मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय ७

3
प्रथमस्कन्धः · 7

विष्णुप्रबोधः

सूत उवाच

तौ वीक्ष्य बलिनौ ब्रह्मा तदोपायानचिन्तयत् ।

सामदानभिदादींश्च युद्धान्तान्सर्वतन्त्रवित्

॥१॥

न जानेऽहं बलं नूनमेतयोर्वा यथातथम् ।

अज्ञाते तु बले कामं नैव युद्धं प्रशस्यते

॥२॥

स्तुतिं करोमि चेदद्य दुष्टयोर्मदमत्तयोः ।

प्रकाशितं भवेन्नूनं निर्बलत्वं मया स्वयम्

॥३॥

वधिष्यति तदैकोऽपि निर्बलत्वे प्रकाशिते ।

दानं नैवाद्य योग्यं वा भेदः कार्यो मया कथम्

॥४॥

विष्णुं प्रबोधयाम्यद्य शेषे सुप्तं जनार्दनम् ।

चतुर्भुजं महावीर्यं दुःखहा स भविष्यति

॥५॥

इति सञ्चिन्त्य मनसा पद्मनालगतोऽब्जजः ।

जगाम शरणं विष्णुं मनसा दुःखनाशकम्

॥६॥

तुष्टाव बोधनार्थं तं शुभैः सम्बोधनैर्हरिम् ।

नारायणं जगन्नाथं निस्पन्दं योगनिद्रया

॥७॥

ब्रह्मोवाच

दीननाथ हरे विष्णो वामनोत्तिष्ठ माधव ।

भक्तार्तिहृद्धृषीकेश सर्वावास जगत्पते

॥८॥

अन्तर्यामिन्नमेयात्मन्वासुदेव जगत्पते ।

दुष्टारिनाशनैकाग्रचित्त चक्रगदाधर

॥९॥

सर्वज्ञ सर्वलोकेश सर्वशक्तिसमन्वित ।

उत्तिष्ठोत्तिष्ठ देवेश दुःखनाशन पाहि माम्

॥१०॥

विश्वम्भर विशालाक्ष पुण्यश्रवणकीर्तन ।

जगद्योने निराकार सर्गस्थित्यन्तकारक

॥११॥

इमौ दैत्यौ महाराज हन्तुकामौ मदोद्धतौ ।

न जानास्यखिलाधार कथं मां सङ्कटे गतम्

॥१२॥

उपेक्षसेऽतिदुःखार्तं यदि मां शरणं गतम् ।

पालकत्वं महाविष्णो निराधारं भवेत्ततः

॥१३॥

एवं स्तुतोऽपि भगवान् न बुबोध यदा हरिः ।

योगनिद्रासमाक्रान्तस्तदा ब्रह्मा ह्यचिन्तयत्

॥१४॥

नूनं शक्तिसमाक्रान्तो विष्णुर्निद्रावशं गतः ।

जजागार न धर्मात्मा किं करोम्यद्य दुःखितः

॥१५॥

हन्तुकामावुभौ प्राप्तौ दानवौ मदगर्वितौ ।

किं करोमि क्व गच्छामि नास्ति मे शरणं क्वचित्

॥१६॥

इति संचिन्त्य मनसा निश्चयं प्रतिपद्य च ।

तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः

॥१७॥

विचार्य मनसाप्येवं शक्तिर्मे रक्षणे क्षमा ।

यया ह्यचेतनो विष्णुः कृतोऽस्ति स्पन्दवर्जितः

॥१८॥

व्यसुर्यथा न जानाति गुणाच्छब्दादिकानिह ।

तथा हरिर्न जानाति निद्रामीलितलोचनः

॥१९॥

न जहाति यतो निद्रां बहुधा संस्तुतोऽप्यसौ ।

मन्ये नास्य वशे निद्रा निद्रयायं वशीकृतः

॥२०॥

यो यस्य वशमापन्तः स तस्य किङ्करः किल ।

तस्माच्च योगनिद्रेयं स्वामिनी मापतेर्हरेः

॥२१॥

सिन्धुजाया अपि वशे यया स्वामी वशीकृतः ।

नूनं जगदिदं सर्वं भगवत्या वशीकृतम्

॥२२॥

अहं विष्णुस्तथा शम्भुः सावित्री च रमाप्युमा ।

सर्वे वयं वशे यस्या नात्र किञ्चिद्विचारणा

॥२३॥

हरिरप्यवशः शेते यथान्यः प्राकृतो जनः ।

ययाभिभूतः का वार्ता किलान्येषां महात्मनाम्

॥२४॥

स्तौम्यद्य योगनिद्रां वै यया मुक्तो जनार्दनः ।

घटयिष्यति युद्धे च वासुदेवः सनातनः

॥२५॥

इति कृत्वा मतिं ब्रह्मा पद्मनालस्थितस्तदा ।

तुष्टाव योगनिद्रां तां विष्णोरङ्गेषु संस्थिताम्

॥२६॥

ब्रह्मोवाच

देवि त्वमस्य जगतः किल कारणं हि ज्ञातं मया सकलवेदवचोभिरम्ब ।

यद्विष्णुरप्यखिललोकविवेककर्ता निद्रावशं च गमितः पुरुषोत्तमोऽद्य

॥२७॥

को वेद ते जननि मोहविलासलीलां मूढोऽस्म्यहं हरिरयं विवशश्च शेते ।

ईदृक्तया सकलभूतमनोनिवासे विद्वत्तमो विबुधकोटिषु निर्गुणायाः

॥२८॥

सांख्या वदन्ति पुरुषं प्रकृतिं च यां तां चैतन्यभावरहितां जगतश्च कर्त्रीम् ।

किं तादृशासि कथमत्र जगन्निवास- श्चैतन्यताविरहितो विहितस्त्वयाद्य

॥२९॥

नाट्यं तनोषि सगुणा विविधप्रकारं नो वेत्ति कोऽपि तव कृत्यविधानयोगम् ।

ध्यायन्ति यां मुनिगणा नियतं त्रिकालं सन्ध्येति नाम परिकल्प्य गुणान् भवानि

॥३०॥

बुद्धिर्हि बोधकरणा जगतां सदा त्वं श्रीश्चासि देवि सततं सुखदा सुराणाम् ।

कीर्तिस्तथा मतिधृती किल कान्तिरेव श्रद्धा रतिश्च सकलेषु जनेषु मातः

॥३१॥

नातः परं किल वितर्कशतैः प्रमाणं प्राप्तं मया यदिह दुःखगतिं गतेन ।

त्वं चात्र सर्वजगतां जननीति सत्यं निद्रालुतां वितरता हरिणात्र दृष्टम्

॥३२॥

त्वं देवि वेदविदुषामपि दुर्विभाव्या वेदोऽपि नूनमखिलार्थतया न वेद ।

यस्मात्त्वदुद्भवमसौ श्रुतिराप्नुवाना प्रत्यक्षमेव सकलं तव कार्यमेतत्

॥३३॥

कस्ते चरित्रमखिलं भुवि वेद धीमा- न्नाहं हरिर्न च भवो न सुरास्तथान्ये ।

ज्ञातुं क्षमाश्च मुनयो न ममात्मजाश्च दुर्वाच्य एव महिमा तव सर्वलोके

॥३४॥

यज्ञेषु देवि यदि नाम न ते वदन्ति स्वाहेति वेदविदुषो हवने कृतेऽपि ।

न प्राप्नुवन्ति सततं मखभागधेयं देवास्त्वमेव विबुधेष्वपि वृत्तिदासि

॥३५॥

त्राता वयं भगवति प्रथमं त्वया वै देवारिसम्भवभयादधुना तथैव ।

भीतोऽस्मि देवि वरदे शरणं गतोऽस्मि घोरं निरीक्ष्य मधुना सह कैटभं च

॥३६॥

नो वेत्ति विष्णुरधुना मम दुःखमेत- ज्जाने त्वयात्मविवशीकृतदेहयष्टिः ।

मुञ्चादिदेवमथवा जहि दानवेन्द्रौ यद्रोचते तव कुरुष्व महानुभावे

॥३७॥

जानन्ति ये न तव देवि परं प्रभावं ध्यायन्ति ते हरिहरावपि मन्दचित्ताः ।

ज्ञातं मयाद्य जननि प्रकटं प्रमाणं यद्विष्णुरप्यतितरां विवशोऽथ शेते

॥३८॥

सिन्धूद्भवापि न हरिं प्रतिबोधितुं वै शक्ता पतिं तव वशानुगमद्य शक्त्या ।

मन्ये त्वया भगवति प्रसभं रमापि प्रस्वापिता न बुबुधे विवशीकृतेव

॥३९॥

धन्यास्त एव भुवि भक्तिपरास्तवांघ्रौ त्यक्त्वान्यदेवभजनं त्वयि लीनभावाः ।

कुर्वन्ति देवि भजनं सकलं निकामं ज्ञात्वा समस्तजननीं किल कामधेनुम्

॥४०॥

धीकान्तिकीर्तिशुभवृत्तिगुणादयस्ते विष्णोर्गुणास्तु परिहृत्य गताः क्व चाद्य ।

बन्दीकृतो हरिरसौ ननु निद्रयात्र शक्त्या तवैव भगवत्यतिमानवत्याः

॥४१॥

त्वं शक्तिरेव जगतामखिलप्रभावा त्वन्निर्मितं च सकलं खलु भावमात्रम् ।

त्वं क्रीडसे निजविनिर्मितमोहजाले नाट्ये यथा विहरते स्वकृते नटो वै

॥४२॥

विष्णुस्त्वया प्रकटितः प्रथमं युगादौ दत्ता च शक्तिरमला खलु पालनाय ।

त्रातं च सर्वमखिलं विवशीकृतोऽद्य यद्रोचते तव तथाम्ब करोषि नूनम्

॥४३॥

सृष्ट्वात्र मां भगवति प्रविनाशितुं चे- न्नेच्छास्ति ते कुरु दयां परिहृत्य मौनम् ।

कस्मादिमौ प्रकटितौ किल कालरूपौ यद्वा भवानि हसितुं नु किमिच्छसे माम्

॥४४॥

ज्ञातं मया तव विचेष्टितमद्भुतं वै कृत्वाखिलं जगदिदं रमसे स्वतन्त्रा ।

लीनं करोषि सकलं किल मां तथैव हन्तुं त्वमिच्छसि भवानि किमत्र चित्रम्

॥४५॥

कामं कुरुष्व वधमद्य ममैव मात- र्दुःखं न मे मरणजं जगदम्बिकेऽत्र ।

कर्ता त्वयैव विहितः प्रथमं स चायं दैत्याहतोऽथ मृत इत्ययशो गरिष्ठम्

॥४६॥

उत्तिष्ठ देवि कुरु रूपमिहाद्भुतं त्वं मां वा त्विमौ जहि यथेच्छसि बाललीले ।

नो चेत्प्रबोधय हरिं निहनेदिमौ य- स्त्वत्साध्यमेतदखिलं किल कार्यजातम्

॥४७॥

सूत उवाच

एवं स्तुता तदा देवी तामसी तत्र वेधसा ।

निःसृत्य हरिदेहात्तु संस्थिता पार्श्वतस्तदा

॥४८॥

त्यक्त्वाङ्गानि च सर्वाणि विष्णोरतुलतेजसः ।

निर्गता योगनिद्रा सा नाशाय च तयोस्तदा

॥४९॥

विस्पन्दितशरीरोऽसौ यदा जातो जनार्दनः ।

धाता परमिकां प्राप्तो मुदं दृष्ट्वा हरिं ततः

॥५०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां प्रथमस्कन्धे विष्णुप्रबोधो नाम सप्तमोऽध्यायः ॥ ७ ॥