पुरूरवस उर्वश्याश्च चरित्रवर्णनम्
सूत उवाच
सुद्युने तु दिवं याते राज्यं चक्रे पुरूरवाः ।
सगुणश्च सुरूपश्च प्रजारञ्जनतत्परः
॥१॥प्रतिष्ठाने पुरे रम्ये राज्यं सर्वनमस्कृतम् ।
चकार सर्वधर्मज्ञः प्रजारक्षणतत्परः
॥२॥मन्त्रः सुगुप्तस्तस्यासीत्परत्राभिज्ञता तथा ।
सदैवोत्साहशक्तिश्च प्रभुशक्तिस्तथोत्तमा
॥३॥सामदानादयः सर्वे वशगास्तस्य भूपतेः ।
वर्णाश्रमान्स्वधर्मस्थान्कुर्वन् राज्यं शशास ह
॥४॥यज्ञांश्च विविधांश्चक्रे स राजा बहुदक्षिणान् ।
दानानि च पवित्राणि ददावथ नराधिपः
॥५॥तस्य रूपगुणौदार्यशीलद्रविणविक्रमान् ।
श्रुत्वोर्वशी वशीभूता चकमे तं नराधिपम्
॥६॥ब्रह्मशापाभितप्ता सा मानुषं लोकमास्थिता ।
गुणिनं तं नृपं मत्वा वरयामास मानिनी
॥७॥समयं चेदृशं कृत्वा स्थिता तत्र वराङ्गना ।
एतावुरणकौ राजन्न्यस्तौ रक्षस्व मानद
॥८॥घृतं मे भक्षणं नित्यं नान्यत्किञ्चिन्नृपाशनम् ।
नेक्षे त्वां च महाराज नग्नमन्यत्र मैथुनात्
॥९॥भाषाबन्धस्त्वयं राजन् यदि भग्नो भविष्यति ।
तदा त्यक्त्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम्
॥१०॥अङ्गीकृतं च तद्राज्ञा कामिन्या भाषितं तु यत् ।
स्थिता भाषणबन्धेन शापानुगहकाम्यया
॥११॥रेमे तदा स भूपालो लीनो वर्षगणान्बहून् ।
धर्मकर्मादिकं त्यक्त्वा चोर्वश्या मदमोहितः
॥१२॥एकचित्तस्तु सञ्जातस्तन्मनस्को महीपतिः ।
न शशाक तया हीनः क्षणमप्यतिमोहितः
॥१३॥एवं वर्षगणान्ते तु स्वर्गस्थः पाकशासनः ।
उर्वशीं नागतां दृष्ट्वा गन्धर्वानाह देवराट्
॥१४॥उर्वशीमानयध्वं भो गन्धर्वाः सर्व एव हि ।
हृत्वोरणौ गृहात्तस्य भूपतेः समये किल
॥१५॥उर्वशीरहितं स्थानं मदीयं नातिशोभते ।
येन केनाप्युपायेन तामानयत कामिनीम्
॥१६॥इत्युक्तास्तेऽथ गन्धर्वा विश्वावसुपुरोगमाः ।
ततो गत्वा महागाढे तमसि प्रत्युपस्थिते
॥१७॥जह्रुस्तावुरणौ देवा रममाणं विलोक्य तम् ।
चक्रन्दतुस्तदा तौ तु ह्रियमाणौ विहायसा
॥१८॥उर्वशी तदुपाकर्ण्य क्रन्दितं सुतयोरिव ।
कुपितोवाच राजानं समयोऽयं कृतो मया
॥१९॥नष्टाहं तव विश्वासाद्धृतौ चोरैर्ममोरणौ ।
राजन्पुत्रसमावेतौ त्वं किं शेषे स्त्रिया समः
॥२०॥हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ।
उरणौ मे गतौ चाद्य सदा प्राणप्रियौ मम
॥२१॥एवं विलप्यमानां तां दृष्ट्वा राजा विमोहितः ।
नग्न एव ययौ तूर्णं पृष्ठतः पृथिवीपतिः
॥२२॥विद्युत्प्रकाशिता तत्र गन्धर्वैर्नृपवेश्मनि ।
नग्नभूतस्तया दृष्टो भूपतिर्गन्तुकामया
॥२३॥त्यक्त्वोरणौ गताः सर्वे गन्धर्वाः पथि पार्थिवः ।
नग्नो जग्राह तौ श्रान्तो जगाम स्वगृहं प्रति
॥२४॥तदोर्वशीं गतां दृष्ट्वा विललापातिदुःखितः ।
नग्नं वीक्ष्य पतिं नारी गता सा वरवर्णिनी
॥२५॥क्रन्दन्स देशदेशेषु बभ्राम नृपतिः स्वयम् ।
तच्चित्तो विह्वलः शोचन्विवशः काममोहितः
॥२६॥भ्रमन्वै सकलां पृथ्वीं कुरुक्षेत्रे ददर्श ताम् ।
दृष्ट्वा संहृष्टवदनः प्राह सूक्तं नृपोत्तमः
॥२७॥अये जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि ।
मां त्वं त्वन्मनसं कान्तं वशगं चाप्यनागसम्
॥२८॥स देहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया ।
खादन्त्येनं वृकाः काकास्त्वया त्यक्तं वरोरु यत्
॥२९॥एवं विलपमानं तं राजानं प्राह चोर्वशी ।
दुःखितं कृपणं श्रान्तं कामार्तं विवशं भृशम्
॥३०॥उर्वश्युवाच
मूर्खोऽसि नृपशार्दूल ज्ञानं कुत्र गतं तव ।
क्वापि सख्यं न च स्त्रीणां वृकाणामिव पार्थिव
॥३१॥न विश्वासो हि कर्तव्यः स्त्रीषु चौरेषु पार्थिवैः ।
गृहं गच्छ सुखं भुंक्ष्व मा विषादे मनः कृथाः
॥३२॥इत्येवं बोधितो राजा न विवेदातिमोहितः ।
दुःखं च परमं प्राप्तः स्वैरिणीस्नेहयन्त्रितः
॥३३॥सूत उवाच
इति सर्वं समाख्यातमुर्वशीचरितं महत् ।
वेदे विस्तरितं चैतत्संक्षेपात्कथितं मया
॥३४॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां प्रथमस्कन्धे पुरूरवस उर्वश्याश्च चरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥