलोभमोहाकुलं तथा ।

विवदत्सुजनाकीर्णं वसुपूर्णं महत्तरम्

॥५०॥

पश्यन्स त्रिविधाँल्लोकान्प्रासरद्राजमन्दिरम् ।

प्राप्तः परमतेजस्वी द्वितीय इव भास्करः

॥५१॥

निवारितश्च तत्रैव प्रतीहारेण काष्ठवत् ।

तत्रैव च स्थितो द्वारि मोक्षमेवानुचिन्तयन्

॥५२॥

छायायामातपे चैव समदर्शी महातपाः ।

ध्यानं कृत्वा तथैकान्ते स्थितः स्थाणुरिवाचलः

॥५३॥

तं मुहूर्तादुपागत्य राज्ञोऽमात्यः कृताञ्जलिः ।

प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः

॥५४॥

तत्र दिव्यं मनोरम्यं पुष्पितं दिव्यपादपम् ।

तद्वनं दर्शयित्वा तु कृत्वा चातिथिसत्क्रियाम्

॥५५॥

वारमुख्याः स्त्रियस्तत्र राजसेवापरायणाः ।

गीतवादित्रकुशलाः कामशास्त्रविशारदाः

॥५६॥

ता आदिश्य च सेवार्थं शुकस्य मन्त्रिसत्तमः ।

निर्गतः सदनात्तस्माद्व्यासपुत्रः स्थितस्तदा

॥५७॥

पूजितः परया भक्त्या ताभिः स्त्रीभिर्यथाविधि ।

देशकालोपपन्नेन नानान्नेनातितोषितः

॥५८॥

ततोऽन्तःपुरवासिन्यस्तस्यान्तःपुरकाननम् ।

रम्यं संदर्शयामासुरङ्गनाः काममोहिताः

॥५९॥

स युवा रूपवान्कान्तो मृदुभाषी मनोरमः ।

दृष्ट्वा ता मुमुहुः सर्वास्तं च काममिवापरम्

॥६०॥

जितेन्द्रियं मुनिं मत्त्वा सर्वाः पर्यचरंस्तदा ।

आरणेयस्तु शुद्धात्मा मातृभावमकल्पयत्

॥६१॥

आत्मारामो जितक्रोधो न हृष्यति न तप्यति ।

पश्यंस्तासां विकारांश्च स्वस्थ एव स तस्थिवान्

॥६२॥

तस्मै शय्यां सुरम्यां च ददुर्नार्यः सुसंस्कृताम् ।

परार्ध्यास्तरणोपेतां नानोपस्करसंवृताम्

॥६३॥

स कृत्वा पादशौचं च कुशपाणिरतन्द्रितः ।

उपास्य पश्चिमां सन्ध्यां ध्यानमेवान्वपद्यत

॥६४॥

याममेकं स्थितो ध्याने सुष्वाप तदनन्तरम् ।

सुप्त्वा यामद्वयं तत्र चोदतिष्ठत्ततः शुकः

॥६५॥

पाश्चात्यं यामिनीयामं ध्यानमेवान्वपद्यत ।

स्नात्वा प्रातःक्रियाः कृत्वा पुनरास्ते समाहितः

॥६६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकस्य राजमन्दिरप्रवेशवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥