मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय १५

3
प्रथमस्कन्धः · 15

शुकवैराग्यवर्णनम्

नाहं गृहं करिष्यामि दुःखदं सर्वदा पितः ।

वागुरासदृशं नित्यं बन्धनं सर्वदेहिनाम्

॥१॥

धनचिन्तातुराणां हि क्व सुखं तात दृश्यते ।

स्वजनैः खलु पीड्यन्ते निर्धना लोलुपा जनाः

॥२॥

इन्द्रोऽपि न सुखी तादृग्यादृशो भिक्षुनिःस्पृहः ।

कोऽन्यः स्यादिह संसारे त्रिलोकीविभवे सति

॥३॥

तपन्तं तापसं दृष्ट्वा मघवा दुःखितोऽभवत् ।

विघ्नान्बहुविधानस्य करोति च दिवस्पतिः

॥४॥

ब्रह्मापि न सुखी विष्णुर्लक्ष्मीं प्राप्य मनोरमाम् ।

खेदं प्राप्नोति सततं संग्रामैरसुरैः सह

॥५॥

करोति विपुलान्यत्नांस्तपश्चरति दुश्चरम् ।

रमापतिरपि श्रीमान्कस्यास्ति विपुलं सुखम्

॥६॥

शङ्करोऽपि सदा दुःखी भवत्येव च वेद्म्यहम् ।

तपश्चर्यां प्रकुर्वाणो दैत्ययुद्धकरः सदा

॥७॥

कदाचिन्न सुखी शेते धनवानपि लोलुपः ।

निर्धनस्तु कथं तात सुखं प्राप्नोति मानवः

॥८॥

जानन्नपि महाभाग पुत्रं वा वीर्यसम्भवम् ।

नियोक्ष्यसि महाघोरे संसारे दुःखदे सदा

॥९॥

जन्मदुःखं जरादुःखं दुःखं च मरणे तथा ।

गर्भवासे पुनर्दुःखं विष्ठामूत्रमये पितः

॥१०॥

तस्मादतिशयं दुःखं तृष्णालोभसमुद्भवम् ।

याञ्चायां परमं दुःखं मरणादपि मानद

॥११॥

प्रतिग्रहधना विप्रा न बुद्धिबलजीवनाः ।

पराशा परमं दुःखं मरणं च दिने दिने

॥१२॥

पठित्वा सकलान् वेदाञ्छास्त्राणि च समन्ततः ।

गत्वा च धनिनां कार्या स्तुतिः सर्वात्मना बुधैः

॥१३॥

एकोदरस्य का चिन्ता पत्रमूलफलादिभिः ।

येनकेनाप्युपायेन सन्तुष्ट्या च प्रपूर्यते

॥१४॥

भार्या पुत्रास्तथा पौत्राः कुटुम्बे विपुले सति ।

पूरणार्थं महद्दुःखं क्व सुखं पितरद्भुतम्

॥१५॥

योगशास्त्रं वद मम ज्ञानशास्त्रं सुखाकरम् ।

कर्मकाण्डेऽखिले तात न रमेऽहं कदाचन

॥१६॥

वद कर्मक्षयोपायं प्रारब्धं सञ्चितं तथा ।

वर्तमानं यथा नश्येत् त्रिविधं कर्ममूलजम्

॥१७॥

जलूकेव सदा नारी रुधिरं पिबतीति वै ।

मूर्खस्तु न विजानाति मोहितो भावचेष्टितैः

॥१८॥

भोगैर्वीर्यं धनं पूर्णं मनः कुटिलभाषणैः ।

कान्ता हरति सर्वस्वं कः स्तेनस्तादृशोऽपरः

॥१९॥

निद्रासुखविनाशार्थं मूर्खस्तु दारसंग्रहम् ।

करोति वञ्चितो धात्रा दुःखाय न सुखाय च

॥२०॥

सूत उवाच

एवंविधानि वाक्यानि श्रुत्वा व्यासः शुकस्य च ।

सम्प्राप महतीं चिन्तां किं करोमीत्यसंशयम्

॥२१॥

तस्य सुस्रुवुरश्रूणि लोचनादुःखजानि च ।

वेपथुश्च शरीरेऽभूद्ग्लानिं प्राप मनस्तथा

॥२२॥

शोचन्तं पितरं दृष्ट्वा दीनं शोकपरिप्लुतम् ।

उवाच पितरं व्यासं विस्मयोत्फुल्ललोचनः

॥२३॥

अहो मायाबलं चोग्रं यन्मोहयति पण्डितम् ।

वेदान्तस्य च कर्तारं सर्वज्ञं वेदसम्मितम्

॥२४॥

न जाने का च सा माया किंस्वित्सातीव दुष्करा ।

या मोहयति विद्वांसं व्यासं सत्यवतीसुतम्

॥२५॥

पुराणानां च वक्ता च निर्माता भारतस्य च ।

विभागकर्ता वेदानां सोऽपि मोहमुपागतः

॥२६॥

तां यामि शरणं देवीं या मोहयति वै जगत् ।

ब्रह्मविष्णुहरादींश्च कथान्येषां च कीदृशी

॥२७॥

कोऽप्यस्ति त्रिषु लोकेषु यो न मुह्यति मायया ।

यन्मोहं गमिताः पूर्वे ब्रह्मविष्णुहरादयः

॥२८॥

अहो बलमहो वीर्यं देव्या खलु विनिर्मितम् ।

माययैव वशं नीतः सर्वज्ञ ईश्वरः प्रभुः

॥२९॥

विष्ण्वंशसम्भवो व्यास इति पौराणिका जगुः ।

सोऽपि मोहार्णवे मग्नो भग्नपोतो वणिग्यथा

॥३०॥

अश्रुपातं करोत्यद्य विवशः प्राकृतो यथा ।

अहो मायाबलं चैतद्दुस्त्यजं पण्डितैरपि

॥३१॥

कोऽयं कोऽहं कथं चेह कीदृशोऽयं भ्रमः किल ।

पञ्चभूतात्मके देहे पितापुत्रेति वासना

॥३२॥

बलिष्ठा खलु मायेयं मायिनामपि मोहिनी ।

ययाभिभूतः कृष्णोऽपि करोति रोदनं द्विजः

॥३३॥

सूत उवाच

तां नत्वा मनसा देवीं सर्वकारणकारणाम् ।

जननीं सर्वदेवानां ब्रह्मादीनां तथेश्वरीम्

॥३४॥

पितरं प्राह दीनं तं शोकार्णवपरिप्लुतम् ।

अरणीसम्भवो व्यासं हेतुमद्वचनं शुभम्

॥३५॥

पाराशर्य महाभाग सर्वेषां बोधदः स्वयम् ।

किं शोकं कुरुषे स्वामिन्यथाज्ञः प्राकृतो नरः

॥३६॥

अद्याहं तव पुत्रोऽस्मि न जाने पूर्वजन्मनि ।

कोऽहं कस्त्वं महाभाग विभ्रमोऽयं महात्मनि

॥३७॥

कुरु धैर्यं प्रबुध्यस्व मा विषादे मनः कृथाः ।

मोहजालमिमं मत्वा मुञ्च शोकं महामते

॥३८॥

क्षुधानिवृत्तिर्भक्ष्येण न पुत्रदर्शनेन च ।

पिपासा जलपानेन याति नैवात्मजेक्षणात्

॥३९॥

घ्राणं सुखं सुगन्धेन कर्णजं श्रवणेन च ।

स्त्रीसुखं तु स्त्रिया नूनं पुत्रोऽहं किं करोमि ते

॥४०॥

अजीगर्तेन पुत्रोऽपि हरिश्चन्द्राय भूभुजे ।

पशुकामाय यज्ञार्थे दत्तो मौल्येन सर्वथा

॥४१॥

सुखानां साधनं द्रव्यं धनात्सुखसमुच्चयः ।

धनमर्जय लोभश्चेत्पुत्रोऽहं किं करोम्यहम्

॥४२॥

मां प्रबोधय बुद्ध्या त्वं दैवज्ञोऽसि महामते ।

यथा मुच्येयमत्यन्तं गर्भवासभयान्मुने

॥४३॥

दुर्लभं मानुषं जन्म कर्मभूमाविहानघ ।

तत्रापि ब्राह्मणत्वं वै दुर्लभं चोत्तमे कुले

॥४४॥

बद्धोऽहमिति मे बुद्धिर्नापसर्पति चित्ततः ।

संसारवासनाजाले निविष्टा वृद्धिगामिनी

॥४५॥

सूत उवाच

इत्युक्तस्तु तदा व्यासः पुत्रेणामितबुद्धिना ।

प्रत्युवाच शुकं शान्तं चतुर्थाश्रममानसम्

॥४६॥

व्यास उवाच

पठ पुत्र महाभाग मया भागवतं कृतम् ।

शुभं न चातिविस्तीर्णं पुराणं ब्रह्मसम्मितम्

॥४७॥

स्कन्धा द्वादश तत्रैव पञ्चलक्षणसंयुतम् ।

सर्वेषां च पुराणानां भूषणं मम सम्मतम्

॥४८॥

सदसज्ज्ञानविज्ञानं श्रुतमात्रेण जायते ।

येन भागवतेनेह तत्पठ त्वं महामते

॥४९॥

वटपत्रशयानाय विष्णवे बालरूपिणे ।

केनास्मि बालभावेन निर्मितोऽहं चिदात्मना

॥५०॥

किमर्थं केन द्रव्येण कथं जानामि चाखिलम् ।

इत्येवं चिन्त्यमानाय मुकुन्दाय महात्मने

॥५१॥

श्लोकार्धेन तया प्रोक्तं भगवत्याखिलार्थदम् ।

सर्वं खल्विदमेवाहं नान्यदस्ति सनातनम्

॥५२॥

तद्वचो विष्णुना पूर्वं संविज्ञातं मनस्यपि ।

केनोक्ता वागियं सत्या चिन्तयामास चेतसा

॥५३॥

कथं वेद्मि प्रवक्तारं स्त्रीपुंसौ वा नपुंसकम् ।

इति चिन्ताप्रपन्नेन धृतं भागवतं हृदि

॥५४॥

पुनः पुनः कृतोच्चारस्तस्मिनेवास्तचेतसा ।

वटपत्रे शयानः सन्नभूच्चिन्तासमन्वितः

॥५५॥

तदा शान्ता भगवती प्रादुरास चतुर्भुजा ।

शङ्खचक्रगदापद्मवरायुधधरा शिवा

॥५६॥

दिव्याम्बरधरा देवी दिव्यभूषणभूषिता ।

संयुता सदृशीभिश्च सखीभिः स्वविभूतिभिः

॥५७॥

प्रादुर्बभूव तस्याग्रे विष्णोरमिततेजसः ।

मन्दहास्यं प्रयुञ्जाना महालक्ष्मीः शुभानना

॥५८॥

सूत उवाच

तां तथा संस्थितां दृष्ट्वा हृदये कमलेक्षणः ।

विस्मितः सलिले तस्मिन्निराधारा मनोरमाम्

॥५९॥

रतिर्भूतिस्तथा बुद्धिर्मतिः कीर्तिः स्मृतिर्धृतिः ।

श्रद्धा मेधा स्वधा स्वाहा क्षुधा निद्रा दया गतिः

॥६०॥

तुष्टिः पुष्टिः क्षमा लज्जा जृम्भा तन्द्रा च शक्तयः ।

संस्थिताः सर्वतः पार्श्वे महादेव्याः पृथक्पृथक्

॥६१॥

वरायुधधराः सर्वा नानाभूषणभूषिताः ।

मन्दारमालाकुलिता मुक्ताहारविराजिताः

॥६२॥

तां दृष्ट्वा ताश्च संवीक्ष्य तस्मिन्नेकार्णवे जले ।

विस्मयाविष्टहृदयः सम्बभूव जनार्दनः

॥६३॥

चिन्तयामास सर्वात्मा दृष्टमायोऽतिविस्मितः ।

कुतो भूताः स्त्रियः सर्वाः कुतोऽहं वटतल्पगः

॥६४॥

अस्मिन्नेकार्णवे घोरे न्यग्रोधः कथमुत्थितः ।

केनाहं स्थापितोऽस्म्यत्र शिशुं कृत्वा शुभाकृतिम्

॥६५॥

ममेयं जननी नो वा माया वा कापि दुर्घटा ।

दर्शनं केनचित्त्वद्य दत्तं वा केन हेतुना

॥६६॥

किं मया चात्र वक्तव्यं गन्तव्यं वा न वा क्वचित् ।

मौनमास्थाय तिष्ठेयं बालभावादतन्द्रितः

॥६७॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकवैराग्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥