मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय ८

3
प्रथमस्कन्धः · 8

आराध्यनिर्णयवर्णनम्

ऋषय ऊचुः

सन्देहोऽत्र महाभाग कथायां तु महाद्भुतः ।

वेदशास्त्रपुराणैश्च निश्चितं तु सदा बुधैः

॥१॥

ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवाः सनातनाः ।

नातः परतरं किञ्चिद्ब्रह्माण्डेऽस्मिन्महामते

॥२॥

ब्रह्मा सृजति लोकान्वै विष्णुः पात्यखिलं जगत् ।

रुद्रः संहरते काले त्रय एतेऽत्र कारणम्

॥३॥

एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।

रजःसत्त्वतमोभिश्च संयुताः कार्यकारकाः

॥४॥

तेषां मध्ये हरिः श्रेष्ठो माधवः पुरुषोत्तमः ।

आदिदेवो जगन्नाथः समर्थः सर्वकर्मसु

॥५॥

नान्यः कोऽपि समर्थोऽस्ति विष्णोरतुलतेजसः ।

स कथं स्वापितः स्वामी विवशो योगमायया

॥६॥

क्व गतं तस्य विज्ञानं जीवतश्चेष्टितं कुतः ।

सन्देहोऽयं महाभाग कथयस्व यथाशुभम्

॥७॥

का सा शक्तिः पुरा प्रोक्ता यया विष्णुजितः प्रभुः ।

कुतो जाता कथं शक्ता का शक्तिर्वद सुव्रत

॥८॥

यस्तु सर्वेश्वरो विष्णुर्वासुदेवो जगद्गुरुः ।

परमात्मा परानन्दः सच्चिदानन्दविग्रहः

॥९॥

सर्वकृत्सर्वभृत्स्रष्टा विरजः सर्वगः शुचिः ।

स कथं निद्रया नीतः परतन्त्रः परात्परः

॥१०॥

एतदाश्चर्यभूतो हि सन्देहो नः परन्तप ।

छिन्धि ज्ञानासिना सूत व्यासशिष्य महामते

॥११॥

सूत उवाच

कः सन्देहं भिनत्त्येनं त्रैलोक्ये सचराचरे ।

मुह्यन्ति मुनयः कामं ब्रह्मपुत्राः सनातनाः

॥१२॥

नारदः कपिलश्चैव प्रश्नेऽस्मिन्मुनिसत्तमाः ।

किं ब्रवीमि महाभागा दुर्घटेऽस्मिन्विमर्शने

॥१३॥

देवेषु विष्णुः कथितः सर्वगः सर्वपालकः ।

यतो विराडिदं सर्वमुत्पन्नं सचराचरम्

॥१४॥

ते सर्वे समुपासन्ते नत्वा देवं परात्परम् ।

नारायणं हृषीकेशं वासुदेवं जनार्दनम्

॥१५॥

तथा केचिन्महादेवं शङ्करं शशिशेखरम् ।

त्रिनेत्रं पञ्चवक्त्रं च शूलपाणिं वृषध्वजम्

॥१६॥

तथा वेदेषु सर्वेषु गीतं नाम्ना त्रियम्बकम् ।

कपर्दिनं पञ्चवक्त्रं गौरीदेहार्धधारिणम्

॥१७॥

कैलासवासनिरतं सर्वशक्तिसमन्वितम् ।

भूतवृन्दयुतं देवं दक्षयज्ञविघातकम्

॥१८॥

तथा सूर्यं वेदविदः सायंप्रातर्दिने दिने ।

मध्याह्ने तु महाभागाः स्तुवन्ति विविधैः स्तवैः

॥१९॥

तथा वेदेषु सर्वेषु सूर्योपासनमुत्तमम् ।

परमात्मेति विख्यातं नाम तस्य महात्मनः

॥२०॥

अग्निः सर्वत्र वेदेषु संस्तुतो वेदवित्तमैः ।

इन्द्रश्चापि त्रिलोकेशो वरुणश्च तथापरः

॥२१॥

यथा गङ्गा प्रवाहैश्च बहुभिः परिवर्तते ।

तथैव सर्वदेवेषु विष्णुः प्रोक्तो महर्षिभिः

॥२२॥

त्रीण्येव हि प्रमाणानि पठितानि सुपण्डितैः ।

प्रत्यक्षं चानुमानं च शाब्दं चैव तृतीयकम्

॥२३॥

चत्वार्येवेतरे प्राहुरुपमानयुतानि च ।

अर्थापत्तियुतान्यन्ये पञ्च प्राहुर्महाधियः

॥२४॥

सप्त पौराणिकाश्चैव प्रवदन्ति मनीषिणः ।

एतैः प्रमाणैर्दुर्ज्ञेयं यद्ब्रह्म परमं च तत्

॥२५॥

वितर्कश्चात्र कर्तव्यो बुद्ध्या चैवागमेन च ।

निश्चयात्मिकया युक्त्या विचार्य च पुनः पुनः

॥२६॥

प्रत्यक्षतस्तु विज्ञानं चिन्त्यं मतिमता सदा ।

दृष्टान्तेनापि सततं शिष्टमार्गानुसारिणा

॥२७॥

विद्वांसोऽपि वदन्त्येवं पुराणैः परिगीयते ।

द्रुहिणे सृष्टिशक्तिश्च हरौ पालनशक्तिता

॥२८॥

हरे संहारशक्तिश्च सूर्ये शक्तिः प्रकाशिका ।

धराधरणशक्तिश्च शेषे कूर्मे तथैव च

॥२९॥

साद्या शक्तिः परिणता सर्वस्मिन्या प्रतिष्ठिता ।

दाहशक्तिस्तथा वह्नौ समीरे प्रेरणात्मिका

॥३०॥

शिवोऽपि शवतां याति कुण्डलिन्या विवर्जितः ।

शक्तिहीनस्तु यः कश्चिदसमर्थः स्मृतो बुधैः

॥३१॥

एवं सर्वत्र भूतेषु स्थावरेषु चरेषु च ।

ब्रह्मादिस्तम्बपर्यन्तं ब्रह्माण्डेऽस्मिन्महातपाः

॥३२॥

शक्तिहीनं तु निन्द्यं स्याद्वस्तुमात्रं चराचरम् ।

अशक्तः शत्रुविजये गमने भोजने तथा

॥३३॥

एवं सर्वगता शक्तिः सा ब्रह्मेति विविच्यते ।

सोपास्या विविधैः सम्यग्विचार्या सुधिया सदा

॥३४॥

विष्णौ च सात्त्विकी शक्तिस्तया हीनोऽप्यकर्मकृत् ।

द्रुहिणे राजसी शक्तिर्यया हीनो ह्यसृष्टिकृत्

॥३५॥

शिवे च तामसी शक्तिस्तया संहारकारकः ।

इत्यूह्यं मनसा सर्वं विचार्य च पुनः पुनः

॥३६॥

शक्तिः करोति ब्रह्माण्डं सा वै पालयतेऽखिलम् ।

इच्छया संहरत्येषा जगदेतच्चराचरम्

॥३७॥

न विष्णुर्न हरः शक्रो न ब्रह्मा न च पावकः ।

न सूर्यो वरुणः शक्तः स्वे स्वे कार्ये कथञ्चन

॥३८॥

तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः ।

सैव कारणकार्येषु प्रत्यक्षेणावगम्यते

॥३९॥

सगुणा निर्गुणा सा तु द्विधा प्रोक्ता मनीषिभिः ।

सगुणा रागिभिः सेव्या निर्गुणा तु विरागिभिः

॥४०॥

धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला ।

ददाति वाच्छितान्कामान्पूजिता विधिपूर्वकम्

॥४१॥

न जानन्ति जना मूढास्तां सदा माययावृताः ।

जानन्तोऽपि नराः केचिन्मोहयन्ति परानपि

॥४२॥

पण्डिताः स्वोदरार्थं वै पाखण्डानि पूथक्पृथक् ।

प्रवर्तयन्ति कलिना प्रेरिता मन्दचेतसः

॥४३॥

कलावस्मिन्महाभागा नानाभेदसमुत्थिताः ।

नान्ये युगे तथा धर्मा वेदबाह्याः कथञ्चन

॥४४॥

विष्णुश्चरत्यसावुग्र तपो वर्षाण्यनेकशः ।

ब्रह्मा हरस्त्रयो देवा ध्यायन्तः कमपि धुवम्

॥४५॥

कामयानाः सदा कामं ते त्रयः सर्वदैव हि ।

यजन्ति यज्ञान्विविधान्ब्रह्मविष्णुमहेश्वराः

॥४६॥

ते वै शक्तिं परां देवीं ब्रह्माख्यां परमात्मिकाम् ।

ध्यायन्ति मनसा नित्यं नित्यां मत्वा सनातनीम्

॥४७॥

तस्माच्छक्तिः सदा सेव्या विद्वद्भिः कृतनिश्चयैः ।

निश्चयः सर्वशास्त्राणां ज्ञातव्यो मुनिसत्तमाः

॥४८॥

कृष्णाच्छ्रुतं मया चैतत्तेन ज्ञातं तु नारदात् ।

पितुः सकाशात्तेनापि ब्रह्मणा विष्णुवाक्यतः

॥४९॥

न श्रोतव्यं न मन्तव्यमन्येषां वचनं बुधैः ।

शक्तिरेव सदा सेव्या विद्वद्भिः कृतनिश्चयैः

॥५०॥

प्रत्यक्षमपि द्रष्टव्यमशक्तस्य विचेष्टितम् ।

अतः सर्वेषु भूतेषु ज्ञातव्या शक्तिरेव हि

॥५१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे आराध्यनिर्णयवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥